मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 76, कुल 1023 में से
संदर्भ में पढ़ेंसर्वं स्म तपसा वरदानतः ॥ २४॥ न बुबोध गतं कालं कालेनेव च वंचितः। धन्योऽहंमन्यमानो न मत्समो मानसेऽपरः ॥ २५ ॥ एकस्मिन् दिवसे तत्र सभायां संस्थितोऽभवत् । वीरैः परिवृतो नाना नृत्यं पश्यन् विनोदतः ॥ २६ ॥ तत्राकाशात्तदा वाणी बभूव भयदायिका । आगतो मत्सरं हंतुं वक्रतुंडो महाबलः ॥ २७ ॥ श्रुत्वाऽऽकाशभवां वाणीं मूर्च्छितो मत्सरासुरः । पतितः शुष्ककंठश्च कंपमानांगविह्वलः ॥ २८ ॥ तं तथा पतितं दृष्ट्वाऽसुराः सर्वे भयातुराः । केनोक्तं परुषं वाक्यं हन्मस्तं त्वद्य निश्चितम् ॥ २९॥ ततः केचिन्नभोमार्गे बभ्रमुर्यत्र तत्र ते । ददृशुस्तं न तत्रापि सभायां पुनराययुः ॥ ३० ॥ सर्वैः कृतः स दैत्येशः सावधानो यथा पुरा । उपविष्टः सभामध्ये हृदयेन विदूयता ॥ ३१ ॥ उवाच हि स्वतो वाचं मत्सरो भयविह्वलः । वचनं किमिदं सत्यमनृतं वा भविष्यति ॥ ३२ ॥ कालस्य कालरूपोऽहं मम मृत्युः कथं भवेत् । असत्या नभसो वाणी न ज्ञाता न श्रुताऽपि च ॥ ३३ ॥ अष्टावरणसंयुक्तं ब्रह्मांडं सर्वमंजसा । अष्टावरणयुक्तेभ्यो मम मृत्युर्न जायते ॥ ३४ ॥ कोऽसौ वक्त्राननो जंतुः कथितः कुत्र वर्तते । तं हनिष्यामि दृश्यश्चेत् क्षणमात्रान्न संशयः ॥ ३५ ॥ इति श्रुत्वा वचस्तस्य मत्सरस्य दुरात्मनः । ऊचुः प्रह्लादमुख्यास्तं विनयेन समन्विताः ॥ ३६ ॥ प्रल्हादादय ऊचुः । मा कुरुष्व महाभाग चिंतां शत्रुनिषूदन । तव मृत्युः कथं भावी पश्चात् सूर्योदयः कथम् ॥ ३७ ॥ अस्माकं शत्रुभावेन स्थिता देवाः सहेश्वराः । जितास्तदपि सर्वे ते छिद्रदर्शिन एव च ॥ ३८ ॥ तैश्च माया कृता च स्यादीदृशी वाऽसुरोत्तम । अन्यथा ते महामृत्युः कथं भवति मानद ॥ ३९ ॥ नेयमाकाशवाणी भोस्तस्माद्देवान् सहेश्वरान् । हनिष्यामोऽद्य दैत्येश शत्रुहीनास्तदा वयम् ॥ ४० ॥ तेषां वचनमाकर्ण्य मत्सरश्चैव हर्षितः । सत्यमुक्तं भवद्भिर्यद्हंतव्यं विद्विषां वधे ॥ ४१ ॥ मत्सराज्ञां समादाय निःसृता दैत्यपुंगवाः । विचिन्वंति स्म सर्वत्र देवान् सर्वान् प्रयत्नतः ॥ ४२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः ॥