भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 77, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 77

Here is the precise Devanagari transcription of the provided page, preserving the original layout and lineation:

खं. १ अ. ३४ पान ७७ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दैत्या भ्रमणयुक्तास्ते आययुर्युद्धिसन्निधौ । यत्र देवगणैर्युक्तो वक्रतुंडः प्रतापवान् ॥ १ ॥ दृष्ट्वा तं वक्रतुंडं ते भयभीतास्तदाऽभवन् । महाकायं महावीर्यं नरनागस्वरूपिणम् ॥ २ ॥ नानावीरैः परिवृतं प्रलयाग्निसमैः परैः । देवैर्हर्षसमायुक्तैः संस्तुतं भक्तिभावितैः ॥ ३ ॥ मनसा दैत्यपाः सर्वे मेनिरे मृत्युमात्मनः । सत्याकाशभवा वाणी सोऽयं वक्त्राननो भवेत् ॥ ४॥ वक्रतुंड जय त्वं वै जय त्वं जय सर्वदा । देवैः प्रकथ्यते तस्माद्वक्रतुंडोऽय- मागतः ॥ ५॥ यदि युद्धं करिष्यामोऽनेन सार्धं महाद्भुतम् । युद्धे वयं मृताश्चेद्वा वृत्तांतं को निवेदयेत् ॥ ६ ॥ अतो मत्सरदैत्येशं गमिष्यामो जवान्विताः । एवं निश्चययुक्तास्ते मत्सरं जग्मुरादरात् ॥ ७ ॥ स देवो वक्रतुंडस्तु दूरतः पंचयोजनम् । ईर्ष्यापूरं परित्यज्य स्थितः कृत्वा सभां प्रभुः ॥ ८ ॥ दैत्यास्ते मत्सरं गत्वा वृत्तांतं तं न्यवेदयन् । भो राजन् सत्यमेवेदं वचनं खसमुद्भवम् ॥ ९॥ नरकुंजररूपेण दृष्टो वक्त्राननः प्रभुः । देवैः समावृतो भूप विचारं कुरु सर्वथा ॥ १० ॥ तेषां वचनमाकर्ण्य मत्सराश्चितयान्वितः। बभूव म्लानतुंडश्च ज्ञात्वा शत्रुं महाबलम् ॥ ११ ॥ ततः क्रोधसमाविष्टस्तं हंतुं कृतवान् मनः । आज्ञापयत् स दैत्येंद्रान् सज्जिता भो भवंत्विति ॥१२॥ गमिष्यामि रिपुं हंतुं वक्रतुंडं महाबलम् । सदेवं सपरीवारं ततो हृदि सुखं भवेत् ॥ १३ ॥ आज्ञामात्रेण दैत्येशाः सन्नद्धाः समुपाद्ययुः । हर्षेण महता युक्ता देवमर्दन- लालसाः ॥ १४ ॥ चतुरंगं महत्सैन्यं निःसृतं नगराद्बहिः । तन्मध्ये मत्सरो वीरः शुशुभे रथसंगतः ॥ १५ ॥ आगतांस्ते त्वराभाजो वक्रतुंडः स्थितो यतः। तान् दृष्ट्वा देवसंघास्तं शशंसुर्गणनायकम् ॥ १६ ॥ स्वामिन् समागतो दैत्यः स्वयमेव महाप्रभो । यत्करिष्यसि देवस्त्वं त्वरया तत् कुरु प्रभो ॥ १७॥ अस्मान्नोचेच्च दैतेया हनिष्यंति महाबलाः । मरणं प्राप्तमस्माभिः कुत्र स्थातुं न शक्यते ॥ १८ ॥ देवानां वक्रतुंडश्च श्रुत्वा वचनमादरात् । उवाच विस्मितो भूत्वा मा भयं कुरुत प्रियाः ॥ १९ ॥ स दैत्यं मत्सरं देवा हनिष्यामि न संशयः । पश्यंतु कौतुकं युद्धे मदीयं परमाद्भुतम् ॥ २० ॥ इत्युक्त्वा वक्रतुंडः स सिंहारूढोऽभवत्प्रभुः । पाशांकुशकरो गर्जन्मेघनादसमस्वनः ॥ २१ ॥ तस्य शब्देन संत्रस्तं त्रैलोक्यं सचराचरम् । भयभीता दैत्यगणा बभूवुश्च प्रजापते ॥ २२॥ मत्सरो हृदि संत्रस्तो वचनं चेदमब्रवीत् । दृश्यते प्रबला सेना किं भविष्यति दैत्यपाः ॥ २३ ॥ भययुक्तं वचस्तस्य श्रुत्वा तं दैत्यपा जगुः । वयं योत्स्यामहे स्वामिन् पश्य त्वं युद्धजं महः ॥ २४ ॥ इत्युक्त्वा मत्सरं सर्वे प्रह्लादप्रमुखाः सुराः । वक्रतुंडं ययुर्वीरा