भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 79, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 79

शीर्षक (Header): खं. १ अ. ३५ | पान ७९


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं परस्परं घोरं युद्धं कृत्वा महाबलाः । न जयं प्राप्नुवंति स्म कर्म चैव यथासुरम् ॥ १ ॥ तं दृष्ट्वा परमाश्चर्यं प्रह्लादः कुपितोऽभवत् । धनुः सज्जं महाघोरं कृत्वा बाणान् समाददे ॥ २ ॥ मंत्रयन्नलास्त्रेण चिक्षेप स शरान् बहून् । तेभ्यो जातो महानग्निः प्रलयनलसंनिभः ॥ ३ ॥ ददाह देवसेनां स प्रह्लादोऽसुरसत्तमः । भयभीताः सुराः सर्वे जज्वलुरच समंततः ॥ ४ ॥ हाहाकारं प्रकुर्वंतो दग्धास्ते जातवेदसा । मर्यादां रणभूमिं च तथा त्यक्त्वा पलायिताः ॥ ५ ॥ महाग्निः सर्वतस्तान् वै सुरान् वाहनसंयुतान् । प्रबलो दाहयामास प्रह्लादेन प्रचोदितः ॥ ६ ॥ तेन दैत्यगणाः सर्वे हर्षयुक्ता बभूविरे । प्रह्लादं पूजयंतस्ते साधु साधु कृतं त्वया ॥ ७ ॥ सर्वान् पलायमानान् स सुरान् दृष्ट्वा पुरंदरः । मेघास्त्रं योजयामास धनुषि क्रोधसंयुतः ॥ ८ ॥ एतस्मिन्नंतरे तत्र प्रह्लादः समुपागतः । खड्गेन सहसेंद्रस्य धनुश्चिच्छेद लाघवात् ॥ ९ ॥ तत इंद्रः प्रकोपेन वज्रं तत्याज तं प्रति । वज्रेण निहतो भूमौ प्रह्लादः स पपात ह ॥ १० ॥ पतितं तं तथा दृष्ट्वा महिषासुर आगतः । गदया देवराजं तं जघान खलु मस्तके ॥ ११ ॥ गदया निहतः सोऽपि पपात रणमूर्धनि । मघवा मूर्च्छितोऽत्यंतं मुखाद्रक्तं समुद्वमन् ॥ १२ ॥ ततोऽग्निः परमक्रुद्धो जज्वल ज्वालयासुरम् । महिषो जलरूपोऽभूत् प्लावयामास तं क्षणात् ॥ १३ ॥ निस्तेजाश्रितया युक्ताः शक्तिं चिक्षेप पावकः। तां खड्गेन महादैत्यः पातयामास भूतले ॥१४॥ ततो महिषरूपेण शृंगाभ्यां दहनं पुनः। चकार मूर्च्छितं क्रुद्धः पपात महसां निधिः ॥ १५ ॥ ततो ययौ यमस्तं वै दंडघातेन सोऽहनत् । जग्रे संमूर्च्छितं दैत्यं महिषं भयदायकम् ॥ १६ ॥ एतस्मिन्नंतरे तत्र प्रतापी च विरोचनः । खड्गेन तं जघानाशु यमं सर्वभयंकरम् ॥ १७ ॥ पपात खड्गाघातेन यमो यमवतां प्रभुः। वरुणस्तं बबंधापि पाशेन च विरोचनम् ॥ १८ ॥ ततस्तं मोचयामास पाशं छित्वा महाबलः । अंधकः खड्गाघातेन गदया वरुणं तथा ॥ १९ ॥ मूर्च्छितं च चकाराऽभूदुत्थितः स विरोचनः । ततो वायुः कुबेरश्च तावुभौ क्रोधमूर्च्छितौ ॥ २० ॥ वायुना खड्गाघातेन मूर्च्छितस्त्वमितौजसा। अंधकासुरनामाऽसौ पपात धरणीतले ॥ २१ ॥ शांबरेण हतो वायुर्मुसलेन महाबलः । स पपात तदा भूमौ देवः सर्वधरोऽपि सन् ॥ २२ ॥ विरोचनेन बाणौघैस्ताडितो धनरक्षकः। मर्मभेदिभिरत्युग्रैः पपाताऽसौ महाबलः ॥ २३ ॥ एतस्मिन्नंतरे तत्र विष्णुः स्वयमुपागतः। गदया तं जघानैव विरोचनमथो रिपुम् ॥ २४ ॥ भिन्नोरसं च दैत्येशं मृततुल्यं चकार ह। अधंकं चक्रघातेन पातयामास केशवः ॥ २५ ॥