मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 80, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ३५ पान ८० शंबरं बाणजालैः संपातयामास भूतले । कुपितो माधवस्तत्र चक्रं तत्याज दारुणम् ॥ २६ ॥ चक्रेण क्षुरधारेण हता दैत्याः सहस्रशः । गदया मूर्च्छिताः केचिन् मुख्या ये तत्र संस्थिताः ॥ २७ ॥ एतस्मिन् समरे वीरः प्रह्लादः संबभूव ह । सावधानो महाभागस्तं ययौ क्रोधदीपितः ॥ २८ ॥ बाणवृष्टिं चकाराऽसौ महोग्रां देवनाशिनीम् । तया तांश्छिन्नभिन्नांगान् देवां- श्चक्रे धरातले ॥ २९ ॥ गदया देवदेवेशं केशवं युयुधे भृशम् । खड्गेन मूर्च्छितं चक्रे गरुडं दैत्यनायकः ॥ ३० ॥ ततश्च कुपितो विष्णुस्तं हंतुं चक्रमाददे । बहुधा भ्रामयामास तत्याज ह्यस्त्रमुत्तमम् ॥ ३१ ॥ तन्मस्तकानि दैत्यानां चक्रं चिच्छेद सर्वतः । बाहूदरभुजांश्चैव चकार शकलीकृतान् ॥ ३२ ॥ सहसाऽसुरराजं च प्रह्लादं हंतुमाययौ । चक्रं तेजोमयं दिव्यं समीपे ज्वलनप्रभम् ॥ ३३ ॥ प्रह्लादस्त्वरयास्त्रं च महाधनुषि संदधे । नारायणात्मकं चैव हृदि स्मृत्वा जनार्दनम् ॥ ३४ ॥ मुमोच तन् महास्त्रं वै तेजोरूपममोघकम् । अनिवार्यं जगद्भस्मकारकं कुपितः परः ॥ ३५ ॥ नारायणास्त्रवेगेन चक्रं प्रतिहतं ततः । देवान् सर्वान् ददाहापि महास्त्रं सर्वतः परम् ॥ ३६ ॥ हृदये सहसागत्य पतितं केशवस्य तत् । मूर्च्छितं मृततुल्यं तं चकार च जनार्दनम् ॥ ३७ ॥ ततो मद्युता दैत्या जगर्जुर्हर्षसंयुताः । प्रशंसुर्महाभागं प्रह्लादं तेजसान्वितम् ॥ ३८ ॥ नारायणास्त्रसंदग्धान् देवर्षीन् वीक्ष्य शंकरः । क्षुभितो देवरक्षार्थं पिनाकं स्वकरे दधौ ॥ ३९ ॥ महास्त्रं तत् पाशुपतं संदधे क्रोधसंयुतः । बलेन मोचयामास त्वरावान् शंकरोऽभवन् ॥ ४० ॥ महास्त्रं वै पाशुपतं तथा नारायणात्मकम् । उभे अस्त्रे संयुगे ते युयुधाते विहायसि ॥ ४१ ॥ देवा मुनिगणास्तत्र हर्षयुक्ता बभूविरे । प्रशंसुर्महादेवं देवदेवं च शंकरम् ॥ ४२ ॥ ततः पशुपतिः क्रुद्धस्त्रिशूलं संदधे मुने । तत्याज दैत्यसेनायां कुर्वाणं प्रलयं परम् ॥ ४३ ॥ त्रिशूलं च करोति स्म मृतान् दैत्यान् सहस्रशः । प्रह्लादहृदयेकस्मात् पपात यमसन्निभम् ॥ ४४ ॥ तेनाऽसौ पतितो भूमौ वाताहत इव द्रुमः । दैत्यसैन्ये महानासीत्तदा कोलाहलः परः ॥ ४५ ॥ ततस्त्रिशूलवेगेन शितेन सहसाऽसुराः । मूर्च्छिताश्च कृताः केचित् केचिद्वै मारिता मुने ॥ ४६ ॥ सर्वेऽसुरगणास्तत्र पतिता रणमूर्धनि । ततो मत्सरपुत्रौ द्वौ शंकरं जग्मतुः प्रभो ॥ ४७ ॥ सुंदर- प्रियनामा च विषयप्रिय एव यः । ऊचतुः शंकरं तत्र क्रोधयुक्तौ महासुरौ ॥ ४८ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते शिवविजयो नाम पंचत्रिंशोऽध्यायः ॥