भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. १ अ. ३५ पान ८० शंबरं बाणजालैः संपातयामास भूतले । कुपितो माधवस्तत्र चक्रं तत्याज दारुणम् ॥ २६ ॥ चक्रेण क्षुरधारेण हता दैत्याः सहस्रशः । गदया मूर्च्छिताः केचिन् मुख्या ये तत्र संस्थिताः ॥ २७ ॥ एतस्मिन् समरे वीरः प्रह्लादः संबभूव ह । सावधानो महाभागस्तं ययौ क्रोधदीपितः ॥ २८ ॥ बाणवृष्टिं चकाराऽसौ महोग्रां देवनाशिनीम् । तया तांश्छिन्नभिन्नांगान् देवां- श्चक्रे धरातले ॥ २९ ॥ गदया देवदेवेशं केशवं युयुधे भृशम् । खड्गेन मूर्च्छितं चक्रे गरुडं दैत्यनायकः ॥ ३० ॥ ततश्च कुपितो विष्णुस्तं हंतुं चक्रमाददे । बहुधा भ्रामयामास तत्याज ह्यस्त्रमुत्तमम् ॥ ३१ ॥ तन्मस्तकानि दैत्यानां चक्रं चिच्छेद सर्वतः । बाहूदरभुजांश्चैव चकार शकलीकृतान् ॥ ३२ ॥ सहसाऽसुरराजं च प्रह्लादं हंतुमाययौ । चक्रं तेजोमयं दिव्यं समीपे ज्वलनप्रभम् ॥ ३३ ॥ प्रह्लादस्त्वरयास्त्रं च महाधनुषि संदधे । नारायणात्मकं चैव हृदि स्मृत्वा जनार्दनम् ॥ ३४ ॥ मुमोच तन् महास्त्रं वै तेजोरूपममोघकम् । अनिवार्यं जगद्भस्मकारकं कुपितः परः ॥ ३५ ॥ नारायणास्त्रवेगेन चक्रं प्रतिहतं ततः । देवान् सर्वान् ददाहापि महास्त्रं सर्वतः परम् ॥ ३६ ॥ हृदये सहसागत्य पतितं केशवस्य तत् । मूर्च्छितं मृततुल्यं तं चकार च जनार्दनम् ॥ ३७ ॥ ततो मद्युता दैत्या जगर्जुर्हर्षसंयुताः । प्रशंसुर्महाभागं प्रह्लादं तेजसान्वितम् ॥ ३८ ॥ नारायणास्त्रसंदग्धान् देवर्षीन् वीक्ष्य शंकरः । क्षुभितो देवरक्षार्थं पिनाकं स्वकरे दधौ ॥ ३९ ॥ महास्त्रं तत् पाशुपतं संदधे क्रोधसंयुतः । बलेन मोचयामास त्वरावान् शंकरोऽभवन् ॥ ४० ॥ महास्त्रं वै पाशुपतं तथा नारायणात्मकम् । उभे अस्त्रे संयुगे ते युयुधाते विहायसि ॥ ४१ ॥ देवा मुनिगणास्तत्र हर्षयुक्ता बभूविरे । प्रशंसुर्महादेवं देवदेवं च शंकरम् ॥ ४२ ॥ ततः पशुपतिः क्रुद्धस्त्रिशूलं संदधे मुने । तत्याज दैत्यसेनायां कुर्वाणं प्रलयं परम् ॥ ४३ ॥ त्रिशूलं च करोति स्म मृतान् दैत्यान् सहस्रशः । प्रह्लादहृदयेकस्मात् पपात यमसन्निभम् ॥ ४४ ॥ तेनाऽसौ पतितो भूमौ वाताहत इव द्रुमः । दैत्यसैन्ये महानासीत्तदा कोलाहलः परः ॥ ४५ ॥ ततस्त्रिशूलवेगेन शितेन सहसाऽसुराः । मूर्च्छिताश्च कृताः केचित् केचिद्वै मारिता मुने ॥ ४६ ॥ सर्वेऽसुरगणास्तत्र पतिता रणमूर्धनि । ततो मत्सरपुत्रौ द्वौ शंकरं जग्मतुः प्रभो ॥ ४७ ॥ सुंदर- प्रियनामा च विषयप्रिय एव यः । ऊचतुः शंकरं तत्र क्रोधयुक्तौ महासुरौ ॥ ४८ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते शिवविजयो नाम पंचत्रिंशोऽध्यायः ॥

शीर्षक: खं. १ अ. ३६ | पान ८१


॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । वद ब्रह्मन्विशेषेण मम हर्षकरीं कथाम् । विस्तरेण महाभाग वक्रतुंडप्रभावजाम् ॥ १ ॥ मुद्गल उवाच । न शक्यतेऽग्निपुत्रेण विस्तरेण पिनाकिना । शेषेण विधिना वक्तुं संक्षेपेण ब्रवीम्यतः ॥ २॥ दक्ष उवाच । किमुक्तं दैत्यपुत्राभ्यां शंकरेण श्रुतं वद । श्रुत्वा तत् किं कृतं तेन महादेवेन मानद ॥ ३॥ दैत्याभ्यां किं कृतं तत्र तद्वद त्वं विशेषतः । श्रुत्वा त्वद्वदनांभोजात् कथां तृप्याम्यहं न च ॥ ४॥ सूत उवाच । एवमादरमाज्ञाय दक्षस्य प्रयतात्मनः । मुद्गलस्त- मुवाचाथ हर्षयुक्तः स शौनक ॥ ५ ॥ मुद्गल उवाच । दैत्यपुत्रौ महावीर्यौ शंकरं क्रोधसंयुक्तौ । यदूचतुश्च तत्सर्वं शृणु दक्ष प्रजापते ॥ ६ ॥ मत्सरपुत्रावूचतुः । तिष्ठ तिष्ठ महादेव पश्य पौरुषमावयोः । ज्ञातं त्वदीयं सामर्थ्यं न च गंतुं त्वमर्हसि ॥ ७॥ अस्मदीया महासेना हता सर्वा सदाशिव । दैत्येंद्राः पातिताः सर्वे त्वया शंकर तेजसा ॥८॥ पौरुषं दर्शितं पूर्णं सर्वदेवातिगं महत् । अधुना त्वां हनिष्यावो वक्रतुंडस्य पश्यतः ॥९॥ त्वां हत्वा वक्रतुंडं च हनिष्यावो न संशयः । पश्चात् सर्वान् सुरेंद्रांश्च ततो मुनिगणान् सुरान् ॥ १० ॥ एवमुक्त्वा महादेवं धनुः सज्जं प्रचक्रतुः । तावुवाच महादेवः स्मयमान इदं वचः ॥ ११ ॥ शिव उवाच । भवद्भ्यां गदितं क्रूरं तत्सर्वं तथ्यमेव च । अधुनाऽयं समुत्पन्नो वक्रतुंडो महाबलः ॥ १२॥ भूभारहरणार्थं वै भवतां नाशनाय च । अधुना स गतः कालो विपरीतेन कर्मणा ॥ १३ ॥ वक्रतुंडप्रसादेन हनिष्यामि समत्सरम् । असुरं बलमत्यर्थं पापरूपं न संशयः ॥ १४ ॥ इत्युक्त्वा बाणवृष्टिं स चक्रे वै शंकरः प्रभुः । महोग्रां कालरूपां वै प्रलयस्य प्रकाशिनीम् ॥ १५ ॥ तां च चिच्छिदतुर्दैत्यौ स्वशरैरतिवेगितैः । तौ मंडपं क्षणेनैव चक्रतुः शरसंभवम् ॥ १६ ॥ तद्बाणैरपि ते देवाश्छिन्ना भिन्नाः कृता मुने । शंकरो विस्मितो भूत्वा शूलमुग्रं मुमोच ह ॥ १७ ॥ आगतं कालरूपं च शूलं दृष्ट्वा महासुरौ । महास्त्रं तौ पाशुपतं मोचयामासतुस्तदा ॥ १८ ॥ अनिवार्यं महोग्रं वै सर्वभस्मकरं परम् । जज्वल तेजसा सर्वं ब्रह्मांडं व्याकुलं ततः ॥ १९ ॥ त्रिशूलं निष्फलं तेन महास्त्रेण कृतं क्षणात् । शिवस्य हृदये गत्वा पपात भयदायकम् ॥ २० ॥ मूर्च्छितः शंकरस्तेन पतितो धरणीतले । हाहाकारश्च सर्वत्र देवसैन्ये ततोऽभवत् ॥ २१ ॥ पतितं शंकरं दृष्ट्वा वक्रतुंडो महाबलः । स्वां सेनां प्रेरयामास दैत्यमर्दनलालसः ॥ २२॥ गणेशदूतममुख्यास्तेष्वष्टौ तत्राययुः परे । स्वां स्वां सेनां समादाय महाकाया महाबलाः ॥ २३ ॥ प्रमोपश्चैष आमोदस्तथा ब्रह्मप्रियो मुने । योगप्रियश्च स्वानंदभोक्ता ज्ञानमयश्च हि ॥ २४ ॥ सर्वगः सर्वविच्चैव क्रोधयुक्ताः समाययुः । तैः प्रेक्षिताः सुराः सर्वे गतमूर्च्छास्तदाऽभवन् ॥ २५॥

खं. १ अ. ३६ पान ८२

श्रमहीनाः क्षतादिभ्यो हीना जाताः प्रभावतः । तेजसा द्विगुणाश्चैव हृष्टपुष्टा यथा मुने ॥ २६ ॥ एतस्मिन्नंतरे तत्र कविना जीवितास्तथा । दैत्याः समुत्थिताः सर्वे नीरुजश्च महाबलाः ॥ २७ ॥ प्रह्लादप्रमुखा वीराश्चक्रुर्नादं समंततः । ब्रह्मांडमखिलं तेन सनादमभवत् परम् ॥ २८ ॥ ततो देवगणाः सर्वे शंखनादं प्रचक्रिरे । तेन दैत्यगणा भीता बधिरा इव ते स्थिताः ॥ २९ ॥ शंखानां चैव भेरीणां दुंदुभीनां स्वरैः परैः । वीराणां क्ष्वेडितेनैव हेषितैर्बृंहितस्वनैः ॥ ३० ॥ रथनेमिस्वनैः सर्वं व्याप्तमासीन्नभो मुने । परस्परं संपदं च वीक्ष्य वीक्ष्य च विस्मिताः ॥ ३१ ॥ एतस्मिन्नेव काले ते प्रमोदाद्या गणा ययुः । कुपिताः शस्त्रसंवृष्टिं चक्रिरे दैत्यमोहिनीम् ॥ ३२ ॥ तेषां शस्त्राणि सर्वाणि ह्यमोघानि महामुने । चिच्छिदुर्दैत्यराजानां मस्तकानि भुजादिकान् ॥ ३३ ॥ ब्रह्मप्रियो महाबाहुः शुक्रं धृत्वा प्रपश्यताम् । असुराणां गतो दूरं गुहायां चाक्षिपन् मुनिम् ॥ ३४ ॥ गतं शुक्रं तदा दृष्ट्वा दैत्याः सर्वे भयातुराः । हाहाकारं प्रचक्रुस्ते किं भविष्यति विह्वलाः ॥ ३५ ॥ रक्षिता गुरुरत्युग्रः पश्यतां नो महासुराः । नीतश्च मरणं तस्माच्छ्रेष्ठं किं न मृता वयम् ॥ ३६ ॥ अधुना क्व गमिष्यामस्तस्माद्युद्ध्यमहे वयम् । मरिष्यामोऽथ वा मोचयिष्यामस्तं स्वतेजसा ॥ ३७ ॥ परस्परं चेति दैत्या उक्त्वा मरणनिश्चयाः । उदायुधाश्च सर्वे ते युयुधुर्देवसैनिकैः ॥ ३८ ॥ व्यंगा देवाः कृतास्तैस्ते पतिता रणमूर्धनि । हाहाकारश्च सर्वत्र देवसैन्ये प्रवर्तितः ॥ ३९ ॥ ततो ब्रह्मप्रियाद्या ये कुपिताः शस्त्रधारिणः । परशुप्रमुखैः शस्त्रैस्त्रिशूलांकुशपाशकैः ॥ ४० ॥ शस्त्रैर्दैत्यान्निजघ्नुस्तान् कालरुद्रा इव प्रजाः । तैरस्त्रैर्दैत्यसेनायाः कदनं कृतमंजसा ॥ ४१ ॥ बहवश्च मृता दैत्या मूर्च्छिताश्चापरेऽवनौ । पेतुस्ते सर्वशो वीरा प्रह्लादप्रमुखा मुने ॥ ४२ ॥ ततो दैत्यकुमारौ तावागतौ रणमूर्धनि । ऊचतुस्तान् गणांस्तत्र प्रमोदाद्यान् महा- सुरौ ॥ ४३ ॥ दैत्यपुत्रावूचतुः । प्रमोदामोदकाद्याश्च भवद्भिर्बलमंजसा । हतं सर्वं च दैत्यानां दैत्यश्रेष्ठाः प्रमूर्च्छिताः ॥ ४४ ॥ अधुना मरणं प्राप्तं समीपे वः प्रदृश्यताम् । शस्त्रैस्तीक्ष्णैर्हनिष्यावो वक्रतुंडयुतान् खलान् ॥ ४५ ॥ एवमुक्त्वा स्वबाणांस्तौ ववर्षतुरथासुरौ । ततस्तयोर्बलं वीक्ष्य द्वौ वीरौ समुपस्थितौ ॥ ४६ ॥ सर्वगः सर्वविच्चैव सबलौ धृतकार्मुकौ । बाणवृष्टिं तु संवार्य बाणांश्चिक्षिपतुः परान् ॥ ४७ ॥ अमोघाः सर्वबाणास्ते जग्मुःकालयमोपमाः । दैत्यान् सर्वान् प्रचक्रुस्ते छिन्न- भिन्नात्मकान् मुने ॥ ४८ ॥ मृता मुमूर्षवः केचित्पतिता धरणीतले । अकस्माद्रक्तसंभूता नदी तत्र प्रवर्तिता ॥ ४९ ॥ तयोर्बलं निरीक्ष्यैव कंपितौ दैत्यपुंगवौ । अग्न्यस्त्रं धनुषि श्रेष्ठं दधतुः क्रोधसंयुतौ ॥ ५० ॥ यावन् मुमुचतुस्तावत् परशु-

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण (Transcription) प्रस्तुत है:

खं. १ अ. ३७ पान ८३ यमसन्निभौ । आगतौ च शिरश्छेदं दैत्ययोश्चक्रतुः क्षणात् ॥ ५१ ॥ मत्सरस्य सुतौ वीक्ष्य मृतौ सर्वे भयातुराः । मत्सरं शरणं जग्मुरुचुर्वृत्तांतमंजसा ॥ ५२ ॥ दैत्या ऊचुः । शृणु दैत्येश वृत्तांतं रणभूमिसमुद्भवम् । महाभयंकरं घोरं कथितुं शक्यते न च ॥ ५३ ॥ प्रह्लादप्रमुखाः सर्वे घातिता रणमूर्धनि । मृततुल्या मृता वा किमस्माभिर्ज्ञायते न च ॥ ५४ ॥ तव पुत्रौ महावीर्यौ मृतौ संग्राममंडले । कृत्वा युद्धं महाघोरं परशुभ्यां महामते ॥ ५५ ॥ अकस्माद्वक्रतुंडस्य गणौ द्वौ समुपस्थितौ । ताभ्यां चैव हतौ वीरौ स्वल्पकालेन दैत्यप ॥ ५६ ॥ वक्रतुंडसमश्चैव न भूतो न भविष्यति । इति स्वांते च संज्ञाय देवं तं शरणं व्रज ॥ ५७ ॥ नोचेद्दैत्यगणाः सर्वे नाशं यास्यंति निश्चितम् । मा गर्वं कुरु दैत्येश दैत्यान् रक्ष महामते ॥ ५८ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते सुंदरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः । मुद्गल उवाच । दैत्यानां वचनं श्रुत्वा स दैत्यो मत्सरासुरः । मूर्च्छितः सहसा भूमौ पपात भयविह्वलः ॥ १ ॥ अनिश्वासन् दैत्यपस्तु तैराशु विधृतो नृपः । सावधानं प्रचक्रुस्तं प्रयत्नः परमैस्ततः ॥ २ ॥ द्विमुहूर्तेन संबुद्धो मत्सरः प्रललाप ह । किं जातं भावि वा किं वा दैवेन विफलं कृतम् ॥ ३ ॥ तपसा त्वमरत्वं च पृथिवीराज्यमंजसा । मया प्राप्तं स्वसामर्थ्यादतुलं तद् वृथा कृतम् ॥ ४ ॥ अहो हि बलवद् दैवं प्रयत्नो निष्फलो मतः । अचिंत्या मेऽभयप्राप्तिः पश्चात् सूर्योदयो यथा ॥ ५ ॥ मृता दैत्या असंख्‍याश्च मदर्थं नात्र संशयः । मृतौ पुत्रौ महाकालौ कालस्य कथमद्य तौ ॥ ६ ॥ अधुना शोकसंतप्तो मरिष्यामि न संशयः । मृतौ पुत्रौ महाकालौ किं कार्यं जीवितेन मे ॥ ७ ॥ ब्रह्मांडाधिपतेः पुत्रौ कथं तौ निधनं गतौ । कथं मिथ्या हि जातं मे वरदानं महत्तरम् ॥ ८ ॥ अहो पुत्रौ महावीर्यौ कथं मरणमापतुः । याभ्यां स्वभुज- वीर्येण जिता विष्णुमुखाः सुराः ॥ ९ ॥ अहो पुत्रौ च मां त्यक्त्वा घोरे दुःखार्णवे परे । क्व गतौ वदतं वाक्यमभूतं निष्ठुरौ कथम् ॥ १० ॥ सखींश्च पितरं वृद्धं त्यक्त्वा मां सुंदरप्रिय । विषयप्रिय मद्दालौ कथं मृत्युमुपस्थितौ ॥ ११ ॥ इति नानाविधं शौकं चक्रे दैत्येंद्रपालकः । तं ते सभ्यवराः सर्वे सांत्वयामासुरादरात् ॥ १२ ॥ वृद्धा ऊचुः । न रोदनं प्रकर्तव्यं त्वया दैत्येंद्रनायक । रणे मृतौ महावीर्यौ कीर्तिं कृत्वा महत्तराम ॥ १३ ॥ देहस्य मरणं नित्यं जन्म चैव तथा प्रभो । किं चित्रं

खं. १ अ. ३७ पान ८४

तच्च संजातं येन शोचसि दैत्यप ॥ १४॥ आत्मनो मरणं नैव जन्मशास्त्रेषु कथ्यते। मायामोहं परित्यज्य स्वस्थो भव महामते ॥ १५॥ जंतोरूर्ध्वक्रिया सर्वा कर्तव्या स्वजनैरपि। अतस्त्वं दैत्यराजेंद्र सार्थकं त्वेतयोः कुरु॥ १६॥ अथवा तौ परित्यज्य वक्रतुंडं जहि प्रभो। अथवा शरणं याहि येनैव कुशलं भवेत् ॥ १७॥ वीरा रुदंति कुत्रापि नैव जानीहि दैत्यप । सपत्नान् हर्षसंयुक्तान् मा कुरुष्वाधुना परान् ॥ १८ ॥ एवं प्रबोधितो दैत्यो मत्सरः क्रोधसंयुतः। आदाय सकलं सैन्यं ययौ संग्राममंडलम् ॥ १९ ॥ मत्सरासुरमायातं दृष्ट्वा शंब्वादयः सुराः । भयभीताश्च तं प्रोचुर्वक्रतुंडं प्रणम्य ते ॥ २० ॥ स्वामिन् समागतो दैत्यो मत्सरः स प्रतापवान् । यस्याग्रे मशका देवास्तृणरूपा नरादयः ॥ २१ ॥ यस्याग्रे वशवर्तिन्यः श्रियः सर्वार्थदायिकाः । ब्रह्मांडं कंपते यस्य भयात्सोऽयं समागतः ॥ २२ ॥ यस्य राज्ये महाभागा जना दुःखविवर्जिताः । सर्वर्तुफलदा वृक्षा मेघाः कालप्रवर्षिणः ॥ २३॥ यस्याज्ञा वशगश्चासौ तपत्येव दिवाकरः। न शीतं प्रबलं तत्र मत्सरे राज्यभोगिनि ॥ २४॥ न रोगाः प्रचरंतीह भयभीताः संमततः। न च चोरादिसंत्रस्तं जगद्राज्यं प्रशासति ॥ २५ ॥ यस्य पूजा च सर्वत्र जगति क्रियते जनैः। यज्ञादि सर्वमखिलं भुक्तं येन महात्मना ॥ २६ ॥ कालो बिभेति यं दृष्ट्वा तदाज्ञा पालकोऽभवत् । कर्मखंडनमप्यत्र कृतं येन सुरारिणा ॥ २७॥ न स्वाहा न स्वधा यत्र न वषट्कार एव च। न वेदाध्ययनाचारो मत्सरे राज्यकर्तरि ॥ २८ ॥ न स्नानादिक्रिया यत्र न स्वधर्मः स्वभावजः । न वर्णाश्रमयोर्धर्मो मत्सरे राज्यकर्तरि ॥ २९ ॥ देवाः श्वापदतुल्या वै भ्रमंति वनगोचराः । अन्नवस्त्रादिसंहीनाः कृता दैत्येंद्रकेण भोः ॥ ३० ॥ मुनयस्तपसा हीनाः शापसामर्थ्यहीनकाः । कृता मत्सरदैत्येन सोऽयं स्वामिन् समागतः ॥ ३१ ॥ देवांगनाश्च तत्कन्या नागकन्या महात्मना। भुक्ता नानाविधा भोगाः सोऽयं मत्सर आगतः ॥ ३२ ॥ नरकन्याः पशोः कन्या मुनिकन्याः समाहृताः। बलेन न समं यस्य ब्रह्मांड सोऽयमागतः ॥ ३३ ॥ यस्याष्टावरणैर्मृत्युर्न भवेच्च कदाचन । सोऽयं समागतो दैत्यः पश्य पश्य गणाधिप ॥ ३४॥ इत्येवं ब्रुवतो देवान् वक्रतुंडो महाबलः। मा भयं कुरुत प्राज्ञा हनिष्यामीति सोऽब्रवीत् ॥ ३५ ॥ सिंहारूढो महाबाहुरेकदंतविराजितः । पाशांकुशधरो भूत्वा ययौ संग्राममंडलम् ॥ ३६ ॥ प्रमोदामोदकाद्यैश्च संवृतं युद्धलालसम् । तं दृष्ट्वा क्रोधसंयुक्तो मत्सरः प्राह भर्त्सयन् ॥ ३७ ॥ मत्सरासुर उवाच । किमर्थमागतस्त्वं मे वक्रतुंड रणेऽग्रतः। अद्यैव त्वां हनिष्यामि मा मुखं दर्शयस्व रे ॥ ३८ ॥ मूढोऽसि येन संग्रामं कर्तुमागत एव च । न मे मृत्युर्भवेदष्टावरणैर्देहधारिभिः

यहाँ प्रस्तुत पृष्ठ का सटीक लिप्यंतरण दिया गया है:

॥ ३९ ॥ शंभुविष्णुमुखैर्देवैः प्रेरितस्त्वं न बुध्यसे । मोहभावेन संयातो मत्सरेण युयुत्सुना ॥ ४० ॥ हन्मि त्वामेकबाणेन ससैन्यं नात्र संशयः । पदाघातेन मे भूमिर्विशीर्णा जायते खल ॥ ४१ ॥ तलप्रहारसंयुक्ताः पर्वताश्चूर्णतां गताः । तस्याऽग्रे कथमायातः कालेन प्रेरितोऽथवा ॥ ४२ ॥ शब्दगर्जनमात्रेण कंपते सचराचरम् । तस्याग्रे त्वं सुसंग्रामं किं करिष्यसि तद्वद ॥ ४३ ॥ ब्रह्मांडं सकलं युद्धे जितं येन प्रभावतः । तदा त्वं कुत्र गुप्तः सन् स्थितोऽसि भयभावितः ॥ ४४ ॥ समीचीनमिदं मूढाऽधुना खल कृतं त्वया । दृष्टेः समीपगो जातो हतो मम भविष्यसि ॥ ४५ ॥ शरणं याहि मे दुष्ट जीवितुं यदि चेच्छसि । मदाज्ञावशगो भूत्वा वने तिष्ठ यथासुखम् ॥ ४६ ॥ मूढभावेन संयातं त्वां न हन्मि च निर्बलम् । प्रेरकान् मुनिदेवांस्ते तान् हनिष्यामि निश्चितम् ॥ ४७ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते मत्सरासुरसमागमो नाम सप्तत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः । मुद्गल उवाच । एवं ब्रुवंतमत्यंतं मत्सरं क्रोधसंयुतम् । वक्रतुंडः प्रसन्नात्मा स्मयन्निव जगाद तम् ॥ १ ॥ वक्रतुंड उवाच । मा गर्वं कुरु दैत्येश नाहं देवो न मानुषः । नासुरो नैव नागश्च न गंधर्वो न पर्वतः ॥ २ ॥ न नानायोनिजो जंतुर्नाष्टावरणजस्तथा । ब्रह्मरूपोऽहमानंदानंदकारक एव च ॥ ३ ॥ त्वां हंतुं मुनिदेवानां स्थापनार्थमिहागतः । हनिष्यामि त्वसंदेहाद् दैत्यनायक दुर्मते ॥ ४॥ शिथिलं वरपुण्यं ते सांप्रतं पापसंचयात् । नानापापफलार्थस्य दाता तेऽहं समागतः ॥ ५॥ अकर्तुं कर्तुमीशं मामन्यथाकर्तुमादरात् । जानीहि मत्सर त्वं वै किं करिष्यसि तद्वद ॥ ६ ॥ जीवितुं चेच्छसि प्राज्ञ तदा मां शरणं व्रज । स्वस्थाने धर्मविद्वेषं त्यक्त्वा त्वं तु सुखी भव ॥ ७ ॥ देवादीनां च विद्वेषं त्यक्त्वा तिष्ठसि दैत्य चेत् । तदा त्वां न हनिष्यामि जानीहि त्वं मतं मम ॥ ८ ॥ मुद्गल उवाच । वक्रतुंडवचः श्रुत्वा मत्सरो विस्मितोऽभवत् । उवाच तं प्रसन्नात्मा भक्तिभावेन यंत्रितः ॥ ९ ॥ मत्सर उवाच । वक्रतुंड नमस्तुभ्यं वद मे सकलं प्रभो । संशयं छिंधि तं पूर्वं हृदिस्थं गणनायक ॥ १० ॥ यदि त्वं सगुणो नासि निर्गुणोऽपि न वर्तसे । ब्रह्मरूपोऽसि सर्वेश तदाकारधरः कथम् ॥ ११ ॥ अन्यच्च त्वं महाभाग ब्रह्मभावेन संस्थितः । सुरासुरसमं ब्रह्म कथमेकं समाश्रितः ॥ १२ ॥ असुराणां निहंता त्वं सुराणां पालकोऽधुना । एतं मे संशयं ब्रह्मन् छेत्तुमर्हसि विघ्नप ॥ १३ ॥ मत्सरस्य वचः श्रुत्वा वक्रतुंडः प्रतापवान् । उवाच तं

खं. १ अ. ३८ पान ८६ महावीरं भावं दृष्ट्वा हृदि स्थितम् ॥ १४ ॥ वक्रतुंड उवाच । शृणु मत्सर यत्पृष्टं त्वया बुद्धिविशारद । तत्सर्वं कथयिष्यामि संशयच्छेदनाय ते ॥ १५ ॥ अखिलं ब्रह्मरूपेण मया सृष्टं चराचरम् । लीलार्थं बंधहीनेन स्वस्वधर्मयुतं परम् ॥ १६ ॥ पुरुषप्रकृतिभ्यां तत् पाल्यते ह्रियते मया । तयोर्हृदि स्थितेनैव चिंतामणिस्वरूपिणा ॥ १७॥ सर्वेषां चित्तवृत्तेश्च चालकोऽहं न संशयः । मदाज्ञावशगं सर्वं वर्तते दैत्यपुंगव ॥ १८ ॥ यदा स्वधर्ममत्यंतं त्यक्त्वा देवगणेश्वराः । दैत्यानां निधनार्थं च यतंते मूलनाशकाः ॥ १९ ॥ तदा दैत्यहृदिस्थोऽहं तपसि प्रेरकोऽस्म्यतः । दैत्याः कुर्वंति च तपो देवानां प्रजिघांसया ॥ २० ॥ तपसा वरलाभेन देवान् घ्नंति महाबलाः । ततस्ते सततं देवाः सत्ताहीना भवंति वै ॥ २१ ॥ ततोऽहं देवसंघानां विपरीतो न संशयः । भवामि चासुराणां वै सिद्धिदाता महासुर ॥ २२ ॥ यदि दैत्या महादुष्टास्त्यक्त्वा घ्नंति स्वधर्मकम् । देवान् मूलविहीनांश्च कर्तुमिच्छंति दानव ॥ २३ ॥ तदाऽहं देवरूपेण तेषां हृदि समास्थितः । छिद्रं प्रकाशयाम्यदौ हनने दैत्य- रक्षसाम् ॥ २४ ॥ ततस्तेनैव देवेंद्रो मार्गेण सुरविद्विषः । घ्नंति मत्सर ते सर्वं कथितं मे चरित्रकम् ॥ २५ ॥ यदि स्वहृदये देवा निश्चयं कुर्वते परम् । दैत्यानां तपसां विघ्नं कर्तव्यमिति सांप्रतम् ॥ २६ ॥ तदाऽहं वरदाता च भवाम्यसुरनायक । दैत्येभ्यो नात्र संदेहो देवगर्वप्रहारकः ॥ २७ ॥ यदि दैत्या महाभागा देवैर्जाता दुरासदाः । तदाऽहं दैत्यनाशाय भवामि तनुधारकः ॥ २८ ॥ यदा दैत्याश्च देवाश्च स्वस्वधर्मपरायणाः । तदाऽहं ब्रह्मभावेन स्थितस्तेषां हृदि ह्यहो ॥ २९ ॥ त्वया प्रपीडिता देवास्त्यक्त्वा धर्मं स्वभावजम् । अतस्त्वां हंतुमायातो दैत्यराज महामते ॥ ३० ॥ इत्युक्त्वा निजरूपं तद्दर्शयामास विघ्नपः । बिंदुमात्रे ब्रह्मणि स्वे संस्थितं सुंदरं मुने ॥ ३१ ॥ वक्रतुंडप्रसादेन तस्य दर्शनजेन च । फलेन दैत्यराजोऽपि दिव्यं चक्षुरवाप्तवान् ॥ ३२ ॥ तेनैव चक्षुषा तेन दैत्येन परमाद्भुतम् । दृष्टं रूपं गणेशस्य ब्रह्माकारं प्रजापते ॥ ३३ ॥ न न्यूनं नाधिकं तन्न न समं चात्मना न च । चतुष्पादमयं ब्रह्म पादहीनं स्वभावतः ॥ ३४ ॥ न देहो न च देह्यत्र सगुणो निर्गुणो न च । न मायामायिको भाति वक्रतुंडो गजाननः ॥ ३५ ॥ देहं सगुणरूपं च निर्गुणं मस्तकं मुने । गजवक्रमयं तेन दृष्टं भिन्नं प्रभावतः ॥ ३६ ॥ तयोर्योगकरः साक्षाद् वक्रतुंडः प्रतापवान् । संयुक्तोऽवयवाद्यैश्च ज्ञातो दैत्याधिपेन सः ॥ ३७ ॥ ततस्तं प्रणमामाथ भक्तियुक्तेन चेतसा । तुष्टाव परया भक्त्या बद्धांजलिपुटोऽसुरः ॥ ३८ ॥ मत्सरासुर उवाच । नमामि वक्रतुंडं च चतुष्पादं चतुःपरम् । चतुर्देहविहीनं च बिंदुमात्रे व्यवस्थितम् ॥ ३९ ॥ साकारं

खं. १ अ. ३८ पान ८७ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 च निराकारं मायारूपधरं प्रभुम् । नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४० ॥ जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् । ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१ ॥ सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च । सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२ ॥ अनंतलीलया युक्तं लीलाहीनं नमामि तम् । अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदि स्थितम् ॥ ४३ ॥ वेदांतवेद्यं सज्ज्योतिर्ज्योतिषामपि भासकम् । नमामि सच्चिदानंददेहरूपं गजाननम् ॥ ४४ ॥ योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् । भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५ ॥ सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् । नमामि वक्रतुंडाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६ ॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । सर्वाकारनिराकारहीनोऽयं वक्रतुंडकः ॥ ४७ ॥ शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल । प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८ ॥ एवं स्तुत्वा वक्रतुंडं पादयोर्निपपात ह । पुनः पुनः प्रणम्याऽसौ बद्धांजलिपुटः स्थितः ॥ ४९ ॥ स दृष्ट्वा तादृशं दैत्यं भक्तियुक्तं गजाननः । जगाद तं महाभागं भक्तेशॊ भावतोषितः ॥ ५० ॥ वक्रतुंड उवाच । मत्सर त्वद्विनाशाय कुपितोऽहं न संशयः । शरणागतनाशं च नेच्छामि वृणु वाञ्छितम् ॥ ५१ ॥ इदं त्वया कृतं स्तोत्रं मत्प्रीतिवर्धनं महत् । महैश्वर्यायुरारोग्यदायकं धनधान्यदम् ॥ ५२ ॥ पुत्रपौत्रकलत्रादिनानासंपत्करं परम् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ ५३ ॥ मुद्गल उवाच । वक्रतुंडवचः श्रुत्वा मत्सरो भक्तिसंयुतः । जगाद वचनं तत्र वक्रतुंडं कृतांजलिः ॥ ५४ ॥ मत्सर उवाच । प्रसन्नो यदि सर्वेश मह्यं देयो वरो यदि । सुदृढां च तदा भक्तिं त्वदीयां देहि विघ्नप ॥ ५५ ॥ अन्यं त्वं मे वरं देहि त्वद्भक्तास्ते च मे प्रियाः । स्थानं देहि तथा वृत्तिं योगक्षेमकरीं प्रभो ॥ ५६ ॥ मत्सरस्य वचः श्रुत्वा वक्रतुंडस्तमब्रवीत् । अचला पदि मे भक्तिरद्य ते संभविष्यति ॥ ५७ ॥ स्वस्वधर्मरतान् जंतूंस्तान रक्षस्व च मत्सर । मदीयान् प्रवरान् भक्तांस्तान पालय च यत्नतः ॥ ५८ ॥ मदीयमूर्तिपूजा च यत्रादौ स्मरणं भवेत् । सर्वारंभेषु तत्र त्वं मा विघ्नं कुरु दैत्यप ॥ ५९ ॥ अन्यत्र सर्वभावेषु कर्मज्ञानादिकर्तृषु । आसुरेणैव वर्तस्व फलं ग्राह्यं त्वयाऽसुर ॥ ६० ॥ तेषां हृदि समाविश्य कुरु राज्यं महामते । मद्भक्त्या- दिषु भावेषु दासत्वत्वं सदा भव ॥ ६१ ॥ एवमुक्तो महादैत्यस्तथेति तमुवाच ह । प्रणिपत्य गणेशानं हर्षयुक्तेन चेतसा ॥ ६२ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते वक्रतुंडविजयो नामाष्टत्रिंशोऽध्यायः ॥

खं. १ अ. ३९ पान ८८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मत्सरं शांतिमापन्नं दृष्ट्वा देवर्षयस्तदा । प्रहृष्टमनसो जातास्तुष्टुवुस्तं गजाननम् ॥ १ ॥ देवर्षय ऊचुः । सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवंद्यम् । अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुंडं भजामः ॥ २ ॥ अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् । जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुंडं भजामः ॥ ३ ॥ अनंतस्वरूपं सदानंदकंदं प्रकाशस्वरूपं सदा सर्वगं तम् । अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुंडं भजामः ॥४॥ धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् । अहंकारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुंडं भजामः ॥ ५ ॥ रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेंद्रप्रकाशम् । दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुंडं भजामः॥६॥ उपस्थत्वगुक्तीक्षणस्थप्रकाशं करांघ्रिस्वरूपं कृतघ्राणजिह्वम् । गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुंडं भजामः ॥७॥ रजोरूपसृष्टिप्रकाशे विधिं तं सदा पालने केशवं सत्त्वसंस्थम् । तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुंडं भजामः ॥ ८ ॥ दिशाधीशरूपं सदाशास्त्रस्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् । अनंतोडुरूपं तदाकारहीनं नमामः सदा वक्रतुंडं भजामः ॥ ९॥ महत्तत्त्वरूपं प्रधानस्वरूपमहंकारवारं त्रयीबोधकारम् । अनाद्यंतमायं तदाधारपुच्छं नमामः सदा वक्रतुंडं भजामः ॥ १० ॥ सदा कर्मधारं फलैः स्वर्गदं तमकर्मप्रकाशेन मुक्तिप्रदं तम् । विकर्मादिना यातनाधारभूतं नमामः सदा वक्रतुंडं भजामः ॥ ११ ॥ अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् । नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुंडं भजामः ॥ १२ ॥ लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् । प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुंडं भजामः ॥ १३ ॥ खगेशस्वरूपं वृषादिप्रसंस्थं मृगेंद्रादिबोधं मृगेंद्रस्वरूपम् । धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुंडं भजामः ॥ १४ ॥ सुवर्णादिधातुस्थसद्रंगसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् । जले जंतुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुंडं भजामः ॥ १५॥ सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः । सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुंडं भजामः ॥ १६ ॥ वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् । चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुंडं भजामः ॥ १७ ॥ गणेशं गणेशादिवंद्यं सुरैशं परं सर्वपूज्यं सुबोधादिगम्यम् । महावाक्यवेदांतवेद्यं परेशं नमामः सदा वक्रतुंडं भजामः॥ १८ ॥ अनंतावतारैः सदा पालयंतं स्वधर्मादिसंस्थं जनं कारयंतम् । सुरैर्दैत्यपैर्वन्द्यमेकं

समं त्वां नमामः सदा वक्रतुंडं भजामः ॥ १९ ॥ त्वया नाशितोऽयं महादैत्यभूपः सुशांतैर्धरोऽयं कृतस्तेन विश्वम् । अखंडप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुंडं भजामः ॥ २० ॥ न विदंति यं वेदवेदज्ञमर्त्या न विदंति यं शास्त्रशास्त्रज्ञभूपाः । न विदंति यं योगयोगीशकाद्या नमामः सदा वक्रतुंडं भजामः ॥ २१ ॥ न वेदा विदुर्यं च देवेंद्रमुख्या न योगैर्मुनींद्रा वयं किं स्तुमश्च । तथाऽपि स्वबुद्ध्या स्तुतं वक्रतुंडं नमामः सदा वक्रतुंडं भजामः ॥ २२ ॥ मुद्गल उवाच । एवं स्तुत्वा वक्रतुंडं स्थिता देवर्षयः प्रभो । बद्धांजलिपुटाः सर्वे तूष्णींभावेन मानद ॥ २३ ॥ देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः । उवाच तान् प्रसन्नात्मा हर्षयन् वचनं महत् ॥ २४ ॥ वक्रतुंड उवाच । शृणुध्वं मुनयः सर्वे देवा मे वचनं महत् । भवत्कृतमिदं स्तोत्रं मत्प्रीतिवर्धनं भवेत् ॥ २५ ॥ अनेन स्तौति यो नित्यं मां तस्य परिपूरये । भोगान्नानाविधांश्चैव पुत्रपौत्रादिसंपदः ॥ २६ ॥ यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः । भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ २७ ॥ नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् । सुरैर्देर्वर्चतां याति यो मां स्तौति त्वनेन सः ॥ २८ ॥ सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् । मोचयेन्नात्र संदेहो मत्प्रियः सर्वदा भवेत् ॥ २९ ॥ अपराधशतैर्युक्तो यो वै भवति मानवः । तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ ३० ॥ एकविंशतिवारं य एकविंशदिनानि वै । पठिष्यति सदा तस्मै चिंतितं प्रददाम्यहम् ॥ ३१ ॥ एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः । कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ ३२ ॥ तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा । भविष्यथ महाभागा भुक्तिमुक्तिप्रदास्तथा ॥ ३३ ॥ वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् । तद्दास्यामि न संदेहः स्तोत्रसंतोषितो ह्यहम् ॥ ३४ ॥ मुद्गल उवाच । एवमुक्ताः सुराः सर्वे मुनयस्तं प्रणम्य च । प्रहृष्टमानसा ऊचुर्वक्रतुंडं महाबलम् ॥ ३५ ॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो वक्रतुंड ददासि चेत् । त्वदीयामचलां भक्तिं देहि नाथ दयानिधे ॥ ३६ ॥ यदि प्राप्ता त्वदीया च भक्तिर्जंतोस्तदा प्रभो । किं दुर्लभं भवेत्तस्य हस्तगाः सर्वसिद्धयः ॥ ३७ ॥ अतो भक्तिं महाभाग देहि नो विघ्ननायक । तया तृप्ता भविष्यामस्त्वत्पादप्रवणा वयम् ॥ ३८ ॥ तेषां वचनमाकर्ण्य देवदेवो गजाननः । जगाद भावगंभीरं ज्ञाता विज्ञजनप्रियः ॥ ३९ ॥ वक्रतुंड उवाच । मदीया भक्तिरचला भविष्यति न संशयः । भवतां भावयुक्तानां भो भो देवर्षयः खलु ॥ ४० ॥ अंतर्दधे स उक्त्वैवं वक्रतुंडो गणेश्वरः । पश्यतां मुनिदेवानां स्वानंदस्थो बभूव ह ॥ ४१ ॥ ततो देवर्षयः सर्वे खिन्नाः स्वस्वपदं ययुः ।

खं. १ अ. ४० पान ९० ध्यायंतश्च तमेवैते वक्रतुंडं सुसिद्धिदम् ॥ ४२॥ मत्सरोऽपि ततः सर्वैर्दैत्यैः परिवृतो ययौ । स्वं पदं पालयन् शीघ्रं सुशांतो ह्यभवत् सदा ॥ ४३ ॥ तं त्यक्त्वा दैत्यसंघास्ते ययुः स्वं स्वं गृहं मुने । एवं मत्सरमाहात्म्यं वक्रतुंडेन कारितम् ॥ ४४॥ स एव वक्रतुंडस्तु सृजत्यवति च प्रभुः । हरते भावहीनः सन् नायमध्यांतगः स्वयम् ॥ ४५॥ एवं नानावतारेण स्वस्वधर्मरतान् सुरान् । असुरान् मानवादींश्च कुरुते वक्रतुंडकः ॥ ४६ ॥ अवतारा अनंताश्च वक्रतुंडस्य भो विभो । चरित्रमखिलं तेषां कथितुं शक्यते न वै ॥ ४७॥ ब्रह्मणा षण्मुखेनाऽपि विष्णुना शंकरेण च । शेषेण मुनिभिश्चैव वेदैः काहं च तत्र वै ॥ ४८ ॥ दिवोदासशमार्थाय स एवं वक्रतुंडकः । शिवपुत्रत्वमापन्नो ढुंढिराजेति नामतः ॥ ४९ ॥ वामनस्य वरं दातुं स एव गणनायकः । प्रकटोऽभून् महातेजास्तस्याग्रे भक्तपालकः ॥ ५० ॥ एवं नानावतारैश्च भक्त- रक्षणलालसः । करोति भक्तसंरक्षां जानीहि त्वं प्रजापते ॥ ५१ ॥ ब्रह्मणा सृष्टिकार्यार्थं व्याकुलेन स न स्मृतः । वक्रतुंडस्ततो दैत्यो मत्सरः प्रविवेश तम् ॥ ५२॥ तेनासुरस्वभावेन पीडितो विधिरद्भुतम् । विघ्नयुक्तोऽभवत्तत्र सृष्टिं कर्तुं न स क्षमः ॥ ५३ ॥ पुरातनं वचः स्मृत्वा पुनस्तं शरणं ययौ । विधिर्विघ्नविहीनः स ससर्ज सकलं जगत् ॥ ५४ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते वक्रतुंडान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच ॥ धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया श्रावितं महत् । चरित्रं वक्रतुंडस्य ब्रह्मभूयकरं महत् ॥ १ ॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृततो यथा । इच्छामि तत्पुनः श्रोतुं पूजितो विधिना कथम् ॥ २ ॥ विस्तरेण च मे ब्रूहि कथां पापापनोदिनीम् । श्रोतुः प्रष्टुश्च वक्तुश्च त्रयाणां सर्वसिद्धिदाम् ॥ ३ ॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह । उत्फुल्लनयनो हर्षाद्गाणेशेंद्रः स शौनक ॥ ४ ॥ मुद्गल उवाच । शृणु दक्ष महाभाग धन्योऽसि न च संशयः । येन ते गणराजस्य कथायां प्रीतिरद्भुता ॥ ५ ॥ अल्पपुण्यवतो ढुंढिकथाया अवधारणे । श्रवणे च तथा प्रीति- र्जायते न कदाचन ॥ ६ ॥ अतस्तेऽहं प्रवक्ष्यामि त्वदादरसुतोषितः । संक्षेपेण कथां दिव्यां गणेशस्य महात्मनः ॥ ७ ॥ प्रलयादौ गणेशेन सृष्टाः पंच सुराधिपाः । तेषां तपःप्रभावेण प्रसन्नो वरदोऽभवत् ॥ ८ ॥ वरस्यैव प्रभावेण समर्थास्ते

खं. १ अ. ४० पान ९१ बभूविरे । स्वस्वकार्ये प्रवृत्ताश्च सावधानेन चेतसा ॥९॥ सृष्टिप्रकरणे ब्रह्मा प्रवृत्तो जगतोऽभवत् । न सस्मार गणेशानं विस्मृत्यादौ तदर्चनम् ॥१०॥ तेन भ्रांतोऽभवत् सद्यो मानसे गर्वमादधे । त्रिलोके नैव मत्पुल्यः स्रष्टाऽहं नात्र संशयः ॥११॥ सृजामि सकलं विश्वं तदा विष्णुश्च पाति वै । रुद्रः संहरते तच्च शक्तिर्मोहं करोति च ॥१२॥ सूर्यः कर्मप्रकाशं च करोति जगति प्रभुः । न सृष्टं चेन् मया विश्वं देवत्वं तु निरर्थकम् ॥१३॥ ममाज्ञादौ गणेशेन कृता सृष्टौ विशेषतः । मदीयां पात्रतां दृष्ट्वा तस्मान्नान्योऽस्ति मत्समः ॥१४॥ इति गर्वेण मनसि मोहितोऽभूत् पितामहः । ततो विघ्नगणास्तत्र प्रबभूवुरनेकंशः ॥१५॥ सृष्टिं विरचयंतं तं ब्रह्माणं प्राप्य दारुणः । नानारूपा महावीर्यास्ताडयामासु- रोजसा ॥१६॥ त्रिनेत्राः पंचनेत्राश्च पृष्ठनेत्रा महाबलाः । दशतुंडा सहस्रं च मुखानि दधतः परे ॥१७॥ एवं नाना- स्वरूपास्ते विधिं धृत्वा प्ररेमिरे । बालक्रीडनकं कृत्वा दुःखयुक्तं महाबलाः ॥१८॥ एवं स परवान् ब्रह्मा गर्वं सर्वं प्रमुच्य वै । जगाम शरणं देवं गणेशं विघ्ननायकम् ॥१९॥ गतगर्वो हृदि स्मृत्वा तुष्टाव गणनायकम् । तेन विघ्नगणाः सर्वेंऽतर्धानं तत्र चक्रिरे ॥२०॥ मुक्तो विघ्नैस्तदा ब्रह्मा तताप परमं तपः । षडक्षरेण मंत्रेण वक्रतुंडमतोषयत् ॥२१॥ वायुभक्षोऽभवद्ब्रह्मा पादांगुष्ठाग्रसंस्थितः । चकार तेजसा वृत्तिं गणेशे निश्चलां ततः ॥२२॥ एवं दिव्यसहस्रं स तपस्तेपे सुदारुणम् । ततो भूतानि सर्वाणि व्याकुलानि तदाऽभवन् ॥२३॥ ततस्तस्योग्रतपसा प्रसन्नो वक्रतुंडकः । आययौ भक्तराजं तं भक्तिभावेन तोषितः ॥२४॥ तेजोरूपी महाकायो वक्रतुंडश्चतुर्भुजः । सिंहारूढस्त्रिनेत्रश्च पाशांकुशधरो विभुः ॥२५॥ वरदाभयहस्तश्च पृथुवक्षा महोदरः । सिद्धिवृद्धियुतश्चिंतामणिना च विराजितः ॥२६॥ नानालंकारसंयुक्तः शेषनाभिर्गजाननः । सिंदूरारुणदेहश्च नानावस्त्रधरः प्रभुः ॥२७॥ तं दृष्ट्वा भयभीतोऽसौ विधाता स्तौति तं परम् । गणेशं हृदि संचिंत्य नानास्तोत्रैर्विधानतः ॥२८॥ वक्रतुंडः स्तुवंतं तमुवाच घननिस्वनः । वरं वृणु विधातस्त्वं दास्यामि तु न संशयः ॥२९॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रणनाम च । उवाच सौम्यरूपेण वरं देहि गजानन ॥३०॥ ब्रह्मणो गिरमाकर्ण्य सौम्यतेजा गजाननः । उवाच तं महाभागं भक्तिभावेन तोषितः ॥३१॥ वक्रतुंड उवाच । स्वानंदGeneric/स्वानंदनगरे संस्थं सदैतादृशरूपकम् । मृत्युलोके स्थितस्त्वं च कथं द्रक्ष्यसि मानद ॥३२॥ तपसा भक्तिभावेन तोषितोऽहं त्वया विधे । तेन सौम्यस्वरूपेण त्वदग्रे संस्थितोऽभवम् ॥३३॥ त्वं तु मत्तो वरान् ब्रूहि

खं. १ अ. ४१ पान ९२ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 दास्येऽहं वाञ्छितान् परान् । मयि प्रसन्नतां याते दुर्लभं न भविष्यति ॥ ३४ ॥ गणेशवचनं श्रुत्वा ब्रह्मा तं प्रणनाम च । बद्धांजलिपुटो भूत्वा स्तोतुं तमुपचक्रमे ॥ ३५ ॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः ॥ ❧ ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमस्ते वक्रतुंडाय गणेशाय महात्मने । अनंतानंतपाराय विघ्नेशाय नमो नमः ॥ १ ॥ नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते । अभक्तकामनाशाय सर्वदात्रे नमो नमः ॥ २ ॥ निर्गुणाय निरूपाय निर्मलाय गुणात्मने । अनंताननधाराय सिंहवाहाय ते नमः ॥ ३ ॥ अनादिरूपकायैव नमः सर्वप्रियंकर । वेदांतवेद्यदेहाय गज- वक्त्राय ते नमः ॥ ४ ॥ अनंतोदरसंस्थाय नानाभोगकराय ते । मायाधाराय मायाया मोहकाय नमो नमः ॥ ५ ॥ अमेयशक्तये तुभ्यमनाधाराय दंष्ट्रिणे । चतुर्बाहुयुतायैव स्वानंदपतये नमः ॥ ६ ॥ सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च । ब्रह्मभूताय देवाय विघ्नहर्त्रे नमोऽस्तु ते ॥ ७ ॥ वक्रतुंड प्रसन्नस्त्वं मह्यं देहि तदानघ । त्वदीयामचलां भक्तिं यया बंधो न विद्यते ॥ ८ ॥ त्वदाज्ञया प्रवृत्तोऽहं तत्र सामर्थ्यमद्भुतम् । सृष्टौ देहि गणाधीश विघ्नहीनं च मे सदा ॥ ९ ॥ अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानन । अतस्त्वं पुत्रभावेन गृहे मे तिष्ठ मायया ॥ १० ॥ त्वं साक्षाद्ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि । तदाहं बंधनान्मुक्तो भविष्यामि च राजसात् ॥ ११ ॥ तव माता पिता स्वामिन् बंधयुक्तौ कृतौ यदि । तदा वेदादिकं सर्वं मिथ्याभूतं भविष्यति ॥ १२ ॥ नामग्रहणमात्रेण ब्रह्मभूयप्रदो भवान् । किं पुनः पुत्रभावेन त्वं चेत् स्थास्यसि मे गृहे ॥ १३ ॥ अन्यच्च लालनं कुर्यां सेवनं पूजनं तथा । निरंतरं प्रपश्येयं भवेयमतुलस्ततः ॥ १४ ॥ ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिः स्वयम् । जगाद तं महाभागं हर्षयन् सर्वभाववित् ॥ १५ ॥ वक्रतुंड उवाच । त्वया यत् प्रार्थितं ब्रह्मन् तदस्तु सकलं किल । सृष्टिकर्तृत्वसामर्थ्यमद्भुतं ते भविष्यति ॥ १६ ॥ निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति । यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा ॥ १७ ॥ तव पुत्रो भविष्यामि तारको माययांशतः । वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः ॥ १८ ॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । मम प्रीतिकरं ब्रह्मन् 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐

खं. १ अ. ४१ पान ९३ ब्रह्मभूयप्रदं तथा ॥ १९॥ इत्युक्त्वांतर्दधे दक्ष वक्रतुंडः प्रतापवान् । ब्रह्माऽपि विमना भूत्वा तत्र वै संस्थितोऽभवत् ॥ २०॥ वक्रतुंडप्रसादेन निर्ममे सकलं जगत् । चराचरमयं सर्वं यथायोग्यं चकार ह ॥ २१ ॥ सृष्ट्वा त्रिभुवनं सर्वं कृतकृत्य इवाऽभवत् । स्थितः स्वसुखनिष्ठः सन् वक्रतुंडं स संस्मरन् ॥ २२ ॥ एकदा वायुवेगेन कंपितः स प्रजापतिः । तस्मात् पुरुषरूपेण दंभश्च प्रकटोऽभवत् ॥ २३ ॥ तत्पुरः पुरुषश्रेष्ठश्चतुर्बाहुधरः खलः । गदाचक्रत्रिशूलास्त्रधनुर्बाणधरो बभौ ॥ २४॥ रूपेण तेजसा पूर्णो वीर्येण ह्यतुलः परः । महाकायो महाबाहुः स्थितः पर्वतसन्निभः ॥ २५ ॥ तं दृष्ट्वा विस्मितो ब्रह्मा पप्रच्छ च नरं ततः । कस्य त्वं कुत आयातः किं कार्यं तेऽत्र वर्तते ॥ २६ ॥ वद मे पृच्छते सर्वं महाबलपराक्रम । धन्योऽसि रूपलावण्ययुक्तः परमशोभनः ॥ २७ ॥ ब्रह्मणो वच आकर्ण्य मेघगंभीरया गिरा । उवाच तं विधातारं स्मयमान इदं वचः ॥ २८ ॥ पुरुष उवाच । विधेऽहं त्वां प्रजानामि प्रभावात् मे च मानद । तवांगकंपसंभूतं मां जानीहि प्रजापते ॥ २९ ॥ देहि मे नाम योग्यं त्वं पुत्रोऽहं ते च सुव्रत । स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ॥ ३० ॥ वचस्तस्य समाकर्ण्य तमूचे पद्मसंभवः । हास्यं कृत्वा महाबाहुः प्रीणयन् वाक्यमादरात् ॥ ३१ ॥ ब्रह्मोवाच । किं मां जानासि पुत्र त्वं दंभेन प्रब्रवीषि रे । अतस्त्वं दंभनामा वै भविष्यसि महाखलः ॥ ३२ ॥ यत्र तत्र गतिस्ते वै भविष्यति महासुर । भोगान्नानाविधान् भुंक्ष्व यथारुचि यथासुखम् ॥ ३३ ॥ एवमुक्तो महाबाहुस्तं जगाम प्रणम्य सः । प्रदक्षिणीकृत्य विधिं क्षितिमंडलमादरात् ॥ ३४ ॥ तत्रागत्य विचारं स कृतवान् मानसे खलः । ब्रह्मणाऽसत्कृतोऽहं वै तस्य गर्वं हराम्यहम् ॥ ३५ ॥ विचार्य सहसा दंभो जगाम शरणं कविम् । तेनोपदिष्टमंत्रेण ब्रह्माणं समतोषयत् ॥ ३६ ॥ एकपादेन तिष्ठन् सन्निराहारपरायणः । तताप तप उग्रं वै वर्षाणामयुतं गतम् ॥ ३७ ॥ तस्यैव तपसा सर्वं व्याकुलं सचराचरम् । न स्थातुमशक्तं स्थाने भयभीतं बभूव ह ॥ ३८ ॥ तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा देवगणैः सह । आययौ तं वरं दातुं तपसा तोषितः प्रभुः ॥ ३९ ॥ काष्ठवत्तं स्थितं वीक्ष्य विस्मितः कमलासनः । जगाद तं महाभागं हर्षयन्निव भाषया ॥ ४० ॥ ब्रह्मोवाच । वरं वृणु महाभाग यं यं मनसि संस्थितम् । ईप्सितं पूरयिष्यामि नात्र कार्या विचारणा ॥ ४१ ॥ ब्रह्मणो वचनं श्रुत्वा दंभः परमहर्षितः । तं प्रणम्य प्रतुष्टाव बद्धांजलिपुटो बली ॥ ४२ ॥ दंभ उवाच । नमस्ते सृष्टिकर्त्रे वै सृष्टिपात्रे प्रजापते । सृष्टिहर्त्रे त्रिरूपाय ब्रह्मविष्णुशिवात्मने ॥ ४३ ॥ त्वया ततमिदं सर्वं त्वदाधारं महाप्रभो ।

त्वयि सुप्ते जगन्नष्टं भविष्यति न संशयः ॥ ४४ ॥ चराचमयो भूत्वा क्रीडसि त्वं पितामह । एकानेकप्रभेदेन त्वं स्थितोऽसि जगत्प्रभो ॥ ४५ ॥ अणुभ्योऽणुरतरस्त्वं च महद्भ्यश्च महान् किल । कस्तवां स्तोतुं समर्थः स्याद् ब्रह्माकारेण संस्थितम् ॥ ४६ ॥ महद्भाग्यं विभो मेऽद्य येन ते दर्शनं परम् । प्राप्तं सकलपापघ्नमग्रे शुभकरं तथा ॥ ४७ ॥ यदि प्रसन्नतां यातो यदि देयो वरो महान् । तदा मे वांछितं सर्वं पूरयस्व प्रजापते ॥ ४८ ॥ राज्यं त्रैलोक्यस्य तथा मह्यं देहि पितामह । पंचभूतात्मकेभ्यश्च मृत्युर्न च कदा भवेत् ॥ ४९ ॥ संग्रामे मत्सभः कश्चिन्नान्यः स्यान् मां कुरु प्रभो । अखंडैश्वर्यसंयुक्तमारोग्यादिसमन्वितम् ॥ ५० ॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रत्युवाच ह । तपसा तोषितस्तस्मै दातुमुत्सुकतां गतः ॥ ५१ ॥ ब्रह्मोवाच । त्वया यत्प्रार्थितं दंभ तत्सर्वं प्रहविष्यति । अन्यद्यच्चिंतितं तत्ते सिद्धरूपं भविष्यति ॥ ५२ ॥ इत्युक्त्वांतर्दधे ब्रह्मा दंभः संहर्षितोऽभवत् । स्वगृहं प्रजगामासौ महाबलपराक्रमः ॥ ५३ ॥ नगरं शोभनं नाम कारयामास दर्पितः । पृथिव्यां सर्वशोभाढ्यं वासं तत्र चकार ह ॥ ५४ ॥ ततो दैत्यगणाः सर्वे शुक्रेन प्रेरिता मुने । आययुस्तत्र दंभस्य नगरे हर्षिता भृशम् ॥ ५५ ॥ शुक्रः समागतस्तत्र मुनिभिर्ब्रह्मवादिभिः । दैत्यराज्यं स दंभायाऽभवद्दातुं स उद्यतः ॥ ५६ ॥ शुभे लग्ने मुहूर्ते च सोऽभिषेकमकारयत् । ब्राह्मणैर्दैत्यराजानां राजा दंभो बभूव ह ॥ ५७ ॥ महोत्सवं हर्षितास्ते चक्रुः सर्वे समागताः । हृष्टपुष्टजनाकीर्णं नगरं शुशुभे भृशम् ॥ ५८ ॥ सर्वे स्वस्वगृहे जग्मुस्ततो हर्षसमन्विताः । मुख्याश्च संस्थितास्तत्र दैत्याः परमदारुणाः ॥ ५९ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नगरे दंभदैत्यस्य महोत्सवयुता बभुः । जनाः सर्वे महाभागाः कंचित्कालं प्रजापते ॥ १ ॥ एकदा दैत्यपाः सर्वे ययुस्तत्र महाबलम् । सुहुंडश्च तथा हुंडो रुक्मकेतुर्महाबलः ॥ २ ॥ मद्यपश्व सकोपश्च तथा क्रोधासुरो महान् । कामासुरो बलाढ्यश्च रासभासुर एव च ॥ ३ ॥ इत्याद्या बहवश्चान्ये दंभं शोभासमन्वितम् । प्रणम्योचुर्महात्मान उत्सुका देवनाशने ॥ ४ ॥ दैत्येशा ऊचुः । किं स्थितोऽसि महाराज वयं दासाः समागताः । त्रिभुवनं प्रजेष्यामो

Here is the exact transcription of the text from the provided image:

[Header] खं. १ अ. ४२ | पान ९५


[Main Text] देवमर्दनलालसाः ॥ ५ ॥ तवाज्ञावशगाः सर्वे दैत्यदानवराक्षसाः । ब्रह्मांडॆ न भवेत्तुल्यस्तव दंभ बलेन वा ॥ ६ ॥ यशसा तेजसा चैव न समस्ते सुराधिप । आज्ञापय महाबाहो जेष्यामः सकलं जगत् ॥ ७ ॥ दैत्येशानां वचः श्रुत्वा दंभदैत्यः प्रहर्षितः । उवाच तान् महाभागान् भावयुक्तेन चेतसा ॥ ८ ॥ दंभासुर उवाच । सम्यगुक्तं महाभागा ममापि हृदये स्थितम् । भवद्भिः सहितोऽहं वै जेष्यामि सचराचरम् ॥ ९ ॥ एवमुक्त्वा स दैत्येशः शुक्रं तत्रानयन्मुने । मतं तस्य समादाय निर्जगाम ततः पुरात् ॥ १० ॥ अपारसेनया सार्धं चतुरंगसुयुक्तया । सर्वे पृथिव्यां राजानो जिता दैत्यैर्महाबलैः ॥ ११ ॥ पातालेषु च सर्वान् वै नागान् जित्वा दिवं ययुः । तत्रेंद्रो देवदेवेंद्रैर्ययुधे सोऽसुरैः सह ॥ १२ ॥ तेन दैत्यगणाः सर्वे भयभीताः समंततः । वज्रपातैर्महाघोरैर्मूर्णिता ज्वालितास्तथा ॥ १३ ॥ असुरा रणभूमिं च त्यक्त्वा सर्वे पलायिताः । ततो दंभासुरस्तत्र युयुधे बलगर्वितः ॥ १४ ॥ चक्रपातेन देवेंद्रं मूर्च्छितं च चकार ह । देवान् बाणार्दितान् सर्वान् कारयामास दैत्यपः ॥ १५ ॥ लब्ध्वा संज्ञां सुरेन्द्रो वै पलायत जिजीविषुः । ततो देवगणास्तं चान्वगुः सर्वे भयातुरः ॥ १६ ॥ दैत्य ऐरावतारूढो देवेंद्रस्यासने स्थितः । अमराणां पुरीं गत्वा हर्षितो हर्षयन् स्वकान् ॥ १७ ॥ इंद्रो देवगणैः सर्वैर्ब्रह्माणं शरणं ययौ । ब्रह्मणा सह विष्णुं च तेन सार्द्धं शिवं ययौ ॥ १८ ॥ शिवः क्रोधसमायुक्त आययौ रणमूर्धनि । जुहाव दैत्यराजं तं संग्रामाय महाबलम् ॥ १९ ॥ ततो दैत्येशसंयुक्तो दंभदैत्यः समाययौ । क्रोधसंरक्तचक्षुस्तं सन्नद्धो बलसंयुतः ॥ २० ॥ ततः समभवद्युद्धं दारुणं रोमहर्षणम् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥ २१ ॥ चत्वारिंशद्दिनान्यत्र तुमुलं नीतिसंयुक्तम् । शोणितौघा महानद्यो जाताः प्रेतसमाकुलाः ॥ २२ ॥ ततो दंभः स्वयं क्रुद्धो बाणैर्देवानमर्दयत् । चकार देवराजांस्तान मूर्च्छितान् धरणिं गतान् ॥ २३ ॥ ततः शंभुस्त्रिशूलेन तं जघान महाबलम् । पपात मूर्च्छया दैत्यः क्षणादुत्थितवान् पुनः ॥ २४ ॥ तत्याज बलवांशक्रं पातयामास शांकरम् । मूर्च्छितं प्रहरार्द्धं च दंभदैत्यः प्रतापवान् ॥ २५ ॥ दृष्ट्वाऽद्भुतं महावीर्यं दैत्यराजस्य शंकरः । पलायत ससंज्ञः सन् वने वै देवसंयुतः ॥ २६ ॥ देवेंद्रान् गच्छतो दृष्ट्वा जहसुर्दैत्यनायकाः । आनंदेन समायुक्ता विविशुस्त्वमरावतीम् ॥ २७ ॥ ततः स सत्यलोके च वैकुंठे दैत्यनायकान् । कैलासे चामरावत्यां स्थापयामास यत्नतः ॥ २८ ॥ नानादेवपुरे रम्ये स्थापयामास दानवान् । आययौ शोभनायां स स्वपुर्यां बलसंयुतः ॥ २९ ॥ चकार राज्यमुन्मत्तस्त्रैलोकस्य महाबलः । ततः कर्म-

विनाशार्थमाज्ञापयत दैत्यपान् ॥३०॥ तदाज्ञया ययुः सर्वे दैत्याः परमदारुणाः । ब्राह्मणादीन् बबंधुस्ते ताडयामासुरोजसा ॥ ३१॥ यज्ञवाटान् बभंजुस्ते यज्ञवृक्षादिकान् खलाः । तीर्थानि लोपयामासुर्देवतायतनानि च ॥ ३२ ॥ एवं नानाविधैर्यत्नैः कर्मलोपं प्रचक्रिरे । केचिद्भ्रष्टा द्विजास्तत्र मृताः केचित्तदाऽभवन् ॥ ३३ ॥ केचिद्वनं ययुस्तत्र सिंहव्याघ्रादिसंकुलम् । संध्यादिभिर्विहीनास्ते द्विजास्तत्राऽभवन् किल ॥ ३४ ॥ न स्वाहा न स्वधा तत्र न वषट्कार एव च । न वर्णाश्रमधर्मश्च दंभे राज्यं प्रकुर्वति ॥ ३५ ॥ वर्णसंकररूपा वै प्रजा जाता महीतले । तदा देवगणाः सर्वे भयभीता बभूविरे ॥ ३६ ॥ कर्मभोगकरा देवा नष्टे कर्मणि शौनक । मृतप्राया मृताः सर्व इव ब्रह्माणमब्रुवन् ॥ ३७ ॥ देवा ऊचुः । शरणं त्वदृते देव कं याम कमलासन । त्वं धाता त्वं विधाता च सर्वेषां प्राणधारकः ॥ ३८ ॥ त्वं गतिः सर्वदेवानां त्वमेव ब्रह्मभावितः । अतोऽस्मान् रक्ष देवेश दंभासुरभयात् परात् ॥ ३९ ॥ कर्महीनं कृतं तेन त्रैलोक्यं सचराचरम् । देवाः कर्मान्नभोक्तारो महाबुद्धे कृतास्त्वया ॥ ४० ॥ कर्माभावेन जगति मरिष्यामो न संशयः । अतस्त्वं सर्वदेवांश्च रक्षस्व प्रपितामह ॥ ४१ ॥ त्वयैव चाभयं दत्तं पालिताश्च त्वया वयम् । अधुना क्षुधयाऽऽविष्टा मरिष्यामस्त्वदग्रतः ॥ ४२ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुरविजयो नाम द्विचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवेंद्रार्णां वचः क्रूरं श्रुत्वा चिंतातुरोऽभवत् । चतुर्मुखो विचारं स चकाराऽत्र तु शोभनम् ॥ १ ॥ नावाप देवरक्षार्थं बुद्धिं बुद्धिविशारदः । ततश्चिन्तां दुरंतां वै जगाम कमलासनः ॥ २ ॥ जगाद देवमुख्यांस्तु भयेन कमलासनः । अहं यूयं च सर्वेपि प्रार्थयामो गजाननम् ॥ ३ ॥ स वै सर्वविचारज्ञः करिष्यति शुभं महत् । अतस्तत् ध्यानकौशल्यात् ध्यायेम च विनायकम् ॥ ४ ॥ एकाक्षरविधानेन वक्रतुंडं यजामहे । शरणं सर्वदेवानां भविष्यति न संशयः ॥ ५ ॥ मुद्गल उवाच । ब्रह्मणो गिरमाकर्ण्य देवा मुनिगणैः सह । पूजयामासुरव्यग्रा वक्रतुंडं विधानतः ॥ ६ ॥ ब्रह्माऽपि ध्यानसंयुक्तस्तोषयामास विघ्नपम् । पुरा दृष्टं तथा चित्ते सिद्धिवुद्धियुतं मुने ॥ ७ ॥ गतेषु शतवर्षेषु ब्रह्मा- ऽपश्यच्च तं हृदि । साकारं गुणसंयुक्तं वदंतं मंजुला गिरः ॥ ८ ॥ दृष्ट्वा विस्मितचित्तोऽसौ यावत्पृच्छति तं प्रभुम् ।

खं. १ अ. ४३ पान ९७ तावत् सोपि बहिर्यातः सिद्धिबुद्धिसमन्वितः ॥ ९ ॥ ब्रह्माणं बोधयामास वक्रतुंडो महाबलः । सुप्रसन्नतरो जातस्तपसा ध्यानशालिना ॥ १० ॥ वक्रतुंड उवाच । पश्य मां पुत्रभावेन पितामह गणाधिपम् । तव ध्यानात् समुत्पन्नं ध्यानजं प्रवदंत्यतः ॥ ११ ॥ तपसा पूर्वकाले मां त्वया पुत्रत्वमादरात् । याचितं सफलं तच्च कृतं तव मयाऽधुना ॥ १२॥ वचनं वक्रतुंडस्य श्रुत्वा ब्रह्मा मुदा युतः । बहिर्वीक्ष्य गणेशानं सिद्धिबुद्धिविराजितम् ॥ १३॥ प्रणनाम स साष्टांगं वक्रतुंडं गजाननम् । सिद्धिं बुद्धिं विधानेन पूजयामास यत्नतः ॥ १४॥ तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे समागताः । ऋषयस्तं महाभागाः प्रणेमुर्भक्तिभावतः ॥ १५ ॥ सुतं मानसिकं दृष्ट्वा सिद्धिं बुद्धिं तथात्मजे । ताभ्यां सह विनीतास्ते तुष्टुवुर्बद्धपाणयः ॥ १६ ॥ ब्रह्माऽपि पूजनं कृत्वा स्तोतुं सर्वैः समन्वितः । उद्यतोऽभून् महातेजा वक्रतुंडं सभार्यकम् ॥ १७ ॥ संदेवर्षिर्ब्रह्मोवाच । नमस्ते ब्रह्मभूताय वक्रतुंडाय साक्षिणे । सिद्धिबुद्धियुतायैव गणेशाय नमो नमः ॥ १८ ॥ विघ्नेशाय नमस्तुभ्यं निर्गुणाय गुणात्मने । अनादये च सर्वज्ञ पालकाय नमोऽस्तु ते ॥ १९॥ नमस्ते सर्वरूपाय सर्वाध्यक्षाय धीमते । आदिमध्यांतहीनाय साक्षाद्देवाय ते नमः ॥ २० ॥ अमेयशक्तये तुभ्यं मायिभ्यो मोहदाय च । अमायिने च मायाया आधाराय नमो नमः ॥ २१ ॥ सत्याय सत्यरूपाय सत्यपालक रक्षिणे । ज्ञानाय ज्ञानदात्रे च ज्ञानगम्याय ते नमः ॥ २२॥ लंबोदराय देवाय गणानां पतये नमः । गणेशाय गुणाधार हेरंबाय नमो नमः ॥ २३ ॥ त्वां स्तोतुं न समर्थाश्च वेदाः शास्त्रसमन्विताः । योगींद्रा देवमुख्याश्च तत्र कोऽहं गजानन ॥ २४॥ यथाबुद्धि प्रमोदेन संस्तुतोऽसि गणेश्वर । तेन मे सफलं सर्वं जातं लंबोदराधुना ॥ २५ ॥ ब्रह्मांडानाममंतानां कारकस्त्वं न संशयः । कथं मे पुत्रतां यातः सिद्धिबुद्धिसमन्वितः ॥ २६ ॥ सिद्धिबुद्धियुतं ब्रह्म हृदि ध्यातं विशेषतः । तदेव बहिरायातं तारितुं मां न संशयः ॥ २७॥ इत्युक्त्वा ब्राह्मणैः सार्धं जातकर्मादिकां क्रियाम् । चकार च स्वयं ब्रह्मा परमानंदसंयुतः ॥ २८॥ एकादशदिने तस्य सिद्धिबुद्धिपतिस्त्विति । नाम संस्थापयामास द्विजैः सह पितामहः ॥ २९॥ बाल क्रीडनभावेन क्रीडति स्म विनायकः । सावित्री स्तनपानं सा कारयामास भावतः ॥ ३० ॥ दिने दिनेऽथ बालोऽसौ ववृधे शुक्लचंद्रवत् । आनंदं जनयन् मातुः पितुश्च चरितैः स्वकैः ॥ ३१ ॥ सिद्धिबुद्धियुतो दक्ष वर्षद्वयवयाः स्थितः । एकदा तं विधातारं पप्रच्छ विनयान्वितः ॥ ३२ ॥ सिद्धिबुद्धिपतिरुवाच । तात किं वनवासं त्वं करोषि मुनिभिः सह । देवैः परमदुःखातों मम किं भाससे प्रभो ॥ ३३ ॥ तस्य तद्वचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः । जगाद गणपं

खं. १ अ. ४४ पान ९८ सर्वं वृत्तांतं दैत्यसंभवम् ॥ ३४ ॥ तच्छ्रुत्वा कोपदीप्तोऽसौ वक्रतुंडस्तमब्रवीत् । हर्षयन् देवविप्रादीन् मेघगंभीरनिस्वनः ॥ ३५ ॥ वक्रतुंड उवाच । दंभासुरं महावीर्यं हनिष्यामि न संशयः । देवेभ्यो ब्राह्मणेभ्यश्च स्वपदानि ददाम्यहम् ॥ ३६ ॥ एवमुक्त्वा समारूढः सिंहं शस्त्रधरः प्रभुः । सिद्धिबुद्धियुतस्तत्र जगामासुरवेश्मनि ॥ ३७ ॥ नगरप्रांतभागे स संस्थितो जगदीश्वरः । तं देवमुनयः सर्वे ययुर्हर्षसमन्विताः ॥ ३८ ॥ दूतमिंद्रं गणेशश्च प्रेषयामास सत्वरः । स्वधर्मे तिष्ठ दैत्येंद्र नो चेद्धन्मि न संशयः ॥ ३९ ॥ इंद्रो गत्वा महादैत्यं सामपूर्वमिदं वचः । उवाच सर्वभावज्ञो भावपूर्वं सुरद्विषम् ॥ ४० ॥ इंद्र उवाच । ब्रह्मणः पुत्रतां यातं पूर्णं ब्रह्म सनातनम् । सिद्धिबुद्धिपतिं विद्धि मानसं ध्यानयोगतः ॥ ४१ ॥ स एव मुनिभिर्देवैरागतः पुरसन्निधौ । मां दूतं प्रेषयामास सामार्थं तव सन्निधौ ॥४२॥ स्वधर्मे त्वं समातिष्ठ देवाः संतु हविर्भुजः । वर्णाश्रमयुता लोकास्तिष्ठंतु विगतज्वराः ॥ ४३ ॥ इंद्रस्य वचनं श्रुत्वा कुपितोऽतितरां मुने । दंभासुर उवाचाऽथ तमिंद्रं प्रदहन्निव ॥ ४४ ॥ दंभासुर उवाच । किं करोमि समायातो दूतरूपेण मे गृहे । नो चेत्त्वां बंधयित्वा तु कारागारे क्षिपाम्यहम् ॥ ४५ ॥ इंद्र गच्छ महाभाग वद तं गणनायकम् । पंचमे दिवसे त्वां च योधयामि न संशयः ॥ ४६ ॥ तत इंद्रः समायातः सिद्धिबुद्धिपतिं प्रति । कथयामास वृत्तांतं विस्तरेण यथायथम् ॥ ४७ ॥ श्रुत्वा गणपतिः प्रीतस्तमुवाच महामतिम् । समीचीनं त्वया तत्र कृतं देवपते यथा ॥ ४८ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुरदूतसंवादो नाम त्रिचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवेंद्रे प्रस्थिते तत्र गणेशस्यैव सन्निधौ । दंभासुरः कविं विप्रमाह्वयामास संनिधौ ॥ १ ॥ समागतं महाबुद्धिं शुक्रं मुनिवरं प्रभो । प्रणाम ससाष्टांगं बद्धांजलिपुटः स्थितः ॥ २ ॥ तं काव्यः स्थापयामास कांचनोत्तर आसने । पप्रच्छ मामाह्वयसे किमर्थमिति दानवम् ॥ ३ ॥ शुक्रस्य वचनं श्रुत्वा भयहर्षसमन्वितः । उवाच तं महाभागं भक्तियुक्तेन चेतसा ॥ ४ ॥ दंभासुर उवाच । स्वामिन् योद्धुं समायातः सिद्धिबुद्धिपतिः प्रभुः । ब्रह्मणो मानसः पुत्रस्तपसा तेन निर्मितः ॥ ५ ॥ परिपृच्छामि तत्र त्वां सर्वज्ञं मुनिसत्तमम् । येन तं सर्वभावेन जानामि खलु

यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:

खं. १ अ. ४४ पान ९९ तत्त्वतः ॥ ६ ॥ का सिद्धिः का तथा बुद्धिस्तयोः कोऽसौ पतिः प्रभो । किं सामर्थ्यधरो भाति वद सर्वं च मेऽग्रतः ॥ ७ ॥ दंभस्य वचनं श्रुत्वा शुक्रस्तं पुनरब्रवीत् । येन तत्त्वे प्रविज्ञाते गणेशे जायते मतिः ॥ ८ ॥ शुक्र उवाच । शृणु दैत्येंद्र तस्याऽपि महिमानं महाद्भुतम् । येन त्वं गाणपत्ये च तत्त्वे प्रनिपुणो भवेः ॥ ९ ॥ सिद्धिर्मोहकरी माया सर्वत्रैव प्रदृश्यते । सिद्ध्यर्थं सर्वलोकाश्च यत्नवंतो भवंत्यतः ॥ १० ॥ इहलोके स्वभोगार्थी सिद्धिमिच्छति दानव । परलोकस्य सिद्ध्यर्थं जनस्तत्प्रसमाकुलः ॥ ११ ॥ ब्रह्मभूयपदप्राप्तिमिच्छेद्वै सिद्धिरूपिकाम् । इह ब्रह्मपरप्राप्तिस्त्रिविधा मोहसंज्ञिता ॥ १२ ॥ माया गणपतेः प्रोक्ता भ्रांतिरूपा महामते । वामभागस्थया देव्या क्रीडतेऽसौ गजाननः ॥१३॥ भ्रामयन् ब्रह्मविष्ण्वादीन् योगिनो मानवादिकान् । ब्रह्मभूतस्वरूपत्वात् स्वाधीनः सततं मतः ॥१४॥ द्वितीया बुद्धिरूपा च माया तस्य महात्मनः । तां शृणुष्व महादैत्य येन त्वं सर्वविद्भवेः ॥ १५॥ यत्किंचिद् दृश्यते सर्वं मनोवाणीमयं जगत् । मनोवाणीविहीनं यत् सर्वं बुद्धिमयं बभौ ॥ १६ ॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चित्तं पंचविधं प्रोक्तं बुद्धिरूपं तदेव च ॥ १७ ॥ पंचानां बह्ववो भेदा वक्तुं तान् नैव शक्यते । एवमेकाप्यनेकाऽसौ बुद्धिः सर्वत्र दृश्यते ॥ १८ ॥ मोहधारकरूपां ता सुभ्रांतां बुद्धिमादरात् । ज्ञानरूपां हृदिस्थां तु ब्रह्माकारां प्रविद्धि हि ॥१९॥ बुद्धियुक्तनरेणैव परत्रेह प्रलभ्यते। बुध्द्या ब्रह्ममयो योगो युज्यते ज्ञानिभिः परः ॥ २० ॥ एतादृशी महाभागा दक्षिणांगधराऽसुर । तस्य योगेश्वरस्याऽपि गणेशस्य महात्मनः ॥ २१ ॥ क्रीडार्थं रचिते माये स्वस्यांगात्तेन दैत्यप । ब्रह्मरूपं च तं विद्धि योगेन लभते नरः ॥ २२ ॥ स्वानंदारूयं परं ब्रह्म तदेव नगरं मतम् । तत्र नित्यं वसति यः सिद्धिवुद्धिसमन्वितः ॥ २३ ॥ ब्रह्मणाराधितं ब्रह्म पुत्रभावार्थमादरात् । तदेव गणराजोऽयमागतो ब्रह्मणः सुतः ॥ २४ ॥ मातुः पितुश्च बंधं च पुत्रौ हरति यत्त्विति । तदर्थं पुत्रभावेन ब्रह्मणा प्रार्थितो विभुः ॥ २५ ॥ धर्मसंरक्षणार्थाय त्वां हनिष्यति निश्चितम् । अतस्त्वं शरणं गच्छ प्रभुमिच्छसि जीवितुम् ॥२६॥ मुद्गल उवाच । काव्यस्य मुनिमुख्यस्य वचनं ब्रह्मदायकम् । वेदांतसारसंभूतं श्रुत्वा दंभ उवाच ह ॥२७॥ दंभ उवाच । स्वामिन् श्रुतं मया वाक्यं त्वदीयं योगसंयुतम् । परं तु संशयं छिंधि हृदिस्थं कथयामि ते ॥२८॥ एतादृशं परं ब्रह्म गाणेशं चेन् महामुने । धर्माधर्मावतस्तस्मात् संभूतौ नात्र संशयः ॥२९॥ योगरूपेण सर्वत्र गणेशास्तिष्ठति प्रभो । धर्मस्य रक्षणं सोऽपि किं करोति विकारतः ॥ ३० ॥ अधर्मस्य तथा नाशं किमर्थं प्रकरोति सः । एतं संशयजातं मे छेत्तुमर्हसि सांप्रतम् ॥ ३१ ॥