मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 95, कुल 1023 में से
संदर्भ में पढ़ेंHere is the exact transcription of the text from the provided image:
[Header] खं. १ अ. ४२ | पान ९५
[Main Text] देवमर्दनलालसाः ॥ ५ ॥ तवाज्ञावशगाः सर्वे दैत्यदानवराक्षसाः । ब्रह्मांडॆ न भवेत्तुल्यस्तव दंभ बलेन वा ॥ ६ ॥ यशसा तेजसा चैव न समस्ते सुराधिप । आज्ञापय महाबाहो जेष्यामः सकलं जगत् ॥ ७ ॥ दैत्येशानां वचः श्रुत्वा दंभदैत्यः प्रहर्षितः । उवाच तान् महाभागान् भावयुक्तेन चेतसा ॥ ८ ॥ दंभासुर उवाच । सम्यगुक्तं महाभागा ममापि हृदये स्थितम् । भवद्भिः सहितोऽहं वै जेष्यामि सचराचरम् ॥ ९ ॥ एवमुक्त्वा स दैत्येशः शुक्रं तत्रानयन्मुने । मतं तस्य समादाय निर्जगाम ततः पुरात् ॥ १० ॥ अपारसेनया सार्धं चतुरंगसुयुक्तया । सर्वे पृथिव्यां राजानो जिता दैत्यैर्महाबलैः ॥ ११ ॥ पातालेषु च सर्वान् वै नागान् जित्वा दिवं ययुः । तत्रेंद्रो देवदेवेंद्रैर्ययुधे सोऽसुरैः सह ॥ १२ ॥ तेन दैत्यगणाः सर्वे भयभीताः समंततः । वज्रपातैर्महाघोरैर्मूर्णिता ज्वालितास्तथा ॥ १३ ॥ असुरा रणभूमिं च त्यक्त्वा सर्वे पलायिताः । ततो दंभासुरस्तत्र युयुधे बलगर्वितः ॥ १४ ॥ चक्रपातेन देवेंद्रं मूर्च्छितं च चकार ह । देवान् बाणार्दितान् सर्वान् कारयामास दैत्यपः ॥ १५ ॥ लब्ध्वा संज्ञां सुरेन्द्रो वै पलायत जिजीविषुः । ततो देवगणास्तं चान्वगुः सर्वे भयातुरः ॥ १६ ॥ दैत्य ऐरावतारूढो देवेंद्रस्यासने स्थितः । अमराणां पुरीं गत्वा हर्षितो हर्षयन् स्वकान् ॥ १७ ॥ इंद्रो देवगणैः सर्वैर्ब्रह्माणं शरणं ययौ । ब्रह्मणा सह विष्णुं च तेन सार्द्धं शिवं ययौ ॥ १८ ॥ शिवः क्रोधसमायुक्त आययौ रणमूर्धनि । जुहाव दैत्यराजं तं संग्रामाय महाबलम् ॥ १९ ॥ ततो दैत्येशसंयुक्तो दंभदैत्यः समाययौ । क्रोधसंरक्तचक्षुस्तं सन्नद्धो बलसंयुतः ॥ २० ॥ ततः समभवद्युद्धं दारुणं रोमहर्षणम् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥ २१ ॥ चत्वारिंशद्दिनान्यत्र तुमुलं नीतिसंयुक्तम् । शोणितौघा महानद्यो जाताः प्रेतसमाकुलाः ॥ २२ ॥ ततो दंभः स्वयं क्रुद्धो बाणैर्देवानमर्दयत् । चकार देवराजांस्तान मूर्च्छितान् धरणिं गतान् ॥ २३ ॥ ततः शंभुस्त्रिशूलेन तं जघान महाबलम् । पपात मूर्च्छया दैत्यः क्षणादुत्थितवान् पुनः ॥ २४ ॥ तत्याज बलवांशक्रं पातयामास शांकरम् । मूर्च्छितं प्रहरार्द्धं च दंभदैत्यः प्रतापवान् ॥ २५ ॥ दृष्ट्वाऽद्भुतं महावीर्यं दैत्यराजस्य शंकरः । पलायत ससंज्ञः सन् वने वै देवसंयुतः ॥ २६ ॥ देवेंद्रान् गच्छतो दृष्ट्वा जहसुर्दैत्यनायकाः । आनंदेन समायुक्ता विविशुस्त्वमरावतीम् ॥ २७ ॥ ततः स सत्यलोके च वैकुंठे दैत्यनायकान् । कैलासे चामरावत्यां स्थापयामास यत्नतः ॥ २८ ॥ नानादेवपुरे रम्ये स्थापयामास दानवान् । आययौ शोभनायां स स्वपुर्यां बलसंयुतः ॥ २९ ॥ चकार राज्यमुन्मत्तस्त्रैलोकस्य महाबलः । ततः कर्म-