भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 96, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 96

विनाशार्थमाज्ञापयत दैत्यपान् ॥३०॥ तदाज्ञया ययुः सर्वे दैत्याः परमदारुणाः । ब्राह्मणादीन् बबंधुस्ते ताडयामासुरोजसा ॥ ३१॥ यज्ञवाटान् बभंजुस्ते यज्ञवृक्षादिकान् खलाः । तीर्थानि लोपयामासुर्देवतायतनानि च ॥ ३२ ॥ एवं नानाविधैर्यत्नैः कर्मलोपं प्रचक्रिरे । केचिद्भ्रष्टा द्विजास्तत्र मृताः केचित्तदाऽभवन् ॥ ३३ ॥ केचिद्वनं ययुस्तत्र सिंहव्याघ्रादिसंकुलम् । संध्यादिभिर्विहीनास्ते द्विजास्तत्राऽभवन् किल ॥ ३४ ॥ न स्वाहा न स्वधा तत्र न वषट्कार एव च । न वर्णाश्रमधर्मश्च दंभे राज्यं प्रकुर्वति ॥ ३५ ॥ वर्णसंकररूपा वै प्रजा जाता महीतले । तदा देवगणाः सर्वे भयभीता बभूविरे ॥ ३६ ॥ कर्मभोगकरा देवा नष्टे कर्मणि शौनक । मृतप्राया मृताः सर्व इव ब्रह्माणमब्रुवन् ॥ ३७ ॥ देवा ऊचुः । शरणं त्वदृते देव कं याम कमलासन । त्वं धाता त्वं विधाता च सर्वेषां प्राणधारकः ॥ ३८ ॥ त्वं गतिः सर्वदेवानां त्वमेव ब्रह्मभावितः । अतोऽस्मान् रक्ष देवेश दंभासुरभयात् परात् ॥ ३९ ॥ कर्महीनं कृतं तेन त्रैलोक्यं सचराचरम् । देवाः कर्मान्नभोक्तारो महाबुद्धे कृतास्त्वया ॥ ४० ॥ कर्माभावेन जगति मरिष्यामो न संशयः । अतस्त्वं सर्वदेवांश्च रक्षस्व प्रपितामह ॥ ४१ ॥ त्वयैव चाभयं दत्तं पालिताश्च त्वया वयम् । अधुना क्षुधयाऽऽविष्टा मरिष्यामस्त्वदग्रतः ॥ ४२ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुरविजयो नाम द्विचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । देवेंद्रार्णां वचः क्रूरं श्रुत्वा चिंतातुरोऽभवत् । चतुर्मुखो विचारं स चकाराऽत्र तु शोभनम् ॥ १ ॥ नावाप देवरक्षार्थं बुद्धिं बुद्धिविशारदः । ततश्चिन्तां दुरंतां वै जगाम कमलासनः ॥ २ ॥ जगाद देवमुख्यांस्तु भयेन कमलासनः । अहं यूयं च सर्वेपि प्रार्थयामो गजाननम् ॥ ३ ॥ स वै सर्वविचारज्ञः करिष्यति शुभं महत् । अतस्तत् ध्यानकौशल्यात् ध्यायेम च विनायकम् ॥ ४ ॥ एकाक्षरविधानेन वक्रतुंडं यजामहे । शरणं सर्वदेवानां भविष्यति न संशयः ॥ ५ ॥ मुद्गल उवाच । ब्रह्मणो गिरमाकर्ण्य देवा मुनिगणैः सह । पूजयामासुरव्यग्रा वक्रतुंडं विधानतः ॥ ६ ॥ ब्रह्माऽपि ध्यानसंयुक्तस्तोषयामास विघ्नपम् । पुरा दृष्टं तथा चित्ते सिद्धिवुद्धियुतं मुने ॥ ७ ॥ गतेषु शतवर्षेषु ब्रह्मा- ऽपश्यच्च तं हृदि । साकारं गुणसंयुक्तं वदंतं मंजुला गिरः ॥ ८ ॥ दृष्ट्वा विस्मितचित्तोऽसौ यावत्पृच्छति तं प्रभुम् ।