मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 94, कुल 1023 में से
संदर्भ में पढ़ेंत्वयि सुप्ते जगन्नष्टं भविष्यति न संशयः ॥ ४४ ॥ चराचमयो भूत्वा क्रीडसि त्वं पितामह । एकानेकप्रभेदेन त्वं स्थितोऽसि जगत्प्रभो ॥ ४५ ॥ अणुभ्योऽणुरतरस्त्वं च महद्भ्यश्च महान् किल । कस्तवां स्तोतुं समर्थः स्याद् ब्रह्माकारेण संस्थितम् ॥ ४६ ॥ महद्भाग्यं विभो मेऽद्य येन ते दर्शनं परम् । प्राप्तं सकलपापघ्नमग्रे शुभकरं तथा ॥ ४७ ॥ यदि प्रसन्नतां यातो यदि देयो वरो महान् । तदा मे वांछितं सर्वं पूरयस्व प्रजापते ॥ ४८ ॥ राज्यं त्रैलोक्यस्य तथा मह्यं देहि पितामह । पंचभूतात्मकेभ्यश्च मृत्युर्न च कदा भवेत् ॥ ४९ ॥ संग्रामे मत्सभः कश्चिन्नान्यः स्यान् मां कुरु प्रभो । अखंडैश्वर्यसंयुक्तमारोग्यादिसमन्वितम् ॥ ५० ॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रत्युवाच ह । तपसा तोषितस्तस्मै दातुमुत्सुकतां गतः ॥ ५१ ॥ ब्रह्मोवाच । त्वया यत्प्रार्थितं दंभ तत्सर्वं प्रहविष्यति । अन्यद्यच्चिंतितं तत्ते सिद्धरूपं भविष्यति ॥ ५२ ॥ इत्युक्त्वांतर्दधे ब्रह्मा दंभः संहर्षितोऽभवत् । स्वगृहं प्रजगामासौ महाबलपराक्रमः ॥ ५३ ॥ नगरं शोभनं नाम कारयामास दर्पितः । पृथिव्यां सर्वशोभाढ्यं वासं तत्र चकार ह ॥ ५४ ॥ ततो दैत्यगणाः सर्वे शुक्रेन प्रेरिता मुने । आययुस्तत्र दंभस्य नगरे हर्षिता भृशम् ॥ ५५ ॥ शुक्रः समागतस्तत्र मुनिभिर्ब्रह्मवादिभिः । दैत्यराज्यं स दंभायाऽभवद्दातुं स उद्यतः ॥ ५६ ॥ शुभे लग्ने मुहूर्ते च सोऽभिषेकमकारयत् । ब्राह्मणैर्दैत्यराजानां राजा दंभो बभूव ह ॥ ५७ ॥ महोत्सवं हर्षितास्ते चक्रुः सर्वे समागताः । हृष्टपुष्टजनाकीर्णं नगरं शुशुभे भृशम् ॥ ५८ ॥ सर्वे स्वस्वगृहे जग्मुस्ततो हर्षसमन्विताः । मुख्याश्च संस्थितास्तत्र दैत्याः परमदारुणाः ॥ ५९ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुरराज्याभिषेको नाम एकचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नगरे दंभदैत्यस्य महोत्सवयुता बभुः । जनाः सर्वे महाभागाः कंचित्कालं प्रजापते ॥ १ ॥ एकदा दैत्यपाः सर्वे ययुस्तत्र महाबलम् । सुहुंडश्च तथा हुंडो रुक्मकेतुर्महाबलः ॥ २ ॥ मद्यपश्व सकोपश्च तथा क्रोधासुरो महान् । कामासुरो बलाढ्यश्च रासभासुर एव च ॥ ३ ॥ इत्याद्या बहवश्चान्ये दंभं शोभासमन्वितम् । प्रणम्योचुर्महात्मान उत्सुका देवनाशने ॥ ४ ॥ दैत्येशा ऊचुः । किं स्थितोऽसि महाराज वयं दासाः समागताः । त्रिभुवनं प्रजेष्यामो