भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 92, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 92

खं. १ अ. ४१ पान ९२ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 दास्येऽहं वाञ्छितान् परान् । मयि प्रसन्नतां याते दुर्लभं न भविष्यति ॥ ३४ ॥ गणेशवचनं श्रुत्वा ब्रह्मा तं प्रणनाम च । बद्धांजलिपुटो भूत्वा स्तोतुं तमुपचक्रमे ॥ ३५ ॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः ॥ ❧ ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमस्ते वक्रतुंडाय गणेशाय महात्मने । अनंतानंतपाराय विघ्नेशाय नमो नमः ॥ १ ॥ नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते । अभक्तकामनाशाय सर्वदात्रे नमो नमः ॥ २ ॥ निर्गुणाय निरूपाय निर्मलाय गुणात्मने । अनंताननधाराय सिंहवाहाय ते नमः ॥ ३ ॥ अनादिरूपकायैव नमः सर्वप्रियंकर । वेदांतवेद्यदेहाय गज- वक्त्राय ते नमः ॥ ४ ॥ अनंतोदरसंस्थाय नानाभोगकराय ते । मायाधाराय मायाया मोहकाय नमो नमः ॥ ५ ॥ अमेयशक्तये तुभ्यमनाधाराय दंष्ट्रिणे । चतुर्बाहुयुतायैव स्वानंदपतये नमः ॥ ६ ॥ सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च । ब्रह्मभूताय देवाय विघ्नहर्त्रे नमोऽस्तु ते ॥ ७ ॥ वक्रतुंड प्रसन्नस्त्वं मह्यं देहि तदानघ । त्वदीयामचलां भक्तिं यया बंधो न विद्यते ॥ ८ ॥ त्वदाज्ञया प्रवृत्तोऽहं तत्र सामर्थ्यमद्भुतम् । सृष्टौ देहि गणाधीश विघ्नहीनं च मे सदा ॥ ९ ॥ अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानन । अतस्त्वं पुत्रभावेन गृहे मे तिष्ठ मायया ॥ १० ॥ त्वं साक्षाद्ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि । तदाहं बंधनान्मुक्तो भविष्यामि च राजसात् ॥ ११ ॥ तव माता पिता स्वामिन् बंधयुक्तौ कृतौ यदि । तदा वेदादिकं सर्वं मिथ्याभूतं भविष्यति ॥ १२ ॥ नामग्रहणमात्रेण ब्रह्मभूयप्रदो भवान् । किं पुनः पुत्रभावेन त्वं चेत् स्थास्यसि मे गृहे ॥ १३ ॥ अन्यच्च लालनं कुर्यां सेवनं पूजनं तथा । निरंतरं प्रपश्येयं भवेयमतुलस्ततः ॥ १४ ॥ ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिः स्वयम् । जगाद तं महाभागं हर्षयन् सर्वभाववित् ॥ १५ ॥ वक्रतुंड उवाच । त्वया यत् प्रार्थितं ब्रह्मन् तदस्तु सकलं किल । सृष्टिकर्तृत्वसामर्थ्यमद्भुतं ते भविष्यति ॥ १६ ॥ निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति । यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा ॥ १७ ॥ तव पुत्रो भविष्यामि तारको माययांशतः । वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः ॥ १८ ॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । मम प्रीतिकरं ब्रह्मन् 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐