मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 91, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ४० पान ९१ बभूविरे । स्वस्वकार्ये प्रवृत्ताश्च सावधानेन चेतसा ॥९॥ सृष्टिप्रकरणे ब्रह्मा प्रवृत्तो जगतोऽभवत् । न सस्मार गणेशानं विस्मृत्यादौ तदर्चनम् ॥१०॥ तेन भ्रांतोऽभवत् सद्यो मानसे गर्वमादधे । त्रिलोके नैव मत्पुल्यः स्रष्टाऽहं नात्र संशयः ॥११॥ सृजामि सकलं विश्वं तदा विष्णुश्च पाति वै । रुद्रः संहरते तच्च शक्तिर्मोहं करोति च ॥१२॥ सूर्यः कर्मप्रकाशं च करोति जगति प्रभुः । न सृष्टं चेन् मया विश्वं देवत्वं तु निरर्थकम् ॥१३॥ ममाज्ञादौ गणेशेन कृता सृष्टौ विशेषतः । मदीयां पात्रतां दृष्ट्वा तस्मान्नान्योऽस्ति मत्समः ॥१४॥ इति गर्वेण मनसि मोहितोऽभूत् पितामहः । ततो विघ्नगणास्तत्र प्रबभूवुरनेकंशः ॥१५॥ सृष्टिं विरचयंतं तं ब्रह्माणं प्राप्य दारुणः । नानारूपा महावीर्यास्ताडयामासु- रोजसा ॥१६॥ त्रिनेत्राः पंचनेत्राश्च पृष्ठनेत्रा महाबलाः । दशतुंडा सहस्रं च मुखानि दधतः परे ॥१७॥ एवं नाना- स्वरूपास्ते विधिं धृत्वा प्ररेमिरे । बालक्रीडनकं कृत्वा दुःखयुक्तं महाबलाः ॥१८॥ एवं स परवान् ब्रह्मा गर्वं सर्वं प्रमुच्य वै । जगाम शरणं देवं गणेशं विघ्ननायकम् ॥१९॥ गतगर्वो हृदि स्मृत्वा तुष्टाव गणनायकम् । तेन विघ्नगणाः सर्वेंऽतर्धानं तत्र चक्रिरे ॥२०॥ मुक्तो विघ्नैस्तदा ब्रह्मा तताप परमं तपः । षडक्षरेण मंत्रेण वक्रतुंडमतोषयत् ॥२१॥ वायुभक्षोऽभवद्ब्रह्मा पादांगुष्ठाग्रसंस्थितः । चकार तेजसा वृत्तिं गणेशे निश्चलां ततः ॥२२॥ एवं दिव्यसहस्रं स तपस्तेपे सुदारुणम् । ततो भूतानि सर्वाणि व्याकुलानि तदाऽभवन् ॥२३॥ ततस्तस्योग्रतपसा प्रसन्नो वक्रतुंडकः । आययौ भक्तराजं तं भक्तिभावेन तोषितः ॥२४॥ तेजोरूपी महाकायो वक्रतुंडश्चतुर्भुजः । सिंहारूढस्त्रिनेत्रश्च पाशांकुशधरो विभुः ॥२५॥ वरदाभयहस्तश्च पृथुवक्षा महोदरः । सिद्धिवृद्धियुतश्चिंतामणिना च विराजितः ॥२६॥ नानालंकारसंयुक्तः शेषनाभिर्गजाननः । सिंदूरारुणदेहश्च नानावस्त्रधरः प्रभुः ॥२७॥ तं दृष्ट्वा भयभीतोऽसौ विधाता स्तौति तं परम् । गणेशं हृदि संचिंत्य नानास्तोत्रैर्विधानतः ॥२८॥ वक्रतुंडः स्तुवंतं तमुवाच घननिस्वनः । वरं वृणु विधातस्त्वं दास्यामि तु न संशयः ॥२९॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रणनाम च । उवाच सौम्यरूपेण वरं देहि गजानन ॥३०॥ ब्रह्मणो गिरमाकर्ण्य सौम्यतेजा गजाननः । उवाच तं महाभागं भक्तिभावेन तोषितः ॥३१॥ वक्रतुंड उवाच । स्वानंदGeneric/स्वानंदनगरे संस्थं सदैतादृशरूपकम् । मृत्युलोके स्थितस्त्वं च कथं द्रक्ष्यसि मानद ॥३२॥ तपसा भक्तिभावेन तोषितोऽहं त्वया विधे । तेन सौम्यस्वरूपेण त्वदग्रे संस्थितोऽभवम् ॥३३॥ त्वं तु मत्तो वरान् ब्रूहि