भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 90, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 90

खं. १ अ. ४० पान ९० ध्यायंतश्च तमेवैते वक्रतुंडं सुसिद्धिदम् ॥ ४२॥ मत्सरोऽपि ततः सर्वैर्दैत्यैः परिवृतो ययौ । स्वं पदं पालयन् शीघ्रं सुशांतो ह्यभवत् सदा ॥ ४३ ॥ तं त्यक्त्वा दैत्यसंघास्ते ययुः स्वं स्वं गृहं मुने । एवं मत्सरमाहात्म्यं वक्रतुंडेन कारितम् ॥ ४४॥ स एव वक्रतुंडस्तु सृजत्यवति च प्रभुः । हरते भावहीनः सन् नायमध्यांतगः स्वयम् ॥ ४५॥ एवं नानावतारेण स्वस्वधर्मरतान् सुरान् । असुरान् मानवादींश्च कुरुते वक्रतुंडकः ॥ ४६ ॥ अवतारा अनंताश्च वक्रतुंडस्य भो विभो । चरित्रमखिलं तेषां कथितुं शक्यते न वै ॥ ४७॥ ब्रह्मणा षण्मुखेनाऽपि विष्णुना शंकरेण च । शेषेण मुनिभिश्चैव वेदैः काहं च तत्र वै ॥ ४८ ॥ दिवोदासशमार्थाय स एवं वक्रतुंडकः । शिवपुत्रत्वमापन्नो ढुंढिराजेति नामतः ॥ ४९ ॥ वामनस्य वरं दातुं स एव गणनायकः । प्रकटोऽभून् महातेजास्तस्याग्रे भक्तपालकः ॥ ५० ॥ एवं नानावतारैश्च भक्त- रक्षणलालसः । करोति भक्तसंरक्षां जानीहि त्वं प्रजापते ॥ ५१ ॥ ब्रह्मणा सृष्टिकार्यार्थं व्याकुलेन स न स्मृतः । वक्रतुंडस्ततो दैत्यो मत्सरः प्रविवेश तम् ॥ ५२॥ तेनासुरस्वभावेन पीडितो विधिरद्भुतम् । विघ्नयुक्तोऽभवत्तत्र सृष्टिं कर्तुं न स क्षमः ॥ ५३ ॥ पुरातनं वचः स्मृत्वा पुनस्तं शरणं ययौ । विधिर्विघ्नविहीनः स ससर्ज सकलं जगत् ॥ ५४ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते वक्रतुंडान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच ॥ धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया श्रावितं महत् । चरित्रं वक्रतुंडस्य ब्रह्मभूयकरं महत् ॥ १ ॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृततो यथा । इच्छामि तत्पुनः श्रोतुं पूजितो विधिना कथम् ॥ २ ॥ विस्तरेण च मे ब्रूहि कथां पापापनोदिनीम् । श्रोतुः प्रष्टुश्च वक्तुश्च त्रयाणां सर्वसिद्धिदाम् ॥ ३ ॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह । उत्फुल्लनयनो हर्षाद्गाणेशेंद्रः स शौनक ॥ ४ ॥ मुद्गल उवाच । शृणु दक्ष महाभाग धन्योऽसि न च संशयः । येन ते गणराजस्य कथायां प्रीतिरद्भुता ॥ ५ ॥ अल्पपुण्यवतो ढुंढिकथाया अवधारणे । श्रवणे च तथा प्रीति- र्जायते न कदाचन ॥ ६ ॥ अतस्तेऽहं प्रवक्ष्यामि त्वदादरसुतोषितः । संक्षेपेण कथां दिव्यां गणेशस्य महात्मनः ॥ ७ ॥ प्रलयादौ गणेशेन सृष्टाः पंच सुराधिपाः । तेषां तपःप्रभावेण प्रसन्नो वरदोऽभवत् ॥ ८ ॥ वरस्यैव प्रभावेण समर्थास्ते

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 90, कुल 1023 में से · BharatKosha