भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 89, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 89

समं त्वां नमामः सदा वक्रतुंडं भजामः ॥ १९ ॥ त्वया नाशितोऽयं महादैत्यभूपः सुशांतैर्धरोऽयं कृतस्तेन विश्वम् । अखंडप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुंडं भजामः ॥ २० ॥ न विदंति यं वेदवेदज्ञमर्त्या न विदंति यं शास्त्रशास्त्रज्ञभूपाः । न विदंति यं योगयोगीशकाद्या नमामः सदा वक्रतुंडं भजामः ॥ २१ ॥ न वेदा विदुर्यं च देवेंद्रमुख्या न योगैर्मुनींद्रा वयं किं स्तुमश्च । तथाऽपि स्वबुद्ध्या स्तुतं वक्रतुंडं नमामः सदा वक्रतुंडं भजामः ॥ २२ ॥ मुद्गल उवाच । एवं स्तुत्वा वक्रतुंडं स्थिता देवर्षयः प्रभो । बद्धांजलिपुटाः सर्वे तूष्णींभावेन मानद ॥ २३ ॥ देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः । उवाच तान् प्रसन्नात्मा हर्षयन् वचनं महत् ॥ २४ ॥ वक्रतुंड उवाच । शृणुध्वं मुनयः सर्वे देवा मे वचनं महत् । भवत्कृतमिदं स्तोत्रं मत्प्रीतिवर्धनं भवेत् ॥ २५ ॥ अनेन स्तौति यो नित्यं मां तस्य परिपूरये । भोगान्नानाविधांश्चैव पुत्रपौत्रादिसंपदः ॥ २६ ॥ यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः । भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ २७ ॥ नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् । सुरैर्देर्वर्चतां याति यो मां स्तौति त्वनेन सः ॥ २८ ॥ सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् । मोचयेन्नात्र संदेहो मत्प्रियः सर्वदा भवेत् ॥ २९ ॥ अपराधशतैर्युक्तो यो वै भवति मानवः । तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ ३० ॥ एकविंशतिवारं य एकविंशदिनानि वै । पठिष्यति सदा तस्मै चिंतितं प्रददाम्यहम् ॥ ३१ ॥ एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः । कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ ३२ ॥ तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा । भविष्यथ महाभागा भुक्तिमुक्तिप्रदास्तथा ॥ ३३ ॥ वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् । तद्दास्यामि न संदेहः स्तोत्रसंतोषितो ह्यहम् ॥ ३४ ॥ मुद्गल उवाच । एवमुक्ताः सुराः सर्वे मुनयस्तं प्रणम्य च । प्रहृष्टमानसा ऊचुर्वक्रतुंडं महाबलम् ॥ ३५ ॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो वक्रतुंड ददासि चेत् । त्वदीयामचलां भक्तिं देहि नाथ दयानिधे ॥ ३६ ॥ यदि प्राप्ता त्वदीया च भक्तिर्जंतोस्तदा प्रभो । किं दुर्लभं भवेत्तस्य हस्तगाः सर्वसिद्धयः ॥ ३७ ॥ अतो भक्तिं महाभाग देहि नो विघ्ननायक । तया तृप्ता भविष्यामस्त्वत्पादप्रवणा वयम् ॥ ३८ ॥ तेषां वचनमाकर्ण्य देवदेवो गजाननः । जगाद भावगंभीरं ज्ञाता विज्ञजनप्रियः ॥ ३९ ॥ वक्रतुंड उवाच । मदीया भक्तिरचला भविष्यति न संशयः । भवतां भावयुक्तानां भो भो देवर्षयः खलु ॥ ४० ॥ अंतर्दधे स उक्त्वैवं वक्रतुंडो गणेश्वरः । पश्यतां मुनिदेवानां स्वानंदस्थो बभूव ह ॥ ४१ ॥ ततो देवर्षयः सर्वे खिन्नाः स्वस्वपदं ययुः ।

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 89, कुल 1023 में से · BharatKosha