मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 88, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ३९ पान ८८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मत्सरं शांतिमापन्नं दृष्ट्वा देवर्षयस्तदा । प्रहृष्टमनसो जातास्तुष्टुवुस्तं गजाननम् ॥ १ ॥ देवर्षय ऊचुः । सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवंद्यम् । अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुंडं भजामः ॥ २ ॥ अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् । जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुंडं भजामः ॥ ३ ॥ अनंतस्वरूपं सदानंदकंदं प्रकाशस्वरूपं सदा सर्वगं तम् । अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुंडं भजामः ॥४॥ धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् । अहंकारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुंडं भजामः ॥ ५ ॥ रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेंद्रप्रकाशम् । दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुंडं भजामः॥६॥ उपस्थत्वगुक्तीक्षणस्थप्रकाशं करांघ्रिस्वरूपं कृतघ्राणजिह्वम् । गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुंडं भजामः ॥७॥ रजोरूपसृष्टिप्रकाशे विधिं तं सदा पालने केशवं सत्त्वसंस्थम् । तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुंडं भजामः ॥ ८ ॥ दिशाधीशरूपं सदाशास्त्रस्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् । अनंतोडुरूपं तदाकारहीनं नमामः सदा वक्रतुंडं भजामः ॥ ९॥ महत्तत्त्वरूपं प्रधानस्वरूपमहंकारवारं त्रयीबोधकारम् । अनाद्यंतमायं तदाधारपुच्छं नमामः सदा वक्रतुंडं भजामः ॥ १० ॥ सदा कर्मधारं फलैः स्वर्गदं तमकर्मप्रकाशेन मुक्तिप्रदं तम् । विकर्मादिना यातनाधारभूतं नमामः सदा वक्रतुंडं भजामः ॥ ११ ॥ अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् । नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुंडं भजामः ॥ १२ ॥ लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् । प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुंडं भजामः ॥ १३ ॥ खगेशस्वरूपं वृषादिप्रसंस्थं मृगेंद्रादिबोधं मृगेंद्रस्वरूपम् । धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुंडं भजामः ॥ १४ ॥ सुवर्णादिधातुस्थसद्रंगसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् । जले जंतुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुंडं भजामः ॥ १५॥ सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः । सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुंडं भजामः ॥ १६ ॥ वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् । चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुंडं भजामः ॥ १७ ॥ गणेशं गणेशादिवंद्यं सुरैशं परं सर्वपूज्यं सुबोधादिगम्यम् । महावाक्यवेदांतवेद्यं परेशं नमामः सदा वक्रतुंडं भजामः॥ १८ ॥ अनंतावतारैः सदा पालयंतं स्वधर्मादिसंस्थं जनं कारयंतम् । सुरैर्दैत्यपैर्वन्द्यमेकं