मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 87, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ३८ पान ८७ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 च निराकारं मायारूपधरं प्रभुम् । नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४० ॥ जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् । ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१ ॥ सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च । सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२ ॥ अनंतलीलया युक्तं लीलाहीनं नमामि तम् । अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदि स्थितम् ॥ ४३ ॥ वेदांतवेद्यं सज्ज्योतिर्ज्योतिषामपि भासकम् । नमामि सच्चिदानंददेहरूपं गजाननम् ॥ ४४ ॥ योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् । भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५ ॥ सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् । नमामि वक्रतुंडाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६ ॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । सर्वाकारनिराकारहीनोऽयं वक्रतुंडकः ॥ ४७ ॥ शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल । प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८ ॥ एवं स्तुत्वा वक्रतुंडं पादयोर्निपपात ह । पुनः पुनः प्रणम्याऽसौ बद्धांजलिपुटः स्थितः ॥ ४९ ॥ स दृष्ट्वा तादृशं दैत्यं भक्तियुक्तं गजाननः । जगाद तं महाभागं भक्तेशॊ भावतोषितः ॥ ५० ॥ वक्रतुंड उवाच । मत्सर त्वद्विनाशाय कुपितोऽहं न संशयः । शरणागतनाशं च नेच्छामि वृणु वाञ्छितम् ॥ ५१ ॥ इदं त्वया कृतं स्तोत्रं मत्प्रीतिवर्धनं महत् । महैश्वर्यायुरारोग्यदायकं धनधान्यदम् ॥ ५२ ॥ पुत्रपौत्रकलत्रादिनानासंपत्करं परम् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ ५३ ॥ मुद्गल उवाच । वक्रतुंडवचः श्रुत्वा मत्सरो भक्तिसंयुतः । जगाद वचनं तत्र वक्रतुंडं कृतांजलिः ॥ ५४ ॥ मत्सर उवाच । प्रसन्नो यदि सर्वेश मह्यं देयो वरो यदि । सुदृढां च तदा भक्तिं त्वदीयां देहि विघ्नप ॥ ५५ ॥ अन्यं त्वं मे वरं देहि त्वद्भक्तास्ते च मे प्रियाः । स्थानं देहि तथा वृत्तिं योगक्षेमकरीं प्रभो ॥ ५६ ॥ मत्सरस्य वचः श्रुत्वा वक्रतुंडस्तमब्रवीत् । अचला पदि मे भक्तिरद्य ते संभविष्यति ॥ ५७ ॥ स्वस्वधर्मरतान् जंतूंस्तान रक्षस्व च मत्सर । मदीयान् प्रवरान् भक्तांस्तान पालय च यत्नतः ॥ ५८ ॥ मदीयमूर्तिपूजा च यत्रादौ स्मरणं भवेत् । सर्वारंभेषु तत्र त्वं मा विघ्नं कुरु दैत्यप ॥ ५९ ॥ अन्यत्र सर्वभावेषु कर्मज्ञानादिकर्तृषु । आसुरेणैव वर्तस्व फलं ग्राह्यं त्वयाऽसुर ॥ ६० ॥ तेषां हृदि समाविश्य कुरु राज्यं महामते । मद्भक्त्या- दिषु भावेषु दासत्वत्वं सदा भव ॥ ६१ ॥ एवमुक्तो महादैत्यस्तथेति तमुवाच ह । प्रणिपत्य गणेशानं हर्षयुक्तेन चेतसा ॥ ६२ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते वक्रतुंडविजयो नामाष्टत्रिंशोऽध्यायः ॥