भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 86, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 86

खं. १ अ. ३८ पान ८६ महावीरं भावं दृष्ट्वा हृदि स्थितम् ॥ १४ ॥ वक्रतुंड उवाच । शृणु मत्सर यत्पृष्टं त्वया बुद्धिविशारद । तत्सर्वं कथयिष्यामि संशयच्छेदनाय ते ॥ १५ ॥ अखिलं ब्रह्मरूपेण मया सृष्टं चराचरम् । लीलार्थं बंधहीनेन स्वस्वधर्मयुतं परम् ॥ १६ ॥ पुरुषप्रकृतिभ्यां तत् पाल्यते ह्रियते मया । तयोर्हृदि स्थितेनैव चिंतामणिस्वरूपिणा ॥ १७॥ सर्वेषां चित्तवृत्तेश्च चालकोऽहं न संशयः । मदाज्ञावशगं सर्वं वर्तते दैत्यपुंगव ॥ १८ ॥ यदा स्वधर्ममत्यंतं त्यक्त्वा देवगणेश्वराः । दैत्यानां निधनार्थं च यतंते मूलनाशकाः ॥ १९ ॥ तदा दैत्यहृदिस्थोऽहं तपसि प्रेरकोऽस्म्यतः । दैत्याः कुर्वंति च तपो देवानां प्रजिघांसया ॥ २० ॥ तपसा वरलाभेन देवान् घ्नंति महाबलाः । ततस्ते सततं देवाः सत्ताहीना भवंति वै ॥ २१ ॥ ततोऽहं देवसंघानां विपरीतो न संशयः । भवामि चासुराणां वै सिद्धिदाता महासुर ॥ २२ ॥ यदि दैत्या महादुष्टास्त्यक्त्वा घ्नंति स्वधर्मकम् । देवान् मूलविहीनांश्च कर्तुमिच्छंति दानव ॥ २३ ॥ तदाऽहं देवरूपेण तेषां हृदि समास्थितः । छिद्रं प्रकाशयाम्यदौ हनने दैत्य- रक्षसाम् ॥ २४ ॥ ततस्तेनैव देवेंद्रो मार्गेण सुरविद्विषः । घ्नंति मत्सर ते सर्वं कथितं मे चरित्रकम् ॥ २५ ॥ यदि स्वहृदये देवा निश्चयं कुर्वते परम् । दैत्यानां तपसां विघ्नं कर्तव्यमिति सांप्रतम् ॥ २६ ॥ तदाऽहं वरदाता च भवाम्यसुरनायक । दैत्येभ्यो नात्र संदेहो देवगर्वप्रहारकः ॥ २७ ॥ यदि दैत्या महाभागा देवैर्जाता दुरासदाः । तदाऽहं दैत्यनाशाय भवामि तनुधारकः ॥ २८ ॥ यदा दैत्याश्च देवाश्च स्वस्वधर्मपरायणाः । तदाऽहं ब्रह्मभावेन स्थितस्तेषां हृदि ह्यहो ॥ २९ ॥ त्वया प्रपीडिता देवास्त्यक्त्वा धर्मं स्वभावजम् । अतस्त्वां हंतुमायातो दैत्यराज महामते ॥ ३० ॥ इत्युक्त्वा निजरूपं तद्दर्शयामास विघ्नपः । बिंदुमात्रे ब्रह्मणि स्वे संस्थितं सुंदरं मुने ॥ ३१ ॥ वक्रतुंडप्रसादेन तस्य दर्शनजेन च । फलेन दैत्यराजोऽपि दिव्यं चक्षुरवाप्तवान् ॥ ३२ ॥ तेनैव चक्षुषा तेन दैत्येन परमाद्भुतम् । दृष्टं रूपं गणेशस्य ब्रह्माकारं प्रजापते ॥ ३३ ॥ न न्यूनं नाधिकं तन्न न समं चात्मना न च । चतुष्पादमयं ब्रह्म पादहीनं स्वभावतः ॥ ३४ ॥ न देहो न च देह्यत्र सगुणो निर्गुणो न च । न मायामायिको भाति वक्रतुंडो गजाननः ॥ ३५ ॥ देहं सगुणरूपं च निर्गुणं मस्तकं मुने । गजवक्रमयं तेन दृष्टं भिन्नं प्रभावतः ॥ ३६ ॥ तयोर्योगकरः साक्षाद् वक्रतुंडः प्रतापवान् । संयुक्तोऽवयवाद्यैश्च ज्ञातो दैत्याधिपेन सः ॥ ३७ ॥ ततस्तं प्रणमामाथ भक्तियुक्तेन चेतसा । तुष्टाव परया भक्त्या बद्धांजलिपुटोऽसुरः ॥ ३८ ॥ मत्सरासुर उवाच । नमामि वक्रतुंडं च चतुष्पादं चतुःपरम् । चतुर्देहविहीनं च बिंदुमात्रे व्यवस्थितम् ॥ ३९ ॥ साकारं