मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 83, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण (Transcription) प्रस्तुत है:
खं. १ अ. ३७ पान ८३ यमसन्निभौ । आगतौ च शिरश्छेदं दैत्ययोश्चक्रतुः क्षणात् ॥ ५१ ॥ मत्सरस्य सुतौ वीक्ष्य मृतौ सर्वे भयातुराः । मत्सरं शरणं जग्मुरुचुर्वृत्तांतमंजसा ॥ ५२ ॥ दैत्या ऊचुः । शृणु दैत्येश वृत्तांतं रणभूमिसमुद्भवम् । महाभयंकरं घोरं कथितुं शक्यते न च ॥ ५३ ॥ प्रह्लादप्रमुखाः सर्वे घातिता रणमूर्धनि । मृततुल्या मृता वा किमस्माभिर्ज्ञायते न च ॥ ५४ ॥ तव पुत्रौ महावीर्यौ मृतौ संग्राममंडले । कृत्वा युद्धं महाघोरं परशुभ्यां महामते ॥ ५५ ॥ अकस्माद्वक्रतुंडस्य गणौ द्वौ समुपस्थितौ । ताभ्यां चैव हतौ वीरौ स्वल्पकालेन दैत्यप ॥ ५६ ॥ वक्रतुंडसमश्चैव न भूतो न भविष्यति । इति स्वांते च संज्ञाय देवं तं शरणं व्रज ॥ ५७ ॥ नोचेद्दैत्यगणाः सर्वे नाशं यास्यंति निश्चितम् । मा गर्वं कुरु दैत्येश दैत्यान् रक्ष महामते ॥ ५८ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते सुंदरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः । मुद्गल उवाच । दैत्यानां वचनं श्रुत्वा स दैत्यो मत्सरासुरः । मूर्च्छितः सहसा भूमौ पपात भयविह्वलः ॥ १ ॥ अनिश्वासन् दैत्यपस्तु तैराशु विधृतो नृपः । सावधानं प्रचक्रुस्तं प्रयत्नः परमैस्ततः ॥ २ ॥ द्विमुहूर्तेन संबुद्धो मत्सरः प्रललाप ह । किं जातं भावि वा किं वा दैवेन विफलं कृतम् ॥ ३ ॥ तपसा त्वमरत्वं च पृथिवीराज्यमंजसा । मया प्राप्तं स्वसामर्थ्यादतुलं तद् वृथा कृतम् ॥ ४ ॥ अहो हि बलवद् दैवं प्रयत्नो निष्फलो मतः । अचिंत्या मेऽभयप्राप्तिः पश्चात् सूर्योदयो यथा ॥ ५ ॥ मृता दैत्या असंख्याश्च मदर्थं नात्र संशयः । मृतौ पुत्रौ महाकालौ कालस्य कथमद्य तौ ॥ ६ ॥ अधुना शोकसंतप्तो मरिष्यामि न संशयः । मृतौ पुत्रौ महाकालौ किं कार्यं जीवितेन मे ॥ ७ ॥ ब्रह्मांडाधिपतेः पुत्रौ कथं तौ निधनं गतौ । कथं मिथ्या हि जातं मे वरदानं महत्तरम् ॥ ८ ॥ अहो पुत्रौ महावीर्यौ कथं मरणमापतुः । याभ्यां स्वभुज- वीर्येण जिता विष्णुमुखाः सुराः ॥ ९ ॥ अहो पुत्रौ च मां त्यक्त्वा घोरे दुःखार्णवे परे । क्व गतौ वदतं वाक्यमभूतं निष्ठुरौ कथम् ॥ १० ॥ सखींश्च पितरं वृद्धं त्यक्त्वा मां सुंदरप्रिय । विषयप्रिय मद्दालौ कथं मृत्युमुपस्थितौ ॥ ११ ॥ इति नानाविधं शौकं चक्रे दैत्येंद्रपालकः । तं ते सभ्यवराः सर्वे सांत्वयामासुरादरात् ॥ १२ ॥ वृद्धा ऊचुः । न रोदनं प्रकर्तव्यं त्वया दैत्येंद्रनायक । रणे मृतौ महावीर्यौ कीर्तिं कृत्वा महत्तराम ॥ १३ ॥ देहस्य मरणं नित्यं जन्म चैव तथा प्रभो । किं चित्रं