भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 82, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 82

खं. १ अ. ३६ पान ८२

श्रमहीनाः क्षतादिभ्यो हीना जाताः प्रभावतः । तेजसा द्विगुणाश्चैव हृष्टपुष्टा यथा मुने ॥ २६ ॥ एतस्मिन्नंतरे तत्र कविना जीवितास्तथा । दैत्याः समुत्थिताः सर्वे नीरुजश्च महाबलाः ॥ २७ ॥ प्रह्लादप्रमुखा वीराश्चक्रुर्नादं समंततः । ब्रह्मांडमखिलं तेन सनादमभवत् परम् ॥ २८ ॥ ततो देवगणाः सर्वे शंखनादं प्रचक्रिरे । तेन दैत्यगणा भीता बधिरा इव ते स्थिताः ॥ २९ ॥ शंखानां चैव भेरीणां दुंदुभीनां स्वरैः परैः । वीराणां क्ष्वेडितेनैव हेषितैर्बृंहितस्वनैः ॥ ३० ॥ रथनेमिस्वनैः सर्वं व्याप्तमासीन्नभो मुने । परस्परं संपदं च वीक्ष्य वीक्ष्य च विस्मिताः ॥ ३१ ॥ एतस्मिन्नेव काले ते प्रमोदाद्या गणा ययुः । कुपिताः शस्त्रसंवृष्टिं चक्रिरे दैत्यमोहिनीम् ॥ ३२ ॥ तेषां शस्त्राणि सर्वाणि ह्यमोघानि महामुने । चिच्छिदुर्दैत्यराजानां मस्तकानि भुजादिकान् ॥ ३३ ॥ ब्रह्मप्रियो महाबाहुः शुक्रं धृत्वा प्रपश्यताम् । असुराणां गतो दूरं गुहायां चाक्षिपन् मुनिम् ॥ ३४ ॥ गतं शुक्रं तदा दृष्ट्वा दैत्याः सर्वे भयातुराः । हाहाकारं प्रचक्रुस्ते किं भविष्यति विह्वलाः ॥ ३५ ॥ रक्षिता गुरुरत्युग्रः पश्यतां नो महासुराः । नीतश्च मरणं तस्माच्छ्रेष्ठं किं न मृता वयम् ॥ ३६ ॥ अधुना क्व गमिष्यामस्तस्माद्युद्ध्यमहे वयम् । मरिष्यामोऽथ वा मोचयिष्यामस्तं स्वतेजसा ॥ ३७ ॥ परस्परं चेति दैत्या उक्त्वा मरणनिश्चयाः । उदायुधाश्च सर्वे ते युयुधुर्देवसैनिकैः ॥ ३८ ॥ व्यंगा देवाः कृतास्तैस्ते पतिता रणमूर्धनि । हाहाकारश्च सर्वत्र देवसैन्ये प्रवर्तितः ॥ ३९ ॥ ततो ब्रह्मप्रियाद्या ये कुपिताः शस्त्रधारिणः । परशुप्रमुखैः शस्त्रैस्त्रिशूलांकुशपाशकैः ॥ ४० ॥ शस्त्रैर्दैत्यान्निजघ्नुस्तान् कालरुद्रा इव प्रजाः । तैरस्त्रैर्दैत्यसेनायाः कदनं कृतमंजसा ॥ ४१ ॥ बहवश्च मृता दैत्या मूर्च्छिताश्चापरेऽवनौ । पेतुस्ते सर्वशो वीरा प्रह्लादप्रमुखा मुने ॥ ४२ ॥ ततो दैत्यकुमारौ तावागतौ रणमूर्धनि । ऊचतुस्तान् गणांस्तत्र प्रमोदाद्यान् महा- सुरौ ॥ ४३ ॥ दैत्यपुत्रावूचतुः । प्रमोदामोदकाद्याश्च भवद्भिर्बलमंजसा । हतं सर्वं च दैत्यानां दैत्यश्रेष्ठाः प्रमूर्च्छिताः ॥ ४४ ॥ अधुना मरणं प्राप्तं समीपे वः प्रदृश्यताम् । शस्त्रैस्तीक्ष्णैर्हनिष्यावो वक्रतुंडयुतान् खलान् ॥ ४५ ॥ एवमुक्त्वा स्वबाणांस्तौ ववर्षतुरथासुरौ । ततस्तयोर्बलं वीक्ष्य द्वौ वीरौ समुपस्थितौ ॥ ४६ ॥ सर्वगः सर्वविच्चैव सबलौ धृतकार्मुकौ । बाणवृष्टिं तु संवार्य बाणांश्चिक्षिपतुः परान् ॥ ४७ ॥ अमोघाः सर्वबाणास्ते जग्मुःकालयमोपमाः । दैत्यान् सर्वान् प्रचक्रुस्ते छिन्न- भिन्नात्मकान् मुने ॥ ४८ ॥ मृता मुमूर्षवः केचित्पतिता धरणीतले । अकस्माद्रक्तसंभूता नदी तत्र प्रवर्तिता ॥ ४९ ॥ तयोर्बलं निरीक्ष्यैव कंपितौ दैत्यपुंगवौ । अग्न्यस्त्रं धनुषि श्रेष्ठं दधतुः क्रोधसंयुतौ ॥ ५० ॥ यावन् मुमुचतुस्तावत् परशु-