भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. १ अ. २६ पान ६० भालानि लसत्कुंभधराणि च । घंटासांद्रनिनादैश्च नादितानि त्वितस्ततः ॥२६॥ महावीराश्रितान्येव कुंतलाद्यस्त्रकैस्तथा । पूर्णानि चंचलाश्चैव पर्वता इव शोभिताः ॥२७॥ गिरीणां चैव दंताग्रैर्भेदकानि प्रजापते । शुंडाभिर्वृक्षजालानां छेदकानि महांति च ॥२८॥ मदेनासिक्रभालानि भ्रमरैर्गुजितानि च । रणे शत्रुसहस्राणां नाशकाराणि सर्वशः ॥२९॥ निःसृतानि पुरेभ्यश्च सेनाशोभाकराणि च । दैत्यैः सुदारुणैस्तानि स्वाश्रितानि समंततः ॥३०॥ ततोऽश्वानां महासेना निःसृता बलवत्तराः । चंचला वायुवेगाश्च तत्राऽश्वाः पूर्णभूषिताः ॥३१॥ चामरैर्वीजिताश्चैव मनोवेगा महाबलाः । उड्डीयोड्डीय धावंत आकाशे वायवो यथा ॥३२॥ खुराघातैर्विस्फुलिंगान् प्रस्रवंत इतस्ततः । नानाशास्त्रधरास्तत्र दैत्या रेजुर्यथा घनाः ॥३३॥ कालस्य भयदाः सर्वे नानायुद्धविशारदाः । अपाराश्च समारूढा दारुणाः पापनिश्चयाः ॥३४॥ तत्र केचिन्महादैत्याः खरारोहा विनिःसृताः । अजयानाधिरूढाश्च गोवाहनविराजिताः ॥३५॥ महिषारूढकाश्चान्ये व्याघ्रारूढा महाबलाः । सिंहशार्दूलवाहाश्च खगवाहास्तथापरे ॥३६॥ इत्यादिरूपेषु वाहनेषु विराजिताः । निःसृता असुराः सर्वे यममत्तुमि- वोद्यताः ॥३७॥ ततो रथसमारूढा रथिनो निःसृताः प्रभो । अपाराश्च महाक्रोधारुणनेत्रा भयंकराः ॥३८॥ रथाश्चालंकृतास्तत्र मणिमुक्तादिभिः परैः । नानाशस्त्रास्त्रभारैश्च पूरिता मेघघोषिणः ॥३९॥ ध्वजैरलंकृताः पूर्णा अश्वैर्जवनशालिभिः । संयुताश्चतुरैः सूतैर्महावीरैः समाश्रिताः ॥४०॥ रथाः खरयुताः केचिद् वृकैर्वै वाहिताः परे । सिंहैर्गोभिर्गजैर्ऋक्षैर्नानापशु- भिराबभुः ॥४१॥ तत्र वज्रसमांगैश्च खरैः शतमितैर्युतम् । अलंकृतं रथं दैत्यो मत्सरः स समारुहत् ॥४२॥ तस्याऽग्रे तत्सुतौ शूरावश्वारूढौ प्रजग्मतुः । विरोचनादयो दैत्याः समंताज्जग्मुराजिषु ॥४३॥ पृथिव्यां तस्य सैन्यं तत् समुद्र इव संबभौ । महारथमहावीरयुद्धभूषणभूषितम् ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरसेनावर्णनं नाम पंचविंशोऽध्यायः ॥ ॥ श्रीगणशाय नमः ॥ मुद्गल उवाच । ततो दक्ष महत्सैन्यं पृथिवीजयनोद्यतम् । हनने क्षत्रियाणां तत्प्रवृत्तं कालचक्रवत् ॥१॥ विरोचनादयो दैत्याः स्थिता यत्र यमोपमाः । युद्धं तैः सह कुर्वाणः कः स्थास्यति पुमान् भुवि ॥२॥ दैत्याः पादप्रहारेण

खं. १ अ. २६ पान ६१ चूर्णयंतोऽद्रिसंचयान् । शेषमस्तकमानम्य भारेणैव प्रचक्रिरे ॥३॥ तान् मेघसदृशान् दृष्ट्वा पर्वताकारसंस्थितान् । अभवन् यमरूपान् ते क्षत्रिया गतजीविनः ॥४॥ केचित्पलायितास्तत्र केचिच्च शरणं ययुः । महावीरास्तु ते युद्धं कृत्वा स्वर्गं ययुर्मृताः ॥५॥ ये मृतास्तत्सुतास्तैस्तु स्थापिताः करदायिनः । शरणागतराजानः स्थापिताः स्वपदे तथा ॥६॥ यच्च राजविहीनं तु दैत्यास्तत्राधिपाः कृताः । राजानः सर्वविषये बभूवुर्भोगसंयुताः ॥७॥ देशे देशे तथा दैत्याः क्षत्रियाणां च सन्निधौ । स्थापिता भावबोधार्थमेवं सर्वत्र कारितम् ॥८॥ सद्वीपां वसुधां सर्वां जित्वा दैत्यो ननंद ह । मत्सरोऽतिवशां पृथिवीं तत्र दृष्ट्वा प्रजापते ॥९॥ पातालमगमद्दैत्यो दैत्यवृंदसमन्वितः । मत्सरो नागसर्पाणां जयार्थं बलवांस्ततः ॥१०॥ नागोद्या- नानि गत्वा ते बभंजुर्दितिनंदनाः । तान् दृष्ट्वा नागराजा वै युद्धार्थं समुपाययुः ॥११॥ वासुकिस्तक्षकश्चैव कंबलाश्वतरौ तथा । इत्याद्या बहवो नागा नागराजाः समाययुः ॥१२॥ सन्नद्धाः क्रोधयुक्तास्ते महाभोगा महाबलाः । रथादिषु समारूढा नानावाहनगा बभुः ॥१३॥ शस्त्रास्त्रनिचयैर्बाणैर्दैत्यान् जघ्नुर्महाबलान् । दैत्यास्तान् शस्त्रसंघातैः पातयामासुरोजसा॥१४॥ नागैर्महाबलैस्तत्र निहता दैत्यसंचयाः । भग्नदर्पाः पलायंत दशदिक्षु सुविह्वलाः ॥१५॥ दैत्यानां कदनं दृष्ट्वा विरोचन- मुखाऽऽययुः । असुराः क्रोधसंयुक्ता नागांश्चामर्दयंस्तु ते ॥१६॥ शस्त्रास्त्रैर्विविधैर्दैत्या मारयामासुरोजसा । केषांचिन् मस्तका भग्नाः पादहस्तोदरं तथा ॥१७॥ शोणितानां महानद्यः प्रास्रवन् वै दिशो दश । भग्नदर्पा भयान्नागाः पलायनमकुर्वत ॥१८॥ केचित्तान् शरणं जग्मुर्दैत्यान् परमदारुणान् । हाहाकाररवैर्युक्ता नागास्त्राससमन्विताः ॥१९॥ दैत्यानां पौरुषं दृष्ट्वा वासुकि- प्रमुखाऽऽययुः । क्रोधेन परितप्तांस्तान् वारयामासुरोजसा ॥२०॥ तक्षकादिमहानागा विषं क्षुब्धाश्च तत्त्यजुः । विवरं तद्विषैः सर्वं व्याप्तं तत्र प्रजापते ॥२१॥ महाविषभवा ज्वाला ददाहासुरपुंगवान् । मृता दैत्या अनेके च गरलेन प्रपीडिताः ॥२२॥ न स्थातुं शक्यते तत्र दैत्यैः संग्राममंडले । शस्त्राणि तेषां सर्वाणि दग्धानि च तदा किल ॥२३॥ गजाश्वरथपादातं मृतं दग्धं च सर्वशः । मूर्च्छिताः पतिता भूमौ विरोचनमुखास्ततः ॥२४॥ नागा मोदं प्रचक्रुस्ते नादयंतो दिशो दश । हर्षेण महता युक्ता नृत्यंति स्म स्थिताः परे ॥२५॥ एतस्मिन्नंतरे तत्र प्रतापी च विरोचनः । उत्थितः समरश्लाघी गतपीडो महाबलः ॥२६॥ शुक्रेण तत्र दैतेया विद्यया निर्विषाः कृताः । उत्थिताः सर्वतः सर्वे अंधकप्रमुखा बभुः ॥२७॥ असुराः क्रोधसंयुक्ता गरुडास्त्रं च तत्त्यजुः । तस्मात्तु गरुडा जाता नागान् सर्वानभूंजत ॥२८॥ तत्र वासुकिना तेन विषज्वाला प्रवर्तिता ।

खं. १ अ. २७ पान ६२ गरुडाश्च तया दग्धा गरुडास्त्रं तथाऽभवत् ॥२९॥ एतत् दृष्ट्वा महाश्चर्यं वासुकेः पौरुषं महत् । विरोचनादयः सर्वे गरुडा माययाऽभवन् ॥३०॥ तैः सर्वैर्भक्षितं सैन्यं नागानां तद्दिशो दश । पलायंत भयोद्विग्ना महानागाश्च भीरवः ॥३१॥ सर्पराट् तक्षकाद्या ये गरुडैः पीडिता भृशम् । मूर्च्छिताश्च मृतप्राया जाता युद्धे च दारुणे ॥३२॥ शेषेण सर्ववृत्तांतो ज्ञातो ज्ञातिभयंकरः । आययौ सामभावेन शरणं दैत्यसन्निधौ ॥३३॥ किमर्थं क्रोधसंयुक्ता दैत्या ब्रूत महाबलाः । भ्रातरस्त्व- सुरा यूयं मदीया नात्र संशयः ॥३४॥ किमर्थं युद्धमारब्धं वक्तव्यं दितिनंदनाः । पातालवासिनः सर्वे भवंतो वयमेव च ॥३५॥ मुद्गल उवाच । शेषस्य वचनं श्रुत्वा प्रतापी च विरोचनः । उवाच तं वचो रम्यं तेजायुक्तं स्वभावतः ॥३६॥ विरोचन उवाच । शेष शेष महाभाग मान्योऽसि च महामते । स्नेहेन वदसि प्राज्ञ सत्यं शृणु च मद्वचः ॥३७॥ अस्माकं मत्सरो राजा ब्रह्मांडं वशमात्मनः । इच्छत्याशासनं तस्य ग्राह्यं युष्माभिराहतैः ॥३८॥ नोचेन्नागासुराणां च विनाशः प्रभ- विष्यति । त्वं श्रेष्ठः सर्वभावेन सर्वेषां हितमाचर ॥३९॥ विरोचनवचः श्रुत्वा शेषः सर्वार्थकोविदः । प्रहसंस्तमुवाचेदं सामयुक्तं महामतिः ॥४०॥ यदिच्छति महाभागो मत्सरस्तत् करोम्यहम् । इत्युक्त्वा दातुमुद्युक्तः करभारं च वार्षिकम् ॥४१॥ नानारत्नानि दत्त्वा वै साम चक्रेऽसुरैः सह । नागान् वासुकिमुख्यान् स गृहीत्वा स्वस्थलं ययौ ॥४२॥ असुरा हर्षिताः सर्वे जितनागा महाबलाः । पातालजयिनो भूत्वा वरुणं जेतुमाययुः ॥४३॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते पातालविजयो नाम षड्विंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । असुरा जयशोभाढ्या वरुणालयमागताः । दूतं संप्रेषयामासुर्वरुणस्य सभां प्रति ॥१॥ वरुणस्य सभां गत्वा दूतो वचनमब्रवीत् । शृणु तोयेंद्र वाक्यं मे प्रेषितो मत्सरेण यत् ॥२॥ मम वै वशगो भूत्वा तिष्ठ स्थाने महाबल । नोचेत्संग्रामभूमौ त्वां वधिष्यामि सुरांस्तथा ॥३॥ दूतस्य वचनं श्रुत्वा वरुणः क्रोधमूर्च्छितः । संग्राम्याय च सन्नद्धो बभूवातिभयानकः ॥४॥ मकरारूढ एवाऽसौ पाशायस्त्रप्रधारकः । यादांसि देवरूपाणि गृहीत्वा बहिराययौ ॥५॥ दूतेन कथितः सर्वो वृत्तान्तो वरुणस्य तम् । श्रुत्वा मत्सरदैतेयो दैत्यैर्युद्धोद्यतोऽभवत् ॥६॥ देवानांमसुराणां च सैन्ये

खं. १ अ. २७ पान ६३

परमदारुणे । परस्परं सुसन्नद्धे रणभूमौ प्रजग्मतुः ॥७॥ देवानां सैन्यमत्युग्रं दृष्ट्वा खलु विरोचनः । महिषासुरनामा च शुंभश्चैवांधकासुरः ॥८॥ अन्ये ते बहवस्तत्र धावंतो रणमूर्धनि । नादयंतो दिशः सर्वे जघ्नुर्देवांश्च साहसात् ॥९॥ मिलिता देवदैत्यास्ते परस्परजयेप्सवः । शस्त्रास्त्रैर्वृक्षपाषाणैर्जघ्नुर्वीराननेकंशः ॥१०॥ अभवत्तुमुलं युद्धं दैत्यदेवविनाशनम् । दिनत्रयं महाघोरं दैत्या भग्नास्ततोऽभवन् ॥११॥ जलशायिन एवं स्म देवा गर्जति भैरवम् । मूर्च्छिता दैत्यभूपाश्च विरो- चनमुखास्तथा ॥१२॥ तान् काव्यः सावधानांश्च चकार स्वेन तेजसा । उत्थिताः सर्ववीरास्ते युयुधुस्तवसुराः पुनः ॥१३॥ क्रोधेन महता युक्ता जघ्नुर्देवान् महाबलान् । पुनश्च तुमुलं युद्धं बभूवातिभयानकम् ॥१४॥ युद्धं चक्रुरहोरात्रं सुराः सर्वे जलौकसः । यादसां च गणाः सर्वे मृता भग्नाः प्रचूर्णिताः ॥१५॥ सर्वे देवगणास्तत्र वव्रजुः सर्वतोदिशम् । वरुणं च दधाराऽपि बलवान् स विरोचनः ॥१६॥ धृतं वरुणमाश्रुत्य दुद्रुवुश्च जलौकसः । मृताः केचित् क्षताः केचिच्छरणं के च तान् ययुः ॥१७॥ हर्षिता नादसंयुक्ता दैतेया जग्मुराहताः । उत्तरे धननाथं ते जलमार्गत एव च ॥१८॥ कुबेरेण स वृत्तांतः श्रुतो वरुणलोकतः । पलायनं समालंब्य कैलासे शंकरं ययौ ॥१९॥ तं तथागतमाश्रुत्य दैत्या परमदारुणाः । अलकायां प्रवेशं ते चक्रुश्च जयशालिनः ॥२०॥ एवं जित्वा कुबेरं तं वरुणेन समन्विताः । धर्मराजं ययुः सर्वे दैतेया मृत्युरूपकम् ॥२१॥ यमराजस्तु संनद्धः श्रुत्वा दूतमुखात् कथाम् । यमो रागैश्च रक्षोभिर्विविधैः परिवारितः ॥२२॥ महिषारूढ एवाऽसौ दंडहस्तो महाबलः । आययौ रणभूमिं च महामृत्युसमन्वितः ॥२३॥ यमं समागतं दृष्ट्वा मृत्युरोगादिभिर्युतम् । दैतेयाः क्रोधसंयुक्ता युयुधुः सहसा बलात् ॥२४॥ देवानां चैव दैत्यानां वीराश्च युयुधुर्भृशम् । परस्परं बोधयंतो जघ्नुर्नानाप्रहारतः ॥२५॥ महाद्भुतं पंचदिनं युद्धं दारुणरूपकम् । नाशकं देवदैत्यानां बभूवैवं प्रजापते ॥२६॥ याम्यैश्च मर्दिता दैत्या मृताः केचित् क्षताः परे । वव्रजुः सर्वशस्तत्र मृत्युसंत्रासतापिताः ॥२७॥ एतस्मिन्नंतरे तत्र विषयप्रिय आगतः । मत्सरासुरपुत्रस्तु युयुधे मृत्युना सह ॥२८॥ मत्सरप्रेरणात् शीघ्रं नराणां हृद्यताडयत् । तेनास्त्रेण च शस्त्रेण रोगाः परमपीडिताः ॥२९॥ याम्यास्ते मृत्युरूपा वै पलायनमकुर्वत । यमेन बहुधा शस्त्रैर्योधयामास दारुणम् ॥ महिषं मूर्च्छितं कृत्वा पातयामास वै यमम् ॥३०॥ उत्थितो धर्मराजश्च कालदंडेन वेगतः । अताडयद्दैत्यपुत्रं तं गर्जन्विषयप्रियम् ॥३१॥ कालदंडस्तु तं दृष्ट्वा पतितो धरणीतले । आगत्य सहसा तेन प्रतापेन धृतो यमः ॥३२॥ तस्यैतच्च महत्कर्म दैत्यपुत्रस्य दैत्यपाः । तुष्टुवुः

परमप्रीता धन्यं धन्यं तमब्रुवन् ॥३३॥ यमं धृत्वा च दैतेया आययुश्चामरावतीम् । इंद्रोऽपि देवसंघैश्च सन्नद्धो वैरभावतः ॥३४॥ अग्निवायुः प्रसन्नद्वावागतौ बलसंयुतौ । देवाः सर्वे महाभागाः स्वस्वलोकात् समाययुः ॥३५॥ विश्वेदेवाश्च साध्याश्च रुद्रा वसव एव च । गंधर्वाश्चैव यक्षाश्च विद्याधरसमायुताः ॥३६॥ ग्रहाश्चंद्रश्च सूर्यश्च आदित्या बलवत्तराः । सन्नद्धाः सर्वदेवास्ते वज्रिणं जग्मुराहताः ॥३७॥ सर्वदेवगणैरिंद्रो रणभूमिं समाययौ । ऐरावतसमारूढो वज्रपाणिर्महाबलः ॥३८॥ देवसैन्यं सुसन्नद्धमागतं स्वबलान्वितम् । दृष्ट्वा दैत्यगणाः सर्वे जघ्नुः शस्त्रप्रहारतः ॥३९॥ देवा जघ्नुश्च तान् शस्त्रैर्महाक्रोधसमन्विताः । एवं परस्परं तत्र तुमुलं युद्धमप्यऽभूत् ॥४०॥ मृता दैत्यास्तथा देवैस्ताडिताः शस्त्रघाततः । दैत्यैर्हताश्च देवास्ते छिन्ना भिन्नाः सुमूर्च्छिताः ॥४१॥ एवं परस्परं युद्धं देवदैत्यविनाशनम् । सप्तरात्रमभूत्तीव्रं ततो दैत्याः पलायिताः ॥४२॥ विरोचनादयः सर्वे मूर्च्छिता धरणीतले । जयवंतः सुरेंद्रास्ते वदंतः स्म प्रहर्षिताः ॥४३॥ एतद् दृष्ट्वा महाश्चर्यं सुंदरप्रिय आगतः । ज्येष्ठपुत्रो मत्सरस्य युयुधे सर्वदैवतैः ॥४४॥ शस्त्रास्त्रैर्मल्लयुद्धैस्तन् मर्दितं तेन सर्वशः । देवसैन्यं दिक्षु तत्र पलायत भयातुरम् ॥४५॥ शोणितप्रस्रवास्तत्र नद्यो जाताः प्रजापते । इंद्रोऽपि युयुधे तेन दैत्यपुत्रेण धीमता ॥४६॥ वज्रेण निहतस्तत्रेंद्रेण दैत्यो महाबलः । न चचाल तदाश्चार्यमिंद्रचेतसि संगतम् ॥४७॥ दैत्यपुत्रः समागत्य खड्गेनैरावतं गजम् । मूर्छितं कारयामास वज्रिणं च पदाग्रहीत् ॥४८॥ मर्दयित्वा सुरेशानं स्ववशं च चकार ह । धृत्वा पुरंदरं सोऽपि स्वस्थानमगमन्मुदा ॥४९॥ दैत्यैः संपूजितस्तत्र महाबलपराक्रमः । सुंदरप्रियपुत्रोऽभून् मत्सरस्य प्रहर्षितः ॥५०॥ देवाः केचिद् धृतास्तत्र केचिद्वै मूर्च्छिताः कृताः । केचित् पलायिता दक्ष भग्नाः केऽपि विचूर्णिताः ॥५१॥ एवं स सकलान् देवान् वशांश्चक्रे महाबलः । मत्सरासुर एवाऽयं स्वर्गाधीशो बभूव ह ॥५२॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरविजय इंद्रपराजयो नाम सप्तविंशतितमोऽध्यायः ॥

शीर्षक (Header): खं. १ अ. २८ | पान ६५


॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । देवाश्च शरणं केचित् कश्यपादीन् समाययुः । विह्वला भयभीतास्ते शशंसुर्दैत्यचेष्टितम् ॥१॥ देवा ऊचुः। मत्सरेण प्रदुष्टेन जिता देवाः सवासवाः । इंद्रो धृतो महाभाग वयं शरणमागताः ॥२॥ रक्ष त्वं मुनि- शार्दूल त्वं पिता भयविह्वलान् । जीवनाशसमाद् दुःखानिंद्रं मोचय मत्सरात् ॥३॥ देवानां वचनं श्रुत्वा वसिष्ठादिसमन्वितः । ब्रह्माणं प्रययौ देवैः कश्यपो वंशवृद्धये ॥४॥ सत्यलोके समासीनं गत्वा दृष्ट्वा ननाम च । स्तुत्वा तं विविधैर्वाक्यैः प्रांजलिः प्रत्युवाच ह ॥५॥ कश्यप उवाच । मत्सरेण धृतः स्वामिन्निंद्रो देववरैः सह । देवस्थानपतिर्जातो दैत्यः परमदारुणः ॥६॥ देवा दैत्याः पदे स्वे स्वे यथायोग्ये वसंतु वै । तथा कुरु जगन्नाथ त्वं धाता च गतिर्हि नः ॥७॥ कश्यपस्य वचः श्रुत्वा देवांश्चर्षींनथाऽब्रवीत् । पितामहः प्रजानाथ हृदयेन विदूयता ॥८॥ ब्रह्मोवाच । शृणुध्वं मुनयो देवाः शिवप्राप्तवरोऽसुरः । अजेयः सर्वभूतानां देवादीनां विशेषतः ॥९॥ न शक्तोऽहं कदा कर्तु यथायोग्यं स्वभावतः । गच्छामि शरणं विष्णुं भवद्भिः सह पालकम् ॥१०॥ वैकुंठमगमद् ब्रह्मा देवैश्च मुनिभिः सह। गत्वा विष्णुं नमस्कृत्य स्तुत्वोवाच प्रजापतिः ॥११॥ मत्सरेण धृतो युद्धे इंद्रो देववरः प्रभो । किं स्थितोऽसि महाविष्णो त्वं पालक इति श्रुतः ॥१२॥ ब्रह्मणो वचनं श्रुत्वा विष्णुस्तं प्रत्युवाच ह । न शक्यते मया धातर्वशं कर्तुं महासुरम् ॥१३॥ शिवस्य वरदानेन मत्तोऽसौ दैत्यपुंगवः । तस्माच्च शरणं यामः शंकरं नात्र संशयः ॥१४॥ ब्रह्मादिभिः स्वयं विष्णुः कैलासमगमत्किल । शंकरं प्रणिपत्याऽह सर्वैर्मुनिगणैः सह ॥१५॥ विष्णुरुवाच । नमस्ते भगवन् शंभो नमस्ते शूलपाणये । नमस्ते जगतां नाथ सर्वसाक्षिन्नमोस्तु ते ॥१६॥ नमो नमो महादेव स्रष्ट्रे राजसरूपिणे । पात्रे विष्णुस्वरूपाय हंत्रे रुद्रस्वरूपिणे ॥१७॥ पंचवक्त्रधरायैव योगिने योगदायिने । निर्गुणाय निरूपाय ब्रह्मभूताय ते नमः ॥१८॥ मत्सरेण महादेव पीडितास्ते सुरर्षयः । धृत इंद्रः सुराधीशो मर्दयित्वा सुरान् परम् ॥१९॥ भयभीता वयं तेन शरणं त्वामुपागताः । रक्ष नो देवदेवेश त्वं श्रेष्ठो देवपालक ॥२०॥ विष्णो- र्वचनमाकर्ण्य शिवश्चिंतामुरः स्वयम् । उवाच तान् देवमुनीन् विष्णुमुख्यान् महेश्वरः ॥२१॥ शिव उवाच । तपसोग्रेण देवेश मया दैत्यो विवर्धितः । वरैर्महादुर्लभैश्च किं करोमि जनार्दन ॥२२॥ दैत्यो नाशयितुं विष्णो न शक्यः स कदाचन । विचारं कुरु देवेश त्वं बुद्धियुत एव हि ॥२३॥ शिवस्य वचनं श्रुत्वा विष्णुः परमकंपितः । उवाच दुःखयुक्तेन हृदयेन सुरेश्वरम् ॥२४॥ विष्णुरुवाच । कर्ता त्वमन्यथा कर्ता ह्यकर्ता नात्र संशयः । विपरीतं त्वयोक्तं चेद्वयं किं करवामहे ॥२५॥ तव वै सन्निधौ

खं. १ अ. २९                              पान ६६ देव वसामश्च सदाशिव । वयं दैत्यवशा नैव चराम इति मे मतिः ॥२६॥ वैकुंठादिपदं त्यक्त्वा तव सन्निधिमागताः । अधुना मत्सरो दैत्य आगमिष्यति तत्र सः ॥२७॥ वैकुंठं सत्यलोकं च गृहीत्वा सुखमेष्यति । तव स्थानं न कैलासं भक्तत्वाद्धै ग्रहीष्यति ॥२८॥ विष्णोश्च वचनं श्रुत्वा शिवो निःश्वाससंयुतः । स्थितस्तत्रैव दक्ष त्वं शृणु मत्सरचेष्टितम् ॥२९॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । इंद्रं धृत्वा महादैत्यो मत्सरो हर्षसंयुक्तः । ऐरावतसमारूढो ययौ ताममरावतीम् ॥ १ ॥ विरोचनमुखैर्वीरैः संवृत्तो दैत्यपुंगवः । शुशुभे तत्र तेजस्वी प्रभावेण बलेन च ॥२॥ इंद्रासने समासीनं तं ययु- श्चाप्सरोगणाः । गंधर्वाश्चारणाश्चैव भयभीताः समंततः ॥ ३॥ सिषेविरे महाभागं मत्सरं त्वमितौजसम् । सर्वभावेन तं हृष्टं चक्रुः सर्वे स्वविद्यया ॥ ४॥ देवोद्यानेषु सर्वेषु विचचार महासुरः । कुशलो देवभोगेषु भोगांश्च बुभुजे परान् ॥५॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । दैत्येभ्यो मुख्यमुख्येभ्यो बलेन सहितो मुने ॥ ६॥ दत्तानि यानि स्थानानि स्थितास्तेषु महासुराः । नानारूपान् देवभोगान् बुभुजुस्तत्र संस्थिताः ॥ ७॥ मत्सरं सेवमानास्ते ह्यतिदर्पेण संवृताः । एकस्मिन् दिवसे भौम इंद्रासनसमाश्रितः ॥ मत्सरो हर्षयुक्तः सन् दैत्यान् प्रोवाच गर्वितः ॥ ८ ॥ मत्सरासुर उवाच । भो भो विरोचनाद्याश्च शृणुध्वं च वचोऽसुराः । ब्रह्मादयो महाभागाः कथमत्रैव नागताः ॥ ९ ॥ नमस्यंति न देवेशा मां यदा मत्सरान्विताः । सर्वं मदं तदा तेषां हरिष्यामि न संशयः ॥१०॥ मत्सरस्य वचः सर्वे तुष्टुवुर्दैत्यदानवाः । दूतं संप्रेषयामास मत्सरः क्रोधसंयुतः ॥११॥ गच्छ दूत त्रयाणां त्वं ब्रह्मादीनां पदेषु वै । देवेशान् वद वाक्यं मे सावधानेन चेतसा ॥१२॥ दर्शनार्थं मत्सरस्य यांतु देवा मया सह । नोचेन्मत्सरदैतेयस्ताडयिष्यति निश्चितम् ॥१३॥ मत्सरस्य वचः श्रुत्वा गतो दूतो बलान्वितः । अंधको नाम दैत्येंद्रो महावेगसमन्वितः ॥१४॥ सत्यलोके स धातारं न ददर्श महाबलः । शून्यां तां नगरीं वीक्ष्य गतो वैकुंठमादरात् ॥१५॥ तत्राऽपि तादृशं दृष्ट्वा गतः कैलासमेव सः । तत्रानंदयुतान् सर्वान् देवां- श्चर्षीन् ददर्श च ॥१६॥ सभामध्यगतो दैत्यः शिवचरैः प्रवेशितः । आसनस्थेन शर्वेण आसने विनिवेशितः ॥१७॥ कैलासविभवं दृष्ट्वा विस्मितो मानसेऽभवत् । सदानंदमयं धन्यं मन्यमानः स्वचेतसि ॥१८॥ पृच्छंतं शंकरं दैत्य उवाच

खं. १ अ. २९ पान ६७ बलगर्वितः । तृणीकृत्य महेशानं सर्वान् देवांस्तदांधकः ॥१९॥ अंधक उवाच । मत्सरासुरवाक्यं च शृणुध्वं सुरसत्तमाः । जित्वेंद्रं देवनाथं च जातोऽहं जगदीश्वरः ॥२०॥ अतो मद्दर्शनार्थं च भवंतोऽपि सहानुगाः । ब्रह्मा विष्णुश्च रुद्रश्च आगच्छंतु मदंतिकम् ॥२१॥ तस्माद्भवद्भिश्चैव मया सह सुरेश्वराः । आगंतव्यं मत्सरस्य दर्शनार्थं तु सत्वरम् ॥२२॥ अंधकस्य वचः श्रुत्वा शिवः क्रोधसमन्वितः । उवाच तं महादैत्यं मुखादग्निं समुद्विरन् ॥२३॥ शिव उवाच । किं मां वदसि पापिष्ठ तृणीकृत्य च यत् वचः । मद्धरस्य प्रभावेण मत्सरो विजयी ध्रुवम् ॥२४॥ यदाऽहं क्रोधसंयुक्तस्तदा भस्ममयं खलम् । करिष्यामि न संदेहः सासुरं मत्सरं खलु ॥ २५ ॥ मत्सराज्ञावशोऽहं रे किं प्रजातोऽसुराधम । मत्वा त्वां मूढ दूतेति मोच्यामि न संशयः ॥ २६ ॥ गच्छ तं मत्सरं दैत्यं वद वाणीं मयेरिताम् । नोचेत्त्वां भस्मसात् कुर्यां कुपितोऽहं खलोत्तम ॥ २७ ॥ शिवस्य वचनं श्रुत्वा मत्सरं त्वंधको ययौ । कथयामास वृत्तांतं सर्वदैत्ययुताय च ॥ २८ ॥ विभवं वर्णयामास कैलासस्य यथायतथम् । ब्रह्मांडॆ न समं किंचित् कैलासस्य महासुराः ॥ २९ ॥ अंधकस्य वचः क्रूरं श्रुत्वा दैत्याः महाबलाः । विरोचनमुखाः सर्वे मत्सरं क्रूरमब्रुवन् ॥ ३० ॥ किं स्थितोऽसि महाबाहो जेष्यामस्त्वत्प्रसादतः । देवत्रयं न संदेह आज्ञां देह्यासुरेश्वर ॥३१॥ दैत्यानां वचनंश्रुत्वा तेजोयुक्तं स मत्सरः । उवाच क्रोधसंयुक्तान् दैत्यान् हर्षयन्निव ॥३२॥ मत्सर उवाच । मया तपःप्रभावेण प्राप्तं तेजो महाद्भुतम् । तत्र शंभुर्वृथा मानी स्वात्मानं मन्यतेऽर्थदम् ॥ ३३॥ तपोहीनाय राज्यं वै ब्रह्माण्डस्य ददाति चेत् । तदायं जगदीशॊ वै मन्यते नान्यथा मया ॥ ३४ ॥ अतः शंभुं विजेष्यामस्तपस्तेजः- समन्वितः । दर्पं तस्य हरिष्यामि वृथा ब्रह्मेति मानिनम् ॥ ३५ ॥ वेदांते ब्रह्मवेदेषु कथितं निर्विकल्पकम् । तदेव सर्वमान्यं वै जगदीशतया बभौ ॥ ३६ ॥ सकामकर्मणा सर्वं प्राप्यते मनुजस्तथा । ब्रह्मार्पणतया कर्म कृतं चेन्मुक्तिराप्यते ॥ ३७ ॥ अखिलं कर्मणा सृष्टं पालितं च प्रहीयते । तत्र किं तैस्त्रिभिर्देवैः क्रियते कर्मजैः खलु ॥ ३८ ॥ कर्मणाऽहं सृजाम्येव पालयामि हरामि च । कर्माधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ३९ ॥ एवमुक्त्वा महादैत्यो विरोचनमुखैर्वृतः । आययौ शंकरस्थानमावेशेन समन्वितः ॥ ४० ॥ नानाशस्त्रास्त्रधाराभिर्हतास्तत्र बहिः स्थिताः । शिवचाराश्च तैः सर्वे पलायंत च पीडिताः ॥ ४१ ॥ छिन्नभिन्नांगदेहाश्च ययुः शंकरसंनिधौ । ऊचुः समागतो दैत्यैः सर्वैः साकं स मत्सरः ॥ ४२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः ॥

खं. १ अ. ३० पान ६८ ॥ श्रीगणेशाय नमः॥ मुद्रल उवाच । गणानां च पिशाचानां वचनं दारुणं महत् । श्रुत्वा शिवः स्वयं तत्र युद्धार्थं दंशितोऽभवत् ॥ १ ॥ ब्रह्मा विष्णुश्च कामश्च वसवो धनदोऽभवत् । चंद्रः सूर्यस्तथा वह्निस्समीराद्याश्च दंशिताः ॥ २ ॥ कालाग्निरुद्रमुख्या ये भैरवो भूतनायकः । कृत्वा युद्धक्षमं वेषं स्थिताः शंकरसन्निधौ ॥३॥ अष्टभैरवमुख्याश्च वीरभद्रा- दयोऽभवन् । नंदी भृंगी पुष्पदंतमहाकालरवाः स्थिताः ॥४॥ महाकालीमुखास्तत्र देव्यः शस्त्रधराऽऽययुः । एवं नानाविधैः सैन्यैर्वृतः शंभुर्महेश्वरः ॥५॥ वृषारूढो महातेजा आययौ युद्धलालसः । यत्र दैत्याः स्थितास्तत्र कार्तिकेयादिभिर्युतः ॥६॥ शंकरं सैन्यसंयुक्तं नानायुद्धविशारदम् । नानाशस्त्रधरं दृष्ट्वा दैत्येशाश्चिक्षिपुः शरान् ॥७॥ तद् दृष्ट्वा कुपिता देवाः शस्त्रास्त्रैस्तानताडयन् । एवं परस्परं युद्धमभवद्दारुणं महत् ॥८॥ देवानां चैव दैत्यानामन्योन्यजयकांक्षिणाम् । शस्त्रास्त्र- निचयैर्बाणैरंधकारः प्रवर्तितः ॥९॥ सैन्यानां रजसा व्याप्तमाकाशं सर्वतो बभौ । न प्राज्ञायत तत्रैव स्वीयो वाऽपर एव च ॥१०॥ घंटानां शंखतूर्याणां वीराणां रथिनां तथा । बृंहितानां हेषितानां शब्दैस्तद्वधिरीकृतम् ॥ ११ ॥ देवान् दृष्ट्वा सुरा जघ्नुर्दैत्यान् देवास्तथापरे । असंबंधं महायुद्धं चक्रिरे सुरदानवाः ॥१२॥ शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसंचयम् । मल्लयुद्धं महावीराश्चक्रुस्तत्र मदान्विताः ॥१३॥ संग्रामे तुमुले तत्र प्रवृत्ते घोररूपिणि । मृता मुमूर्षवः केचिच्छिन्नभिन्ना- स्तथाऽभवन् ॥१४॥ नानाजंतुशरीरेभ्यः प्रवृत्ता रक्तसंभवा । नदी बभौ महाघोरा मांसकर्दमशालिनी ॥१५॥ रक्ता चास्थिबलाका च केशशैवालशोभिता । चापसर्पाशिरःपद्माकबंधद्रुमवाहिनी ॥ १६ ॥ भल्लकाष्ठा महाघोरा चामरैस्तृणकै- र्युता । छत्रावर्ता दुर्गमा च चर्मपट्टिशदर्दुरा ॥ १७॥ भीरुभीतिकरा चैव वीरहर्षप्रवर्धिनी । तां दृष्ट्वा दैत्यराजास्ते क्रोधयुक्ताः समाययुः ॥१८॥ तैः समंताद्वलं भग्नं देवानां सर्वमंजसा । बाणजालैर्दिशो व्याप्ता गंतुं मार्गो न विद्यते ॥१९॥ पलायनपरा देवाः सर्वे दशदिशोऽगमन् । तद् दृष्ट्वा देवराजास्तान् वारयामासुरोजसा ॥२०॥ द्वंद्वयुद्धं च तत्रासीत्परस्पर- विनाशनम् । देवानां मुख्यदैत्यानां किंचित्तेषां वदामि ते ॥२१॥ नमुचिः कामदेवेन युयुधे बलसंयुतः । शंबरो वायुना सार्द्धं शुंभो देव्या महाबलः ॥२२॥ चंद्रेणाऽपि निशुंभश्च गुहेन च विरोचनः । कालभैरवदेवेन कालभैरवदानवः ॥२३॥ महिषासुरदैतेयः कालाग्न्याख्यहरेण च । प्रह्लादो विष्णुना सार्धं विप्रचित्तिश्च भानुना ॥२४॥ अंधकासुरनामा च वीरभद्रेण संयुतः । अग्निना चैव दुर्बुद्धिर्युयुधे बलसंयुतः ॥२५॥ विषयप्रिय एवाऽसौ ब्रह्मणा युयुधे भृशम् । शंभुना

खं. १ अ. ३० | पान ६९ ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ युयुधे तत्र सुंदरप्रिय एव सः॥ २६॥ मत्सरासुरदैत्येशो युद्धं द्रष्टुं स्थितोऽभवत् । एवं नानाद्वंद्वयुद्धं शतशोथ सहस्रशः॥ २७॥ संख्यातुं नैव शक्यं तदपारत्वात् प्रजापते । शस्त्रास्त्रैरसुरा जघ्नुः सुरांस्तानपि ते सुराः॥ २८॥ अग्नवाय्वादिकास्त्राणि तत्यजुः क्रोधसंयुताः । चकंपे च त्रिभुवनं दारुणे संयुगे तदा ॥ २९ ॥ देवासुरप्रणाशश्च महांस्तत्र प्रवर्तितः । शोणितौघैः प्रवृत्तास्तु नद्यः परमदारुणाः॥ ३०॥ एवं सप्त दिवानक्तं गतं तेषां प्रयुध्यताम् । नासुरा न च देवास्ते विरामं चक्रुरंजसा ॥ ३१ ॥ ततश्च कुपिता देवा अत्यंतं शंकरादयः । दैत्यानामस्त्रसंघातानस्त्रैः संवार्य तान् पुनः॥ ३२॥ ताडयामासुरव्यग्रा अस्त्रैर्नानाविधैः परम् । मूर्च्छितान् पतितांश्चक्रुर्मृतान् संचूर्णितान् परान् ॥ ३३ ॥ ततो दश दिशो दैत्या वव्रजुर्भयसंकुलाः । त्रिशूलादि महाशस्त्रैस्तत्राऽपि तु सुरा बभुः ॥ ३४ ॥ सुंदरप्रियकायाश्च मूर्च्छिता धरणीं गताः । मृतप्रायाः कृतास्तैस्ते विष्ण्वादिभिरथो मुने ॥ ३५ ॥ तद् दृष्ट्वा क्रोधसंयुक्तो मत्सरः स्वयमाययौ। कृत्वा नादं महाघोरं ब्रह्मांडं कंपयन्निव ॥ ३६ ॥ धनुश्चक्रे सनादं वै तेन संशयिताः सुराः । बाणवृष्टिं ससर्जासौ दारुणां शत्रुनाशिनीम् ॥ ३७ ॥ तस्य बाणैः सुराः सर्वे मर्दिता बलवत्तरम् । मृताः केचित् क्षताः केचिन् मूर्च्छिता पतिता मृधे ॥ ३८॥ पंचबाणैश्च सेनान्यं ताडयामास वक्षसि । पतितः स धरापृष्ठे मूर्च्छितो भृशविह्वलः ॥ ३९ ॥ अग्निं च सप्तभिर्बाणैर्नंदिनं दशभिस्तथा । ताडयामास दैत्येंद्रः पतितं रणमूर्धनि ॥ ४० ॥ दशभिर्वीरभद्रं स सवितारं ततोष्टभिः । चंद्रं च सप्तभिर्बाणैः पातयामास दैत्यपः॥ ४१॥ अनिलं नवभिश्चैव कालाग्निं रुद्रमष्टभिः । दशभिश्च महाकालीं ताडयामास मत्सरः ॥ ४२ ॥ पंचभिः पंचभिश्चैव गणपान् भृंगिमुख्यकान् । बाणैः स पातयामास प्रलयाग्निसमद्युतिः ॥ ४३ ॥ कुबेरं दशभिश्चैव ताडयामास वक्षसि । ब्रह्माणं शतबाणैश्च पातयामास भूतले ॥ ४४॥ एवं तस्याद्भुतं कर्म दृष्ट्वा विष्णुः समाययौ । बाणैः सहस्रसंख्याकैर्ववर्ष घनवद् भृशम् ॥ ४५ ॥ दैत्यो बाणान्निवार्यैव तैः शरैः क्रोधसंयुतः । शतेन ताडयामास पतितः स धरातले ॥ ४६ ॥ ततश्च शंकरः क्रुद्धस्त्रिशूनेनाहनद् भृशम् । त्रिशूलं निष्फलं तत्र पतितं धरणीतले ॥ ४७॥ पाशं दैत्यपतिः क्षिप्त्वा सहसा शंकरं ततः । गृहीत्वा पशुवत् कंठे आनयामास सन्निधौ ॥ ४८ ॥ धृत्वा शंभुं महाबाहुर्वदति स्म च तं मुने । अतुलं किं त्वया मेऽद्य दत्तं वद सदाशिव ॥ ४९ ॥ कर्मणा त्वं समर्थश्च तथाहं कर्मणा किल । जगदीश्वरतां प्राप्तो वृथाहं- ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ

शीर्षक (Header): खं. १ अ. ३१ | पान ७०


कारवानसि ॥ ५० ॥ क्रमेण विष्णुमुख्यांश्च देवान् धृत्वा महाबलः । कैलासशिखरे रम्ये रेमे दैत्यसमन्वितः ॥ ५१ ॥ सर्वपूज्यतमो भूत्वा दैत्यः परमहर्षितः । नानाकौतुकयुक्तश्च भोगांश्च बुभुजे परान् ॥ ५२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते शिवादिपराजयो नाम त्रिंशोऽध्यायः ॥


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ॥ शृणु दक्ष महाश्चर्यं दैत्यस्य च विचेष्टितम् । ब्रह्मांडाधिपतिर्जातो मत्सरः कर्मणा स्वयम् ॥ १ ॥ सुंदरप्रियपुत्रं च कैलासाधिपतिं ततः । चक्रे वैकुंठनाथं तं पुत्रं स्वं विजयप्रियम् ॥ २ ॥ प्रह्लादं सत्यलोकेशं माहेंद्रेशं विरोचनम् । एवं चक्रे च राजेशः स्वर्गाधीशान् स दैत्यपान् ॥ ३ ॥ स्वयं भूमिं समागम्य नगरं निर्ममे ततः । मत्सरावासकं नाम तत्रैव न्यवसन्मुदा ॥ ४ ॥ त्रैलोक्यं वशगं सर्वं चकार स्वेन तेजसा । शिवाद्यश्च देवेंद्र गृहे तस्य समास्थिताः ॥ ५ ॥ तान् समानाय्य दैत्येशो हर्षयुक्तेन चेतसा । उवाच मधुरं वाक्यं सामयुक्तं महासुरः ॥ ६ ॥ शृणु शंभो महाभाग देवेंद्रैः सह देवप । यत्रेच्छा गच्छ तत्र त्वं मदाज्ञां पालयन् सदा ॥ ७ ॥ एवमुक्त्वा स दैत्येंद्रो मोचयामास शंकरम् । देवैः सह महाभागो मत्सरो हर्षसंयुतः ॥ ८ ॥ शिवोऽपि देवसंघातैः पर्वतद्रोणिमाश्रितः । चिंताविष्टो महादेवः कालं पश्यंश्च संस्थितः ॥ ९ ॥ यत्र तत्र गुहायां ते देवा विष्णुपुरोगमाः । संस्थिता भयभीताश्च दिवसानतिचक्रमुः ॥ १० ॥ पृथिव्यां दैत्यराजेन ततो धर्मस्य खंडनम् । कृतं सर्वत्र तेनैव हाहाकारोऽभवन् महान् ॥ ११ ॥ देवानां प्रतिमा यत्र तां भङ्क्त्वा चिक्षिपुर्जले । दैत्यास्तदाज्ञया दक्ष धर्मलोपं प्रचक्रिरे ॥ १२ ॥ मत्सरस्य च दैतेयाः प्रतिमाः सर्वभावतः । देशे देशे पुरे ग्रामे स्थापयामासुरंजसा ॥ १३ ॥ गृहे गृहे च देवानां प्रतिमां संस्थितां पराम् । तां भङ्क्त्वा जलमध्ये ते चिक्षिपुश्च प्रजापते ॥ १४ ॥ मत्सरप्रतिमां कृत्वा प्रतिगेहं ददुस्ततः । दैत्याः सुदारुणा विश्वं त्रासयामासुरेव च ॥ १५ ॥ ब्राह्मणांश्च समानीय ताडयामास मत्सरः । ममैव मंत्रसूक्तेन यज्ञादि क्रियतां द्विजाः ॥ १६ ॥ मम नाम्ना च गायत्रीं युक्तां जपत मा चिरम् । अग्निहोत्रादिकं कर्म कुरुध्वं मन्मतं तथा ॥ १७ ॥ अहमेवेश्वरो देवो ब्राह्मणादि जनस्य च । भजतां मम पादौ च दुर्लभं किं भविष्यति ॥ १८ ॥ धनधान्यादिकं सर्वं स्वर्गभोगादिसंयुतम् । दास्यामि नात्र संदेहो मदधीनं

खं. १ अ. ३१ पान ७१

जगत्सदा ॥ १९॥ मम प्रीतिकरा येन दैत्या भोज्यैः प्रपूजिताः । तेन संतर्पितो नूनं वांछितं पूरयाम्यहम् ॥ २० ॥ एवमादि स सर्वत्र नानाधर्मनिकृंतनम् । कारयामास दुर्बुद्धिर्मत्सरो मत्सरान्वितः ॥ २१ ॥ केचिदृषिगणा दक्ष वनं व्याघ्रादिसंयुतम् । जग्मुस्तत्र क्रियाः सर्वाश्चक्रुर्धर्मपरायणाः ॥ २२॥ देहरक्षणसक्ताश्च मुनयो भ्रंशमागताः । सर्ववर्णपरिभ्रष्टा जना जाताः प्रजापते ॥ २३ ॥ यजनं याजनं तत्र स्वधर्मादिस्वभावजम् । कर्म सर्वं न चक्रुस्ते जनास्तद्भयभाविताः ॥ २४ ॥ न स्वाहा न स्वधा कुत्र न वषट्कार आभवत् । वर्णसंकरकृल्लोकाः स्थिता भयसमन्विताः ॥ २५ ॥ एवं पापस्य वृद्धिश्च संजाता भयदायिनी । ततो देवगणाः सर्वे उपोषणनिपीडिताः ॥ २६ ॥ विचारं तत्र चक्रुस्ते मत्सरस्य विनाशने । न च किंचिद्वयोद्विग्ना नाशार्थं शेकुरोजसा ॥ २७ ॥ एतस्मिन्नंतरे तत्र दत्तात्रेयः समाययौ । साक्षाद् ब्रह्ममयो योगी न्यस्तस्वपरविभ्रमः ॥ २८ ॥ मलिनो जडवल्लोके भ्रमति स्म पिशाचवत् । चेष्टितैश्चेष्टते नग्नो बालवद् द्वंद्वकारकः ॥ २९ ॥ उन्मत्तवन्महाभागो भयं नैव प्रविंदति । आत्रेयो गणराजस्य भक्तः परमशोभनः ॥ ३० ॥ तं दृष्ट्वा देवसंघास्ते समुत्तस्थुः सुसादराः । प्रणेमुः कार्यसिद्ध्यर्थं पूजयामासुरंजसा ॥ ३१ ॥ पादसंवाहनं तस्य चक्रुः केचन भावतः । फलादिना च नैवेद्यमर्पयामासुरादरात् ॥३२॥ पप्रच्छुर्भुक्तवंतं तं विनयेन समन्विताः। शंभुविष्णुमुखाः सर्वे भयभीता महामुनिम् ॥३३॥ शिव उवाच । स्वामिंस्त्वं द्वंद्वहीनश्च नित्यमानंदभाक् परः । न्यस्तस्वपरभावश्च तथाऽपि जनवत्सलः ॥ ३४ ॥ गणेशस्य वरो भक्तः साक्षाद्गणपतिः स्वयम् । योगभावेन संपन्नो योगी योगविदां वरः ॥ ३५ ॥ तथापि दुःखितान् दृष्ट्वा मनस्ते कलिलं भवेत् । उपाधिहीनभावेन दुःखनाशं करोषि वै ॥ ३६ ॥ अतो वयं महाभाग पीडिता मत्सरेण वै । भ्रष्टस्थाना वने सर्वे चरामः श्वापदा इव ॥ ३७ ॥ अत्राऽपि धर्मलोपेन पीडिता वयमुत्कटम् । उपोषणपराः स्वामिन् मरिष्यामो महामते ॥ ३८ ॥ अत्र ते दर्शनं प्राप्तं पूर्वपुण्यबलेन भोः । तेन दुःखविहीनाश्च भविष्यामो न संशयः ॥ ३९ ॥ अतो मत्सरदैत्यस्य नाशोपांयं वद प्रभो । येन सर्वं जगत्क्लिष्टं तत् सुखं कुरु मानद ॥ ४० ॥ एकस्य दोषयोगेन बह्वः पीडिता यदि । अनुपाधितया योगी तं दोषं नाशयिष्यति ॥ ४१ ॥ शक्तश्चेत् स्वस्वभावेन सर्वेभ्यः सुखदायकः । अतस्त्वं रक्ष योगीश जगत् कृत्स्नं विशेषतः ॥ ४२ ॥ मुद्गल उवाच । शिवस्य वचनं श्रुत्वा देवान् दीनतमान् परान् । दृष्ट्वा स करुणायुक्तः प्रत्युवाच च हर्षयन् ॥ ४३ ॥ दत्तात्रेय उवाच ।

खं. १ अ. -३२ पान ७२ शृणु शंभो जगन्नाथ त्वं साक्षादीश्वरः शिवः । तवाधीनमिदं सर्वं त्वां ब्रुवे किं महामते ॥ ४४ ॥ तथापि वच्मि देवेश त्वदाज्ञासंप्रचोदितः । येन त्वं देवसंयुक्तः सुखं विंदसि शाश्वतम् ॥ ४५ ॥ त्वदीये हृदये शंभो मत्सरः संस्थितोऽधुना । ईश्वरोऽहमिदं सर्वं मदधीनं प्रवर्तते ॥ ४६ ॥ न मत्समस्त्रिभुवने इति यन् मत्सरः स च । जहि तं योगमार्गेण हृदयस्थं महासुरम् ॥ ४७ ॥ श्रेष्ठं दृष्ट्वा महेर्ष्या ते जायते या महामते । जहि तां तपसा शंभो गणेशस्य प्रसेवया ॥ ४८ ॥ एकाक्षरविधानेन मयाऽसौ सेवितः पुरा । तेनाऽहं च गणाधीशो न भिन्नौ मयि तिष्ठतः ॥ ४९ ॥ अतस्त्वं योगमार्गेण गणेशं सर्वसिद्धिदम् । एकाक्षरविधानेन तमाराधय यत्नतः ॥ ५० ॥ हृदिस्थं मत्सरं हत्वा पश्चात्तं जहि दानवम् । योगेन त्वं समर्थो हि भविताऽसि न संशयः ॥ ५१ ॥ एवमुक्त्वा महादेवं गतोऽसौ मुनिसत्तमः । यदृच्छया चरन् सन् वै सेवते गणनायकम् ॥ ५२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दत्तात्रेयसंगमो नामैकत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ॥ शृणु दक्ष महाप्राज्ञ चेष्टितं परमं महत् । यत्कृतं सर्वदेवैस्तत् कथयामि समासतः ॥१॥ गते मुनौ महाभागे शिवो हर्षसमन्वितः । गणेशं हृदि संचिंत्य ब्रह्मादींश्च वचोऽब्रवीत् ॥ २ ॥ शृणु विष्णो विधे देवाः शृणुध्वं सर्वतापसाः । ऋषयः संस्थिता अत्र वचनं हितकारकम् ॥ ३ ॥ आत्रेयेण च दत्तेनं कथितं दुःखनाशनम् । अतः एकाक्षरेणैव प्रसादयत विघ्नपम् ॥ ४ ॥ शंभोर्वचनमाकर्ण्य मुनयो देवनायकाः । साधुसाध्वब्रुवन् सर्वे प्रसन्नाश्च तथाऽभवन् ॥ ५ ॥ तत एकाक्षरेणैव मंत्रेण गणपं मुने । देवाश्च मुनयः सर्वे सेवयामासुरादरात् ॥ ६ ॥ महोग्रतपसा युक्ताः स्थितास्तत्र शिवादयः । आराधयंस्तु देवेशं गणेशं सर्वनायकम् ॥ ७ ॥ पद्मासनगताः केचिद्वीरासनगताः परे । स्वस्तिकासन आसीना एवं नानासने स्थिताः ॥ ८ ॥ निराहारतया केचित् स्थितास्तत्र प्रजापते । पत्रवायुभुजश्चान्ये प्राणायामपरायणाः ॥ ९ ॥ जलभक्ष्याः स्वपादाग्रस्थिताः केचिद् दृढासनाः । केचिन्मानसपूजाभिः पूजयामासुरंजसा ॥ १० ॥

खं. १ अ. ३२ पान ७३ केचित् पुष्पोपहाराद्यैर्यत्नतः समपूजयन्। प्रदक्षिणापराः केचिद्देवं नानाविधानतः ॥ ११॥ तपंतो गणपं चैव मंत्रेण विधिपूर्वकम्। एकचित्तेन सर्वे ते तोषयामासुरंजसा ॥१२॥ एवं वर्षसहस्रेण दिव्येन तपसा स्वयं। प्रसन्नोऽभून् महातेजा वक्रतुंडः प्रतापवान् ॥ १३॥ देवानां च ऋषीणां च ययौ चाग्रे गणाधिपम्। तेजसां पुंज एवाऽसौ साक्षाद् ब्रह्ममयो बभौ ॥ १४ ॥ सिंहगो गजवक्त्रश्च शूर्पकर्णो महोदरः। चतुर्बाहुश्च पाशेनांकुशेन वरदेन च ॥ १५ ॥ अभयेन समायुक्तो वामांगे सिद्धिधारकः। दक्षिणांगे च बुद्धिं वै दधानो भगवान् परः ॥ १६॥ नाभिशेषो मुकुटवान् कुंडली कटकान्वितः । चिंतामणिलसद्वक्षा व्यालयज्ञोपवीतवान् ॥ १७॥ नानाभूषणशोभाढ्यस्तेजसा ज्वलदद्भुतः । पुष्करं पुष्करे धृत्वा भ्रामयन् समुपागयौ ॥ १८ ॥ तं दृष्ट्वा देवविप्रास्ते भयभीताः समंततः । उदितं किमिदं तेजः प्रलयानलसंनिभम् ॥१९॥ अथवा गणराजोऽयं किं वा स्वामी समागतः । अथवा प्रलयो भावी अकाले दैवसमन्वितः ॥ २० ॥ इति तर्कसमायुक्तान् देवान् मुनिसमन्वितान् । उवाच वक्रतुंडस्तान् मेघगंभीरनिस्वनः ॥ २१ ॥ वक्रतुंड उवाच । भो भो मुनिगणा देवाः स एवाऽहं समागतः । यं ध्यायथ महाभागास्तं जानीत गणेश्वरम् ॥ २२ ॥ तपसा मंत्रराजेन मम ध्यानेन सर्वशः । परितुष्टो वरं दातुमागतोऽहं न संशयः ॥ २३ ॥ मुद्गल उवाच । वक्रतुंडवचः श्रुत्वा हर्षिता अमरर्षयः । प्रणेमुः प्रार्थयामासुः सौम्यभावं प्रविह्वलाः ॥ २४ ॥ तेषां प्रार्थितमाकर्ण्य सौम्यतेजा अभूत् प्रभुः । यथा तं मुनयो देवा अपश्यन् स्वेन चक्षुषा ॥ २५ ॥ सौम्यभावेन संयुक्तं वक्रतुंडं सुरेश्वराः । मुनयस्तं प्रणम्योचुर्धन्या धन्या वयं प्रभो ॥ २६ ॥ अपूजयन् प्रयत्नेन भावेन स्नेहतस्तथा । उपचारैः षोडशभिर्यथाविधि महेश्वराः ॥ २७॥ यथाविधि प्रणम्यैव तुष्टुवुः कृतमंगलाः । बद्धांजलिपुटाः सर्वे भक्तिनम्रात्मकंधराः ॥२८॥ साश्रुनेत्राः सरोमांचास्तद्दर्शनमहोत्सवाः । यथाज्ञानं यथान्यायं वक्रतुंडं महौजसम् ॥ २९ ॥ देवर्षय ऊचुः। नमस्ते वक्रतुंडाय गजवक्त्राय ते नमः। एकदंताय देवाय सर्वाधिपतये नमः ॥ ३० ॥ निर्गुणाय निरूपाय चतुर्बाहुधराय ते । सिंहवाह्राय नागानां पत्युर्नाभौ धराय च ॥ ३१॥ अनंताय ह्यपाराय दुर्लक्ष्याय नमो नमः । पाशांकुशधरायैव नागयज्ञोपवीतिने ॥ ३२ ॥ वरदाभयहस्ताय सिद्धिवुद्धिवराय च । ब्रह्मभूताय भक्तानां ब्रह्मभूयकराय ते ॥ ३३ ॥ नमस्ते शंभुरूपाय विष्णुरूपाय ते नमः । सूर्यरूपाय धात्रे च नमः शक्तिमयाय च ॥ ३४ ॥ दैत्यदानवरूपाय देवरूपधराय च। नमः पक्षिस্বরূপाय शुकरूपाय ते नमः ॥ ३५ ॥ ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे ।

खं. १ अ. ३२ पान ७४ पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥३६॥ जलजंतुस्वरूपाय सर्परूपाय ते नमः। वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ ३७ ॥ चराचरमयायैव नमो नानाप्रभेदिने । कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ ३८ ॥ ज्ञानयोगाय देवाय स्वात्मरूपधराय ते। स्वसंवेद्यस्वरूपाय सदा योगमयाय ते॥३९॥ नानाधारप्रधाराय शब्दब्रह्ममयाय ते। मायारूपाय मायायै मायाहीनाय ते नमः ॥ ४० ॥ मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः । स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ ४१ ॥ भेदाभेदमयायैवानंतपाराय ते नमः । भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ ४२ ॥ नमो नमः परेशायोव्ययाय च नमो नमः । गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ ४३ ॥ यं स्तोतुं न समर्थाश्च वेदाः सांगाश्च योगिनः । तं किं स्तुमो गणेशानं वक्रतुंडस्वरूपिणम् ॥ ४४ ॥ मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् । ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ ४५ ॥ माया च ब्रह्मतुंडं यद् द्वयोर्योगे भवेत्परम् । योगशांतिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ ४६ ॥ मायादेहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम् । उभयोर्योगभावे त्वं वक्रतुंडः प्रकथ्यते ॥ ४७ ॥ तं वक्रतुंडं पश्यामः साक्षाद् योगमयं परम्। धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ ४८ ॥ धन्यं जन्म त्वक्षि धन्यं धन्याः संपद एव च। ज्ञानं धन्यं तपश्चैव येन दृष्टो गजाननः ॥ ४९ ॥ प्रसन्नो यदि देवेश यदि देयो वरः शुभः। तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः॥ ५० ॥ प्रार्थयामो वरं चैतं यतस्त्वं चिंतितार्थदः । मत्सरासुरनाशं च वक्रतुंड कुरु प्रभो ॥ ५१ ॥ जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप ॥ सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ ५२ ॥ स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः। तानुत्थाप्य स्वयं साक्षाद्वक्रतुंड उवाच ह ॥ ५३ ॥ वक्रतुंड उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् । भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ ५४ ॥ मत्सरासुरनाशं च करिष्यामि सुरर्षयः । भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ ५५ ॥ पंचभूतमयं सर्वं त्रिगुणं जगदुच्यते । अष्टावरणसंयुक्तं ब्रह्मांडं हि सुरर्षयः ॥ ५६ ॥ अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः । नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ ५७ ॥ अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् । तथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ ५८ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥

[Header] खं. १ अ. ३३ | पान ७५

[Text] ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। एवमुक्त्वा सुरान् विप्रान् सस्मार बलमुत्कटम् । तस्य स्मरणमात्रेण प्रादुर्भूता गणाः प्रभोः॥ १॥ प्रमोदामोदकाद्याश्च वक्रतुंडा गजाननाः। चतुर्बाहुधराः सर्वे नानाशास्त्रास्त्रपाणयः॥ २॥ केचित् सिंहसमारूढाः केचिन्मूषकवाहनाः। केचिन्मयूरमारूढाः शेषारूढास्तथापरे॥ ३॥ अश्वा रूढास्तथान्ये च मुकुटैः सुविराजिताः। कटकैः कुंडलैश्चैव नानाभूषणराजिताः॥ ४॥ भयंकराश्च शत्रूणां भक्तेभ्यः सुखदायकाः। महात्मानो महाशब्दा ब्रह्मांडस्फोटकारकाः॥ ५॥ नानाक्रीडासमायुक्ताः सदा स्वानंदभाविताः। गणेशनाममाहात्म्यं कथयंतः परस्परम् ॥ ६॥ वक्रतुंडं नमस्कृत्य स्थिताः प्रांजलयोऽभवन्। आज्ञां कुरु गणाध्यक्ष करवामस्तवेप्सितम् ॥ ७॥ अस्माकं स्मरणं देव किमर्थं कृतमादरात्। दासान् त्वदीयपादस्य करिष्यामोऽखिलान् जनान्॥ ८॥ तेषां वचनमाकर्ण्य वक्रतुंडः प्रतापवान्। उवाच तान् महाभागान् मेघगंभीरनिस्वनः॥ ९॥ वक्रतुंड उवाच। शृणुध्वं मोदकाद्याश्च मत्सरासुरदैत्यपम्। हनिष्यामि महावीर्यं तेन युद्धं भविष्यति॥ १०॥ अधुना दारुणं तत्र मया सह महाबलाः। एतदर्थं विशेषेण स्मरणं भवतां कृतम् ॥ ११॥ वक्रतुंडवचः श्रुत्वा सर्वे हर्षसमन्विताः। गणा ऊचुः प्रणम्यैनं निबद्धकरसंपुटाः॥ १२॥ गणा ऊचुः। स्वामिन् वदसि यत्सर्वं तदाश्चर्यमयं बहु। मत्सरासुरनाशश्च एकेन क्रियतेऽधुना ॥ १३॥ त्वत्प्रसादात् सदा सर्वं सुलभं नो गणाधिप। आज्ञां कुरु महाभाग पश्य चैकस्य पौरुषम् ॥ १४॥ गणानां तद्वचो रम्यं श्रुत्वा प्राह गणाधिपः। वक्रतुंडः प्रसन्नात्मा हर्षयन् सकलानिव॥ १५॥ वक्रतुंड उवाच। भवद्भिः कथितं सर्वं तत्तथा न तदन्यथा। क्रीडार्थं निर्मितो दैत्यो मया मायाप्रभावतः॥ १६॥ यदि क्षणेन तं दैत्यं नाशयामि प्रभावतः। तदा क्रीडा कथं देवा मया प्रक्रियते परा॥ १७॥ अतस्तेन महाभागा युध्यध्वं मम सन्निधौ। अष्टावरणहीनेन हन्मि रूपेण तं क्षणात्॥ १८॥ इति तस्य वचः श्रुत्वा गणा हर्षसमन्विताः। जगर्जुर्नादयंतस्ते दिशो विदिश एव च॥ १९॥ तद् दृष्ट्वा परमाश्चर्यं विस्मितास्ते सुरर्षयः। हर्षेण महता युक्ता मेनिरे मत्सरं हतम् ॥ २०॥ ततः सर्वान् समादाय गणान् देवान् मुनीनपि। वक्रतुंडो ययौ तां च पुरीमीर्ष्याह्वयां पराम्॥ २१॥ यत्र राज्यं च कुरुते मत्सरः स प्रतापवान्। ब्रह्मांडस्य महावीरो नानाभोगसमन्वितः॥ २२॥ देवांगनापरिवृतः सदा तिष्ठति दैत्यपः। मद्यादिपानसंयुक्तो नानावीरप्रपालितः॥ २३॥ यद्यन्मनसि तेनापि चिंतितं सफलं सदा। तत्तद्भवति

सर्वं स्म तपसा वरदानतः ॥ २४॥ न बुबोध गतं कालं कालेनेव च वंचितः। धन्योऽहंमन्यमानो न मत्समो मानसेऽपरः ॥ २५ ॥ एकस्मिन् दिवसे तत्र सभायां संस्थितोऽभवत् । वीरैः परिवृतो नाना नृत्यं पश्यन् विनोदतः ॥ २६ ॥ तत्राकाशात्तदा वाणी बभूव भयदायिका । आगतो मत्सरं हंतुं वक्रतुंडो महाबलः ॥ २७ ॥ श्रुत्वाऽऽकाशभवां वाणीं मूर्च्छितो मत्सरासुरः । पतितः शुष्ककंठश्च कंपमानांगविह्वलः ॥ २८ ॥ तं तथा पतितं दृष्ट्वाऽसुराः सर्वे भयातुराः । केनोक्तं परुषं वाक्यं हन्मस्तं त्वद्य निश्चितम् ॥ २९॥ ततः केचिन्नभोमार्गे बभ्रमुर्यत्र तत्र ते । ददृशुस्तं न तत्रापि सभायां पुनराययुः ॥ ३० ॥ सर्वैः कृतः स दैत्येशः सावधानो यथा पुरा । उपविष्टः सभामध्ये हृदयेन विदूयता ॥ ३१ ॥ उवाच हि स्वतो वाचं मत्सरो भयविह्वलः । वचनं किमिदं सत्यमनृतं वा भविष्यति ॥ ३२ ॥ कालस्य कालरूपोऽहं मम मृत्युः कथं भवेत् । असत्या नभसो वाणी न ज्ञाता न श्रुताऽपि च ॥ ३३ ॥ अष्टावरणसंयुक्तं ब्रह्मांडं सर्वमंजसा । अष्टावरणयुक्तेभ्यो मम मृत्युर्न जायते ॥ ३४ ॥ कोऽसौ वक्त्राननो जंतुः कथितः कुत्र वर्तते । तं हनिष्यामि दृश्यश्चेत् क्षणमात्रान्न संशयः ॥ ३५ ॥ इति श्रुत्वा वचस्तस्य मत्सरस्य दुरात्मनः । ऊचुः प्रह्लादमुख्यास्तं विनयेन समन्विताः ॥ ३६ ॥ प्रल्हादादय ऊचुः । मा कुरुष्व महाभाग चिंतां शत्रुनिषूदन । तव मृत्युः कथं भावी पश्चात् सूर्योदयः कथम् ॥ ३७ ॥ अस्माकं शत्रुभावेन स्थिता देवाः सहेश्वराः । जितास्तदपि सर्वे ते छिद्रदर्शिन एव च ॥ ३८ ॥ तैश्च माया कृता च स्यादीदृशी वाऽसुरोत्तम । अन्यथा ते महामृत्युः कथं भवति मानद ॥ ३९ ॥ नेयमाकाशवाणी भोस्तस्माद्देवान् सहेश्वरान् । हनिष्यामोऽद्य दैत्येश शत्रुहीनास्तदा वयम् ॥ ४० ॥ तेषां वचनमाकर्ण्य मत्सरश्चैव हर्षितः । सत्यमुक्तं भवद्भिर्यद्हंतव्यं विद्विषां वधे ॥ ४१ ॥ मत्सराज्ञां समादाय निःसृता दैत्यपुंगवाः । विचिन्वंति स्म सर्वत्र देवान् सर्वान् प्रयत्नतः ॥ ४२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः ॥

Here is the precise Devanagari transcription of the provided page, preserving the original layout and lineation:

खं. १ अ. ३४ पान ७७ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दैत्या भ्रमणयुक्तास्ते आययुर्युद्धिसन्निधौ । यत्र देवगणैर्युक्तो वक्रतुंडः प्रतापवान् ॥ १ ॥ दृष्ट्वा तं वक्रतुंडं ते भयभीतास्तदाऽभवन् । महाकायं महावीर्यं नरनागस्वरूपिणम् ॥ २ ॥ नानावीरैः परिवृतं प्रलयाग्निसमैः परैः । देवैर्हर्षसमायुक्तैः संस्तुतं भक्तिभावितैः ॥ ३ ॥ मनसा दैत्यपाः सर्वे मेनिरे मृत्युमात्मनः । सत्याकाशभवा वाणी सोऽयं वक्त्राननो भवेत् ॥ ४॥ वक्रतुंड जय त्वं वै जय त्वं जय सर्वदा । देवैः प्रकथ्यते तस्माद्वक्रतुंडोऽय- मागतः ॥ ५॥ यदि युद्धं करिष्यामोऽनेन सार्धं महाद्भुतम् । युद्धे वयं मृताश्चेद्वा वृत्तांतं को निवेदयेत् ॥ ६ ॥ अतो मत्सरदैत्येशं गमिष्यामो जवान्विताः । एवं निश्चययुक्तास्ते मत्सरं जग्मुरादरात् ॥ ७ ॥ स देवो वक्रतुंडस्तु दूरतः पंचयोजनम् । ईर्ष्यापूरं परित्यज्य स्थितः कृत्वा सभां प्रभुः ॥ ८ ॥ दैत्यास्ते मत्सरं गत्वा वृत्तांतं तं न्यवेदयन् । भो राजन् सत्यमेवेदं वचनं खसमुद्भवम् ॥ ९॥ नरकुंजररूपेण दृष्टो वक्त्राननः प्रभुः । देवैः समावृतो भूप विचारं कुरु सर्वथा ॥ १० ॥ तेषां वचनमाकर्ण्य मत्सराश्चितयान्वितः। बभूव म्लानतुंडश्च ज्ञात्वा शत्रुं महाबलम् ॥ ११ ॥ ततः क्रोधसमाविष्टस्तं हंतुं कृतवान् मनः । आज्ञापयत् स दैत्येंद्रान् सज्जिता भो भवंत्विति ॥१२॥ गमिष्यामि रिपुं हंतुं वक्रतुंडं महाबलम् । सदेवं सपरीवारं ततो हृदि सुखं भवेत् ॥ १३ ॥ आज्ञामात्रेण दैत्येशाः सन्नद्धाः समुपाद्ययुः । हर्षेण महता युक्ता देवमर्दन- लालसाः ॥ १४ ॥ चतुरंगं महत्सैन्यं निःसृतं नगराद्बहिः । तन्मध्ये मत्सरो वीरः शुशुभे रथसंगतः ॥ १५ ॥ आगतांस्ते त्वराभाजो वक्रतुंडः स्थितो यतः। तान् दृष्ट्वा देवसंघास्तं शशंसुर्गणनायकम् ॥ १६ ॥ स्वामिन् समागतो दैत्यः स्वयमेव महाप्रभो । यत्करिष्यसि देवस्त्वं त्वरया तत् कुरु प्रभो ॥ १७॥ अस्मान्नोचेच्च दैतेया हनिष्यंति महाबलाः । मरणं प्राप्तमस्माभिः कुत्र स्थातुं न शक्यते ॥ १८ ॥ देवानां वक्रतुंडश्च श्रुत्वा वचनमादरात् । उवाच विस्मितो भूत्वा मा भयं कुरुत प्रियाः ॥ १९ ॥ स दैत्यं मत्सरं देवा हनिष्यामि न संशयः । पश्यंतु कौतुकं युद्धे मदीयं परमाद्भुतम् ॥ २० ॥ इत्युक्त्वा वक्रतुंडः स सिंहारूढोऽभवत्प्रभुः । पाशांकुशकरो गर्जन्मेघनादसमस्वनः ॥ २१ ॥ तस्य शब्देन संत्रस्तं त्रैलोक्यं सचराचरम् । भयभीता दैत्यगणा बभूवुश्च प्रजापते ॥ २२॥ मत्सरो हृदि संत्रस्तो वचनं चेदमब्रवीत् । दृश्यते प्रबला सेना किं भविष्यति दैत्यपाः ॥ २३ ॥ भययुक्तं वचस्तस्य श्रुत्वा तं दैत्यपा जगुः । वयं योत्स्यामहे स्वामिन् पश्य त्वं युद्धजं महः ॥ २४ ॥ इत्युक्त्वा मत्सरं सर्वे प्रह्लादप्रमुखाः सुराः । वक्रतुंडं ययुर्वीरा

खं. १ अ. ३४ पान ७८

नादयंतस्त्रिविष्टपम् ॥ २५॥ बाणवृष्टिं महोग्रां ते चक्रुः क्रोधसमन्विताः । ववर्षुरस्त्रशस्त्राणि वर्षाकाले घना इव ॥ २६ ॥ तैरस्त्रैर्दैत्यराजैश्च हता सेना दिवौकसाम् । देवा विष्णुमुखास्तत्र युयुधुस्तान् समागतान् ॥ २७॥ घोरयुद्धं ततस्तेषां देवासुरविनाशनम् । अभवद्दारुणं क्रूरं द्रष्टुं नैव प्रशक्यते ॥ २८ ॥ देवाश्च दानवाश्चैव युयुधुः शस्त्रपाणयः । मरणे निश्चयं कृत्वा परस्परजयेप्सवः ॥ २९ ॥ केचिद्वाणमयीं वृष्टिं चक्रुः शक्तीस्तु केचन । चिक्षिपुर्भिदिपालांश्च खङ्गैर्वै चिच्छिदुः परे ॥ ३० ॥ बबंधुरपरे पाशैर्मल्लैर्वा विव्यधुः परे । गदायुद्धं महाघोरं चक्रिरे वीरसत्तमाः ॥ ३१॥ मुद्गरैश्च महावीरा मारयामासुरोजसा । मल्लयुद्धं परे चक्रुर्नादयंतो दिशो दश ॥ ३२॥ सैन्यस्य रजसा सर्वं व्याप्तमासीद् दिगन्तरम् । नाभूत् स्वपरबोधोऽपि पुरोगान् जघ्निरे तदा ॥ ३३ ॥ शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसंचयम् । बाणैर्बाणान् समारुष्टा- श्चिच्छिदुस्ते परस्परम् ॥ ३४ ॥ शस्त्रे भग्ने च ते वीरा मल्लयुद्धं सुदारुणम् । चक्रिरे क्रोधसंयुक्ता मंडलानि प्रबभ्रमुः ॥ ३५॥ हस्तेन हस्तमापीड्य पादैः पादान् प्रगृह्य च । कूर्परं कूर्परेणैव मर्दयामासुरोजसा ॥ ३६ ॥ मस्तकं मस्तकेनैव जानुभ्यां जानुनी तथा । ललाटेन ललाटं च स्फालयामासुरंजसा ॥ ३७ ॥ एवं युद्धे प्रवृत्ते वै मृताः कैचित्तु मूर्च्छिताः । भग्नाः केऽपि क्षता अन्ये नानाशास्त्रप्रहारतः ॥३८॥ शोणितौघवहा घोरा नदी जाता दुरत्यया । रक्तेन सर्वतस्तत्र रेणवो मज्जितास्ततः ॥ ३९ ॥ तेन प्रकाशितास्तत्र दिशः स्वपरबोधिकाः । ततोऽभूत्तुमुलं युद्धं यथायोग्यं प्रजापते ॥ ४० ॥ रथिनो रथिभिः सार्धं गजिनो गजिभिस्तथा । अश्वारूढा ह्यारूढैः पदाताश्च पदातिभिः ॥४१॥ श्रेष्ठा युयुधिरे श्रेष्ठैर्महाबलसमन्वितैः । प्रबोध्य जघ्निरे केचिद्वीराः समरशालिनः ॥ ४२ ॥ परस्परमभिंदंस्ते शस्त्रास्त्रैर्मर्मभेदिभिः । सर्वे शुशुभिरे चैव पुष्पिताः किंशुका इव ॥ ४३ ॥ कदाचिज्जयिनो देवाः कदाचिद्दानवास्तथा । न रात्रौ विश्रमं चक्रुः क्रोधयुक्ताः परस्परम् ॥ ४४ ॥ एवं पंचदिनं युद्धमभवत्तत्र दारुणम् । न जयं प्राप्नुयुर्देवा दैत्याश्चाऽपि प्रजापते ॥ ४५ ॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते देवासुरयुद्धप्रसंगो नाम चतुस्त्रिंशोऽध्यायः ॥

शीर्षक (Header): खं. १ अ. ३५ | पान ७९


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं परस्परं घोरं युद्धं कृत्वा महाबलाः । न जयं प्राप्नुवंति स्म कर्म चैव यथासुरम् ॥ १ ॥ तं दृष्ट्वा परमाश्चर्यं प्रह्लादः कुपितोऽभवत् । धनुः सज्जं महाघोरं कृत्वा बाणान् समाददे ॥ २ ॥ मंत्रयन्नलास्त्रेण चिक्षेप स शरान् बहून् । तेभ्यो जातो महानग्निः प्रलयनलसंनिभः ॥ ३ ॥ ददाह देवसेनां स प्रह्लादोऽसुरसत्तमः । भयभीताः सुराः सर्वे जज्वलुरच समंततः ॥ ४ ॥ हाहाकारं प्रकुर्वंतो दग्धास्ते जातवेदसा । मर्यादां रणभूमिं च तथा त्यक्त्वा पलायिताः ॥ ५ ॥ महाग्निः सर्वतस्तान् वै सुरान् वाहनसंयुतान् । प्रबलो दाहयामास प्रह्लादेन प्रचोदितः ॥ ६ ॥ तेन दैत्यगणाः सर्वे हर्षयुक्ता बभूविरे । प्रह्लादं पूजयंतस्ते साधु साधु कृतं त्वया ॥ ७ ॥ सर्वान् पलायमानान् स सुरान् दृष्ट्वा पुरंदरः । मेघास्त्रं योजयामास धनुषि क्रोधसंयुतः ॥ ८ ॥ एतस्मिन्नंतरे तत्र प्रह्लादः समुपागतः । खड्गेन सहसेंद्रस्य धनुश्चिच्छेद लाघवात् ॥ ९ ॥ तत इंद्रः प्रकोपेन वज्रं तत्याज तं प्रति । वज्रेण निहतो भूमौ प्रह्लादः स पपात ह ॥ १० ॥ पतितं तं तथा दृष्ट्वा महिषासुर आगतः । गदया देवराजं तं जघान खलु मस्तके ॥ ११ ॥ गदया निहतः सोऽपि पपात रणमूर्धनि । मघवा मूर्च्छितोऽत्यंतं मुखाद्रक्तं समुद्वमन् ॥ १२ ॥ ततोऽग्निः परमक्रुद्धो जज्वल ज्वालयासुरम् । महिषो जलरूपोऽभूत् प्लावयामास तं क्षणात् ॥ १३ ॥ निस्तेजाश्रितया युक्ताः शक्तिं चिक्षेप पावकः। तां खड्गेन महादैत्यः पातयामास भूतले ॥१४॥ ततो महिषरूपेण शृंगाभ्यां दहनं पुनः। चकार मूर्च्छितं क्रुद्धः पपात महसां निधिः ॥ १५ ॥ ततो ययौ यमस्तं वै दंडघातेन सोऽहनत् । जग्रे संमूर्च्छितं दैत्यं महिषं भयदायकम् ॥ १६ ॥ एतस्मिन्नंतरे तत्र प्रतापी च विरोचनः । खड्गेन तं जघानाशु यमं सर्वभयंकरम् ॥ १७ ॥ पपात खड्गाघातेन यमो यमवतां प्रभुः। वरुणस्तं बबंधापि पाशेन च विरोचनम् ॥ १८ ॥ ततस्तं मोचयामास पाशं छित्वा महाबलः । अंधकः खड्गाघातेन गदया वरुणं तथा ॥ १९ ॥ मूर्च्छितं च चकाराऽभूदुत्थितः स विरोचनः । ततो वायुः कुबेरश्च तावुभौ क्रोधमूर्च्छितौ ॥ २० ॥ वायुना खड्गाघातेन मूर्च्छितस्त्वमितौजसा। अंधकासुरनामाऽसौ पपात धरणीतले ॥ २१ ॥ शांबरेण हतो वायुर्मुसलेन महाबलः । स पपात तदा भूमौ देवः सर्वधरोऽपि सन् ॥ २२ ॥ विरोचनेन बाणौघैस्ताडितो धनरक्षकः। मर्मभेदिभिरत्युग्रैः पपाताऽसौ महाबलः ॥ २३ ॥ एतस्मिन्नंतरे तत्र विष्णुः स्वयमुपागतः। गदया तं जघानैव विरोचनमथो रिपुम् ॥ २४ ॥ भिन्नोरसं च दैत्येशं मृततुल्यं चकार ह। अधंकं चक्रघातेन पातयामास केशवः ॥ २५ ॥