मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 74, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ३२ पान ७४ पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥३६॥ जलजंतुस्वरूपाय सर्परूपाय ते नमः। वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ ३७ ॥ चराचरमयायैव नमो नानाप्रभेदिने । कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ ३८ ॥ ज्ञानयोगाय देवाय स्वात्मरूपधराय ते। स्वसंवेद्यस्वरूपाय सदा योगमयाय ते॥३९॥ नानाधारप्रधाराय शब्दब्रह्ममयाय ते। मायारूपाय मायायै मायाहीनाय ते नमः ॥ ४० ॥ मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः । स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ ४१ ॥ भेदाभेदमयायैवानंतपाराय ते नमः । भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ ४२ ॥ नमो नमः परेशायोव्ययाय च नमो नमः । गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ ४३ ॥ यं स्तोतुं न समर्थाश्च वेदाः सांगाश्च योगिनः । तं किं स्तुमो गणेशानं वक्रतुंडस्वरूपिणम् ॥ ४४ ॥ मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् । ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ ४५ ॥ माया च ब्रह्मतुंडं यद् द्वयोर्योगे भवेत्परम् । योगशांतिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ ४६ ॥ मायादेहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम् । उभयोर्योगभावे त्वं वक्रतुंडः प्रकथ्यते ॥ ४७ ॥ तं वक्रतुंडं पश्यामः साक्षाद् योगमयं परम्। धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ ४८ ॥ धन्यं जन्म त्वक्षि धन्यं धन्याः संपद एव च। ज्ञानं धन्यं तपश्चैव येन दृष्टो गजाननः ॥ ४९ ॥ प्रसन्नो यदि देवेश यदि देयो वरः शुभः। तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः॥ ५० ॥ प्रार्थयामो वरं चैतं यतस्त्वं चिंतितार्थदः । मत्सरासुरनाशं च वक्रतुंड कुरु प्रभो ॥ ५१ ॥ जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप ॥ सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ ५२ ॥ स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः। तानुत्थाप्य स्वयं साक्षाद्वक्रतुंड उवाच ह ॥ ५३ ॥ वक्रतुंड उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् । भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ ५४ ॥ मत्सरासुरनाशं च करिष्यामि सुरर्षयः । भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ ५५ ॥ पंचभूतमयं सर्वं त्रिगुणं जगदुच्यते । अष्टावरणसंयुक्तं ब्रह्मांडं हि सुरर्षयः ॥ ५६ ॥ अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः । नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ ५७ ॥ अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् । तथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ ५८ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥