भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. १ अ. ३२ पान ७४ पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥३६॥ जलजंतुस्वरूपाय सर्परूपाय ते नमः। वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ ३७ ॥ चराचरमयायैव नमो नानाप्रभेदिने । कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ ३८ ॥ ज्ञानयोगाय देवाय स्वात्मरूपधराय ते। स्वसंवेद्यस्वरूपाय सदा योगमयाय ते॥३९॥ नानाधारप्रधाराय शब्दब्रह्ममयाय ते। मायारूपाय मायायै मायाहीनाय ते नमः ॥ ४० ॥ मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः । स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ ४१ ॥ भेदाभेदमयायैवानंतपाराय ते नमः । भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ ४२ ॥ नमो नमः परेशायोव्ययाय च नमो नमः । गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ ४३ ॥ यं स्तोतुं न समर्थाश्च वेदाः सांगाश्च योगिनः । तं किं स्तुमो गणेशानं वक्रतुंडस्वरूपिणम् ॥ ४४ ॥ मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् । ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ ४५ ॥ माया च ब्रह्मतुंडं यद् द्वयोर्योगे भवेत्परम् । योगशांतिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ ४६ ॥ मायादेहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम् । उभयोर्योगभावे त्वं वक्रतुंडः प्रकथ्यते ॥ ४७ ॥ तं वक्रतुंडं पश्यामः साक्षाद् योगमयं परम्। धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ ४८ ॥ धन्यं जन्म त्वक्षि धन्यं धन्याः संपद एव च। ज्ञानं धन्यं तपश्चैव येन दृष्टो गजाननः ॥ ४९ ॥ प्रसन्नो यदि देवेश यदि देयो वरः शुभः। तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः॥ ५० ॥ प्रार्थयामो वरं चैतं यतस्त्वं चिंतितार्थदः । मत्सरासुरनाशं च वक्रतुंड कुरु प्रभो ॥ ५१ ॥ जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप ॥ सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ ५२ ॥ स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः। तानुत्थाप्य स्वयं साक्षाद्वक्रतुंड उवाच ह ॥ ५३ ॥ वक्रतुंड उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् । भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ ५४ ॥ मत्सरासुरनाशं च करिष्यामि सुरर्षयः । भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ ५५ ॥ पंचभूतमयं सर्वं त्रिगुणं जगदुच्यते । अष्टावरणसंयुक्तं ब्रह्मांडं हि सुरर्षयः ॥ ५६ ॥ अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः । नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ ५७ ॥ अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् । तथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ ५८ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥

[Header] खं. १ अ. ३३ | पान ७५

[Text] ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। एवमुक्त्वा सुरान् विप्रान् सस्मार बलमुत्कटम् । तस्य स्मरणमात्रेण प्रादुर्भूता गणाः प्रभोः॥ १॥ प्रमोदामोदकाद्याश्च वक्रतुंडा गजाननाः। चतुर्बाहुधराः सर्वे नानाशास्त्रास्त्रपाणयः॥ २॥ केचित् सिंहसमारूढाः केचिन्मूषकवाहनाः। केचिन्मयूरमारूढाः शेषारूढास्तथापरे॥ ३॥ अश्वा रूढास्तथान्ये च मुकुटैः सुविराजिताः। कटकैः कुंडलैश्चैव नानाभूषणराजिताः॥ ४॥ भयंकराश्च शत्रूणां भक्तेभ्यः सुखदायकाः। महात्मानो महाशब्दा ब्रह्मांडस्फोटकारकाः॥ ५॥ नानाक्रीडासमायुक्ताः सदा स्वानंदभाविताः। गणेशनाममाहात्म्यं कथयंतः परस्परम् ॥ ६॥ वक्रतुंडं नमस्कृत्य स्थिताः प्रांजलयोऽभवन्। आज्ञां कुरु गणाध्यक्ष करवामस्तवेप्सितम् ॥ ७॥ अस्माकं स्मरणं देव किमर्थं कृतमादरात्। दासान् त्वदीयपादस्य करिष्यामोऽखिलान् जनान्॥ ८॥ तेषां वचनमाकर्ण्य वक्रतुंडः प्रतापवान्। उवाच तान् महाभागान् मेघगंभीरनिस्वनः॥ ९॥ वक्रतुंड उवाच। शृणुध्वं मोदकाद्याश्च मत्सरासुरदैत्यपम्। हनिष्यामि महावीर्यं तेन युद्धं भविष्यति॥ १०॥ अधुना दारुणं तत्र मया सह महाबलाः। एतदर्थं विशेषेण स्मरणं भवतां कृतम् ॥ ११॥ वक्रतुंडवचः श्रुत्वा सर्वे हर्षसमन्विताः। गणा ऊचुः प्रणम्यैनं निबद्धकरसंपुटाः॥ १२॥ गणा ऊचुः। स्वामिन् वदसि यत्सर्वं तदाश्चर्यमयं बहु। मत्सरासुरनाशश्च एकेन क्रियतेऽधुना ॥ १३॥ त्वत्प्रसादात् सदा सर्वं सुलभं नो गणाधिप। आज्ञां कुरु महाभाग पश्य चैकस्य पौरुषम् ॥ १४॥ गणानां तद्वचो रम्यं श्रुत्वा प्राह गणाधिपः। वक्रतुंडः प्रसन्नात्मा हर्षयन् सकलानिव॥ १५॥ वक्रतुंड उवाच। भवद्भिः कथितं सर्वं तत्तथा न तदन्यथा। क्रीडार्थं निर्मितो दैत्यो मया मायाप्रभावतः॥ १६॥ यदि क्षणेन तं दैत्यं नाशयामि प्रभावतः। तदा क्रीडा कथं देवा मया प्रक्रियते परा॥ १७॥ अतस्तेन महाभागा युध्यध्वं मम सन्निधौ। अष्टावरणहीनेन हन्मि रूपेण तं क्षणात्॥ १८॥ इति तस्य वचः श्रुत्वा गणा हर्षसमन्विताः। जगर्जुर्नादयंतस्ते दिशो विदिश एव च॥ १९॥ तद् दृष्ट्वा परमाश्चर्यं विस्मितास्ते सुरर्षयः। हर्षेण महता युक्ता मेनिरे मत्सरं हतम् ॥ २०॥ ततः सर्वान् समादाय गणान् देवान् मुनीनपि। वक्रतुंडो ययौ तां च पुरीमीर्ष्याह्वयां पराम्॥ २१॥ यत्र राज्यं च कुरुते मत्सरः स प्रतापवान्। ब्रह्मांडस्य महावीरो नानाभोगसमन्वितः॥ २२॥ देवांगनापरिवृतः सदा तिष्ठति दैत्यपः। मद्यादिपानसंयुक्तो नानावीरप्रपालितः॥ २३॥ यद्यन्मनसि तेनापि चिंतितं सफलं सदा। तत्तद्भवति

सर्वं स्म तपसा वरदानतः ॥ २४॥ न बुबोध गतं कालं कालेनेव च वंचितः। धन्योऽहंमन्यमानो न मत्समो मानसेऽपरः ॥ २५ ॥ एकस्मिन् दिवसे तत्र सभायां संस्थितोऽभवत् । वीरैः परिवृतो नाना नृत्यं पश्यन् विनोदतः ॥ २६ ॥ तत्राकाशात्तदा वाणी बभूव भयदायिका । आगतो मत्सरं हंतुं वक्रतुंडो महाबलः ॥ २७ ॥ श्रुत्वाऽऽकाशभवां वाणीं मूर्च्छितो मत्सरासुरः । पतितः शुष्ककंठश्च कंपमानांगविह्वलः ॥ २८ ॥ तं तथा पतितं दृष्ट्वाऽसुराः सर्वे भयातुराः । केनोक्तं परुषं वाक्यं हन्मस्तं त्वद्य निश्चितम् ॥ २९॥ ततः केचिन्नभोमार्गे बभ्रमुर्यत्र तत्र ते । ददृशुस्तं न तत्रापि सभायां पुनराययुः ॥ ३० ॥ सर्वैः कृतः स दैत्येशः सावधानो यथा पुरा । उपविष्टः सभामध्ये हृदयेन विदूयता ॥ ३१ ॥ उवाच हि स्वतो वाचं मत्सरो भयविह्वलः । वचनं किमिदं सत्यमनृतं वा भविष्यति ॥ ३२ ॥ कालस्य कालरूपोऽहं मम मृत्युः कथं भवेत् । असत्या नभसो वाणी न ज्ञाता न श्रुताऽपि च ॥ ३३ ॥ अष्टावरणसंयुक्तं ब्रह्मांडं सर्वमंजसा । अष्टावरणयुक्तेभ्यो मम मृत्युर्न जायते ॥ ३४ ॥ कोऽसौ वक्त्राननो जंतुः कथितः कुत्र वर्तते । तं हनिष्यामि दृश्यश्चेत् क्षणमात्रान्न संशयः ॥ ३५ ॥ इति श्रुत्वा वचस्तस्य मत्सरस्य दुरात्मनः । ऊचुः प्रह्लादमुख्यास्तं विनयेन समन्विताः ॥ ३६ ॥ प्रल्हादादय ऊचुः । मा कुरुष्व महाभाग चिंतां शत्रुनिषूदन । तव मृत्युः कथं भावी पश्चात् सूर्योदयः कथम् ॥ ३७ ॥ अस्माकं शत्रुभावेन स्थिता देवाः सहेश्वराः । जितास्तदपि सर्वे ते छिद्रदर्शिन एव च ॥ ३८ ॥ तैश्च माया कृता च स्यादीदृशी वाऽसुरोत्तम । अन्यथा ते महामृत्युः कथं भवति मानद ॥ ३९ ॥ नेयमाकाशवाणी भोस्तस्माद्देवान् सहेश्वरान् । हनिष्यामोऽद्य दैत्येश शत्रुहीनास्तदा वयम् ॥ ४० ॥ तेषां वचनमाकर्ण्य मत्सरश्चैव हर्षितः । सत्यमुक्तं भवद्भिर्यद्हंतव्यं विद्विषां वधे ॥ ४१ ॥ मत्सराज्ञां समादाय निःसृता दैत्यपुंगवाः । विचिन्वंति स्म सर्वत्र देवान् सर्वान् प्रयत्नतः ॥ ४२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः ॥

Here is the precise Devanagari transcription of the provided page, preserving the original layout and lineation:

खं. १ अ. ३४ पान ७७ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दैत्या भ्रमणयुक्तास्ते आययुर्युद्धिसन्निधौ । यत्र देवगणैर्युक्तो वक्रतुंडः प्रतापवान् ॥ १ ॥ दृष्ट्वा तं वक्रतुंडं ते भयभीतास्तदाऽभवन् । महाकायं महावीर्यं नरनागस्वरूपिणम् ॥ २ ॥ नानावीरैः परिवृतं प्रलयाग्निसमैः परैः । देवैर्हर्षसमायुक्तैः संस्तुतं भक्तिभावितैः ॥ ३ ॥ मनसा दैत्यपाः सर्वे मेनिरे मृत्युमात्मनः । सत्याकाशभवा वाणी सोऽयं वक्त्राननो भवेत् ॥ ४॥ वक्रतुंड जय त्वं वै जय त्वं जय सर्वदा । देवैः प्रकथ्यते तस्माद्वक्रतुंडोऽय- मागतः ॥ ५॥ यदि युद्धं करिष्यामोऽनेन सार्धं महाद्भुतम् । युद्धे वयं मृताश्चेद्वा वृत्तांतं को निवेदयेत् ॥ ६ ॥ अतो मत्सरदैत्येशं गमिष्यामो जवान्विताः । एवं निश्चययुक्तास्ते मत्सरं जग्मुरादरात् ॥ ७ ॥ स देवो वक्रतुंडस्तु दूरतः पंचयोजनम् । ईर्ष्यापूरं परित्यज्य स्थितः कृत्वा सभां प्रभुः ॥ ८ ॥ दैत्यास्ते मत्सरं गत्वा वृत्तांतं तं न्यवेदयन् । भो राजन् सत्यमेवेदं वचनं खसमुद्भवम् ॥ ९॥ नरकुंजररूपेण दृष्टो वक्त्राननः प्रभुः । देवैः समावृतो भूप विचारं कुरु सर्वथा ॥ १० ॥ तेषां वचनमाकर्ण्य मत्सराश्चितयान्वितः। बभूव म्लानतुंडश्च ज्ञात्वा शत्रुं महाबलम् ॥ ११ ॥ ततः क्रोधसमाविष्टस्तं हंतुं कृतवान् मनः । आज्ञापयत् स दैत्येंद्रान् सज्जिता भो भवंत्विति ॥१२॥ गमिष्यामि रिपुं हंतुं वक्रतुंडं महाबलम् । सदेवं सपरीवारं ततो हृदि सुखं भवेत् ॥ १३ ॥ आज्ञामात्रेण दैत्येशाः सन्नद्धाः समुपाद्ययुः । हर्षेण महता युक्ता देवमर्दन- लालसाः ॥ १४ ॥ चतुरंगं महत्सैन्यं निःसृतं नगराद्बहिः । तन्मध्ये मत्सरो वीरः शुशुभे रथसंगतः ॥ १५ ॥ आगतांस्ते त्वराभाजो वक्रतुंडः स्थितो यतः। तान् दृष्ट्वा देवसंघास्तं शशंसुर्गणनायकम् ॥ १६ ॥ स्वामिन् समागतो दैत्यः स्वयमेव महाप्रभो । यत्करिष्यसि देवस्त्वं त्वरया तत् कुरु प्रभो ॥ १७॥ अस्मान्नोचेच्च दैतेया हनिष्यंति महाबलाः । मरणं प्राप्तमस्माभिः कुत्र स्थातुं न शक्यते ॥ १८ ॥ देवानां वक्रतुंडश्च श्रुत्वा वचनमादरात् । उवाच विस्मितो भूत्वा मा भयं कुरुत प्रियाः ॥ १९ ॥ स दैत्यं मत्सरं देवा हनिष्यामि न संशयः । पश्यंतु कौतुकं युद्धे मदीयं परमाद्भुतम् ॥ २० ॥ इत्युक्त्वा वक्रतुंडः स सिंहारूढोऽभवत्प्रभुः । पाशांकुशकरो गर्जन्मेघनादसमस्वनः ॥ २१ ॥ तस्य शब्देन संत्रस्तं त्रैलोक्यं सचराचरम् । भयभीता दैत्यगणा बभूवुश्च प्रजापते ॥ २२॥ मत्सरो हृदि संत्रस्तो वचनं चेदमब्रवीत् । दृश्यते प्रबला सेना किं भविष्यति दैत्यपाः ॥ २३ ॥ भययुक्तं वचस्तस्य श्रुत्वा तं दैत्यपा जगुः । वयं योत्स्यामहे स्वामिन् पश्य त्वं युद्धजं महः ॥ २४ ॥ इत्युक्त्वा मत्सरं सर्वे प्रह्लादप्रमुखाः सुराः । वक्रतुंडं ययुर्वीरा

खं. १ अ. ३४ पान ७८

नादयंतस्त्रिविष्टपम् ॥ २५॥ बाणवृष्टिं महोग्रां ते चक्रुः क्रोधसमन्विताः । ववर्षुरस्त्रशस्त्राणि वर्षाकाले घना इव ॥ २६ ॥ तैरस्त्रैर्दैत्यराजैश्च हता सेना दिवौकसाम् । देवा विष्णुमुखास्तत्र युयुधुस्तान् समागतान् ॥ २७॥ घोरयुद्धं ततस्तेषां देवासुरविनाशनम् । अभवद्दारुणं क्रूरं द्रष्टुं नैव प्रशक्यते ॥ २८ ॥ देवाश्च दानवाश्चैव युयुधुः शस्त्रपाणयः । मरणे निश्चयं कृत्वा परस्परजयेप्सवः ॥ २९ ॥ केचिद्वाणमयीं वृष्टिं चक्रुः शक्तीस्तु केचन । चिक्षिपुर्भिदिपालांश्च खङ्गैर्वै चिच्छिदुः परे ॥ ३० ॥ बबंधुरपरे पाशैर्मल्लैर्वा विव्यधुः परे । गदायुद्धं महाघोरं चक्रिरे वीरसत्तमाः ॥ ३१॥ मुद्गरैश्च महावीरा मारयामासुरोजसा । मल्लयुद्धं परे चक्रुर्नादयंतो दिशो दश ॥ ३२॥ सैन्यस्य रजसा सर्वं व्याप्तमासीद् दिगन्तरम् । नाभूत् स्वपरबोधोऽपि पुरोगान् जघ्निरे तदा ॥ ३३ ॥ शस्त्रैः शस्त्राणि संवार्य तथास्त्रैरस्त्रसंचयम् । बाणैर्बाणान् समारुष्टा- श्चिच्छिदुस्ते परस्परम् ॥ ३४ ॥ शस्त्रे भग्ने च ते वीरा मल्लयुद्धं सुदारुणम् । चक्रिरे क्रोधसंयुक्ता मंडलानि प्रबभ्रमुः ॥ ३५॥ हस्तेन हस्तमापीड्य पादैः पादान् प्रगृह्य च । कूर्परं कूर्परेणैव मर्दयामासुरोजसा ॥ ३६ ॥ मस्तकं मस्तकेनैव जानुभ्यां जानुनी तथा । ललाटेन ललाटं च स्फालयामासुरंजसा ॥ ३७ ॥ एवं युद्धे प्रवृत्ते वै मृताः कैचित्तु मूर्च्छिताः । भग्नाः केऽपि क्षता अन्ये नानाशास्त्रप्रहारतः ॥३८॥ शोणितौघवहा घोरा नदी जाता दुरत्यया । रक्तेन सर्वतस्तत्र रेणवो मज्जितास्ततः ॥ ३९ ॥ तेन प्रकाशितास्तत्र दिशः स्वपरबोधिकाः । ततोऽभूत्तुमुलं युद्धं यथायोग्यं प्रजापते ॥ ४० ॥ रथिनो रथिभिः सार्धं गजिनो गजिभिस्तथा । अश्वारूढा ह्यारूढैः पदाताश्च पदातिभिः ॥४१॥ श्रेष्ठा युयुधिरे श्रेष्ठैर्महाबलसमन्वितैः । प्रबोध्य जघ्निरे केचिद्वीराः समरशालिनः ॥ ४२ ॥ परस्परमभिंदंस्ते शस्त्रास्त्रैर्मर्मभेदिभिः । सर्वे शुशुभिरे चैव पुष्पिताः किंशुका इव ॥ ४३ ॥ कदाचिज्जयिनो देवाः कदाचिद्दानवास्तथा । न रात्रौ विश्रमं चक्रुः क्रोधयुक्ताः परस्परम् ॥ ४४ ॥ एवं पंचदिनं युद्धमभवत्तत्र दारुणम् । न जयं प्राप्नुयुर्देवा दैत्याश्चाऽपि प्रजापते ॥ ४५ ॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते देवासुरयुद्धप्रसंगो नाम चतुस्त्रिंशोऽध्यायः ॥

शीर्षक (Header): खं. १ अ. ३५ | पान ७९


॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं परस्परं घोरं युद्धं कृत्वा महाबलाः । न जयं प्राप्नुवंति स्म कर्म चैव यथासुरम् ॥ १ ॥ तं दृष्ट्वा परमाश्चर्यं प्रह्लादः कुपितोऽभवत् । धनुः सज्जं महाघोरं कृत्वा बाणान् समाददे ॥ २ ॥ मंत्रयन्नलास्त्रेण चिक्षेप स शरान् बहून् । तेभ्यो जातो महानग्निः प्रलयनलसंनिभः ॥ ३ ॥ ददाह देवसेनां स प्रह्लादोऽसुरसत्तमः । भयभीताः सुराः सर्वे जज्वलुरच समंततः ॥ ४ ॥ हाहाकारं प्रकुर्वंतो दग्धास्ते जातवेदसा । मर्यादां रणभूमिं च तथा त्यक्त्वा पलायिताः ॥ ५ ॥ महाग्निः सर्वतस्तान् वै सुरान् वाहनसंयुतान् । प्रबलो दाहयामास प्रह्लादेन प्रचोदितः ॥ ६ ॥ तेन दैत्यगणाः सर्वे हर्षयुक्ता बभूविरे । प्रह्लादं पूजयंतस्ते साधु साधु कृतं त्वया ॥ ७ ॥ सर्वान् पलायमानान् स सुरान् दृष्ट्वा पुरंदरः । मेघास्त्रं योजयामास धनुषि क्रोधसंयुतः ॥ ८ ॥ एतस्मिन्नंतरे तत्र प्रह्लादः समुपागतः । खड्गेन सहसेंद्रस्य धनुश्चिच्छेद लाघवात् ॥ ९ ॥ तत इंद्रः प्रकोपेन वज्रं तत्याज तं प्रति । वज्रेण निहतो भूमौ प्रह्लादः स पपात ह ॥ १० ॥ पतितं तं तथा दृष्ट्वा महिषासुर आगतः । गदया देवराजं तं जघान खलु मस्तके ॥ ११ ॥ गदया निहतः सोऽपि पपात रणमूर्धनि । मघवा मूर्च्छितोऽत्यंतं मुखाद्रक्तं समुद्वमन् ॥ १२ ॥ ततोऽग्निः परमक्रुद्धो जज्वल ज्वालयासुरम् । महिषो जलरूपोऽभूत् प्लावयामास तं क्षणात् ॥ १३ ॥ निस्तेजाश्रितया युक्ताः शक्तिं चिक्षेप पावकः। तां खड्गेन महादैत्यः पातयामास भूतले ॥१४॥ ततो महिषरूपेण शृंगाभ्यां दहनं पुनः। चकार मूर्च्छितं क्रुद्धः पपात महसां निधिः ॥ १५ ॥ ततो ययौ यमस्तं वै दंडघातेन सोऽहनत् । जग्रे संमूर्च्छितं दैत्यं महिषं भयदायकम् ॥ १६ ॥ एतस्मिन्नंतरे तत्र प्रतापी च विरोचनः । खड्गेन तं जघानाशु यमं सर्वभयंकरम् ॥ १७ ॥ पपात खड्गाघातेन यमो यमवतां प्रभुः। वरुणस्तं बबंधापि पाशेन च विरोचनम् ॥ १८ ॥ ततस्तं मोचयामास पाशं छित्वा महाबलः । अंधकः खड्गाघातेन गदया वरुणं तथा ॥ १९ ॥ मूर्च्छितं च चकाराऽभूदुत्थितः स विरोचनः । ततो वायुः कुबेरश्च तावुभौ क्रोधमूर्च्छितौ ॥ २० ॥ वायुना खड्गाघातेन मूर्च्छितस्त्वमितौजसा। अंधकासुरनामाऽसौ पपात धरणीतले ॥ २१ ॥ शांबरेण हतो वायुर्मुसलेन महाबलः । स पपात तदा भूमौ देवः सर्वधरोऽपि सन् ॥ २२ ॥ विरोचनेन बाणौघैस्ताडितो धनरक्षकः। मर्मभेदिभिरत्युग्रैः पपाताऽसौ महाबलः ॥ २३ ॥ एतस्मिन्नंतरे तत्र विष्णुः स्वयमुपागतः। गदया तं जघानैव विरोचनमथो रिपुम् ॥ २४ ॥ भिन्नोरसं च दैत्येशं मृततुल्यं चकार ह। अधंकं चक्रघातेन पातयामास केशवः ॥ २५ ॥

खं. १ अ. ३५ पान ८० शंबरं बाणजालैः संपातयामास भूतले । कुपितो माधवस्तत्र चक्रं तत्याज दारुणम् ॥ २६ ॥ चक्रेण क्षुरधारेण हता दैत्याः सहस्रशः । गदया मूर्च्छिताः केचिन् मुख्या ये तत्र संस्थिताः ॥ २७ ॥ एतस्मिन् समरे वीरः प्रह्लादः संबभूव ह । सावधानो महाभागस्तं ययौ क्रोधदीपितः ॥ २८ ॥ बाणवृष्टिं चकाराऽसौ महोग्रां देवनाशिनीम् । तया तांश्छिन्नभिन्नांगान् देवां- श्चक्रे धरातले ॥ २९ ॥ गदया देवदेवेशं केशवं युयुधे भृशम् । खड्गेन मूर्च्छितं चक्रे गरुडं दैत्यनायकः ॥ ३० ॥ ततश्च कुपितो विष्णुस्तं हंतुं चक्रमाददे । बहुधा भ्रामयामास तत्याज ह्यस्त्रमुत्तमम् ॥ ३१ ॥ तन्मस्तकानि दैत्यानां चक्रं चिच्छेद सर्वतः । बाहूदरभुजांश्चैव चकार शकलीकृतान् ॥ ३२ ॥ सहसाऽसुरराजं च प्रह्लादं हंतुमाययौ । चक्रं तेजोमयं दिव्यं समीपे ज्वलनप्रभम् ॥ ३३ ॥ प्रह्लादस्त्वरयास्त्रं च महाधनुषि संदधे । नारायणात्मकं चैव हृदि स्मृत्वा जनार्दनम् ॥ ३४ ॥ मुमोच तन् महास्त्रं वै तेजोरूपममोघकम् । अनिवार्यं जगद्भस्मकारकं कुपितः परः ॥ ३५ ॥ नारायणास्त्रवेगेन चक्रं प्रतिहतं ततः । देवान् सर्वान् ददाहापि महास्त्रं सर्वतः परम् ॥ ३६ ॥ हृदये सहसागत्य पतितं केशवस्य तत् । मूर्च्छितं मृततुल्यं तं चकार च जनार्दनम् ॥ ३७ ॥ ततो मद्युता दैत्या जगर्जुर्हर्षसंयुताः । प्रशंसुर्महाभागं प्रह्लादं तेजसान्वितम् ॥ ३८ ॥ नारायणास्त्रसंदग्धान् देवर्षीन् वीक्ष्य शंकरः । क्षुभितो देवरक्षार्थं पिनाकं स्वकरे दधौ ॥ ३९ ॥ महास्त्रं तत् पाशुपतं संदधे क्रोधसंयुतः । बलेन मोचयामास त्वरावान् शंकरोऽभवन् ॥ ४० ॥ महास्त्रं वै पाशुपतं तथा नारायणात्मकम् । उभे अस्त्रे संयुगे ते युयुधाते विहायसि ॥ ४१ ॥ देवा मुनिगणास्तत्र हर्षयुक्ता बभूविरे । प्रशंसुर्महादेवं देवदेवं च शंकरम् ॥ ४२ ॥ ततः पशुपतिः क्रुद्धस्त्रिशूलं संदधे मुने । तत्याज दैत्यसेनायां कुर्वाणं प्रलयं परम् ॥ ४३ ॥ त्रिशूलं च करोति स्म मृतान् दैत्यान् सहस्रशः । प्रह्लादहृदयेकस्मात् पपात यमसन्निभम् ॥ ४४ ॥ तेनाऽसौ पतितो भूमौ वाताहत इव द्रुमः । दैत्यसैन्ये महानासीत्तदा कोलाहलः परः ॥ ४५ ॥ ततस्त्रिशूलवेगेन शितेन सहसाऽसुराः । मूर्च्छिताश्च कृताः केचित् केचिद्वै मारिता मुने ॥ ४६ ॥ सर्वेऽसुरगणास्तत्र पतिता रणमूर्धनि । ततो मत्सरपुत्रौ द्वौ शंकरं जग्मतुः प्रभो ॥ ४७ ॥ सुंदर- प्रियनामा च विषयप्रिय एव यः । ऊचतुः शंकरं तत्र क्रोधयुक्तौ महासुरौ ॥ ४८ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते शिवविजयो नाम पंचत्रिंशोऽध्यायः ॥

शीर्षक: खं. १ अ. ३६ | पान ८१


॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । वद ब्रह्मन्विशेषेण मम हर्षकरीं कथाम् । विस्तरेण महाभाग वक्रतुंडप्रभावजाम् ॥ १ ॥ मुद्गल उवाच । न शक्यतेऽग्निपुत्रेण विस्तरेण पिनाकिना । शेषेण विधिना वक्तुं संक्षेपेण ब्रवीम्यतः ॥ २॥ दक्ष उवाच । किमुक्तं दैत्यपुत्राभ्यां शंकरेण श्रुतं वद । श्रुत्वा तत् किं कृतं तेन महादेवेन मानद ॥ ३॥ दैत्याभ्यां किं कृतं तत्र तद्वद त्वं विशेषतः । श्रुत्वा त्वद्वदनांभोजात् कथां तृप्याम्यहं न च ॥ ४॥ सूत उवाच । एवमादरमाज्ञाय दक्षस्य प्रयतात्मनः । मुद्गलस्त- मुवाचाथ हर्षयुक्तः स शौनक ॥ ५ ॥ मुद्गल उवाच । दैत्यपुत्रौ महावीर्यौ शंकरं क्रोधसंयुक्तौ । यदूचतुश्च तत्सर्वं शृणु दक्ष प्रजापते ॥ ६ ॥ मत्सरपुत्रावूचतुः । तिष्ठ तिष्ठ महादेव पश्य पौरुषमावयोः । ज्ञातं त्वदीयं सामर्थ्यं न च गंतुं त्वमर्हसि ॥ ७॥ अस्मदीया महासेना हता सर्वा सदाशिव । दैत्येंद्राः पातिताः सर्वे त्वया शंकर तेजसा ॥८॥ पौरुषं दर्शितं पूर्णं सर्वदेवातिगं महत् । अधुना त्वां हनिष्यावो वक्रतुंडस्य पश्यतः ॥९॥ त्वां हत्वा वक्रतुंडं च हनिष्यावो न संशयः । पश्चात् सर्वान् सुरेंद्रांश्च ततो मुनिगणान् सुरान् ॥ १० ॥ एवमुक्त्वा महादेवं धनुः सज्जं प्रचक्रतुः । तावुवाच महादेवः स्मयमान इदं वचः ॥ ११ ॥ शिव उवाच । भवद्भ्यां गदितं क्रूरं तत्सर्वं तथ्यमेव च । अधुनाऽयं समुत्पन्नो वक्रतुंडो महाबलः ॥ १२॥ भूभारहरणार्थं वै भवतां नाशनाय च । अधुना स गतः कालो विपरीतेन कर्मणा ॥ १३ ॥ वक्रतुंडप्रसादेन हनिष्यामि समत्सरम् । असुरं बलमत्यर्थं पापरूपं न संशयः ॥ १४ ॥ इत्युक्त्वा बाणवृष्टिं स चक्रे वै शंकरः प्रभुः । महोग्रां कालरूपां वै प्रलयस्य प्रकाशिनीम् ॥ १५ ॥ तां च चिच्छिदतुर्दैत्यौ स्वशरैरतिवेगितैः । तौ मंडपं क्षणेनैव चक्रतुः शरसंभवम् ॥ १६ ॥ तद्बाणैरपि ते देवाश्छिन्ना भिन्नाः कृता मुने । शंकरो विस्मितो भूत्वा शूलमुग्रं मुमोच ह ॥ १७ ॥ आगतं कालरूपं च शूलं दृष्ट्वा महासुरौ । महास्त्रं तौ पाशुपतं मोचयामासतुस्तदा ॥ १८ ॥ अनिवार्यं महोग्रं वै सर्वभस्मकरं परम् । जज्वल तेजसा सर्वं ब्रह्मांडं व्याकुलं ततः ॥ १९ ॥ त्रिशूलं निष्फलं तेन महास्त्रेण कृतं क्षणात् । शिवस्य हृदये गत्वा पपात भयदायकम् ॥ २० ॥ मूर्च्छितः शंकरस्तेन पतितो धरणीतले । हाहाकारश्च सर्वत्र देवसैन्ये ततोऽभवत् ॥ २१ ॥ पतितं शंकरं दृष्ट्वा वक्रतुंडो महाबलः । स्वां सेनां प्रेरयामास दैत्यमर्दनलालसः ॥ २२॥ गणेशदूतममुख्यास्तेष्वष्टौ तत्राययुः परे । स्वां स्वां सेनां समादाय महाकाया महाबलाः ॥ २३ ॥ प्रमोपश्चैष आमोदस्तथा ब्रह्मप्रियो मुने । योगप्रियश्च स्वानंदभोक्ता ज्ञानमयश्च हि ॥ २४ ॥ सर्वगः सर्वविच्चैव क्रोधयुक्ताः समाययुः । तैः प्रेक्षिताः सुराः सर्वे गतमूर्च्छास्तदाऽभवन् ॥ २५॥

खं. १ अ. ३६ पान ८२

श्रमहीनाः क्षतादिभ्यो हीना जाताः प्रभावतः । तेजसा द्विगुणाश्चैव हृष्टपुष्टा यथा मुने ॥ २६ ॥ एतस्मिन्नंतरे तत्र कविना जीवितास्तथा । दैत्याः समुत्थिताः सर्वे नीरुजश्च महाबलाः ॥ २७ ॥ प्रह्लादप्रमुखा वीराश्चक्रुर्नादं समंततः । ब्रह्मांडमखिलं तेन सनादमभवत् परम् ॥ २८ ॥ ततो देवगणाः सर्वे शंखनादं प्रचक्रिरे । तेन दैत्यगणा भीता बधिरा इव ते स्थिताः ॥ २९ ॥ शंखानां चैव भेरीणां दुंदुभीनां स्वरैः परैः । वीराणां क्ष्वेडितेनैव हेषितैर्बृंहितस्वनैः ॥ ३० ॥ रथनेमिस्वनैः सर्वं व्याप्तमासीन्नभो मुने । परस्परं संपदं च वीक्ष्य वीक्ष्य च विस्मिताः ॥ ३१ ॥ एतस्मिन्नेव काले ते प्रमोदाद्या गणा ययुः । कुपिताः शस्त्रसंवृष्टिं चक्रिरे दैत्यमोहिनीम् ॥ ३२ ॥ तेषां शस्त्राणि सर्वाणि ह्यमोघानि महामुने । चिच्छिदुर्दैत्यराजानां मस्तकानि भुजादिकान् ॥ ३३ ॥ ब्रह्मप्रियो महाबाहुः शुक्रं धृत्वा प्रपश्यताम् । असुराणां गतो दूरं गुहायां चाक्षिपन् मुनिम् ॥ ३४ ॥ गतं शुक्रं तदा दृष्ट्वा दैत्याः सर्वे भयातुराः । हाहाकारं प्रचक्रुस्ते किं भविष्यति विह्वलाः ॥ ३५ ॥ रक्षिता गुरुरत्युग्रः पश्यतां नो महासुराः । नीतश्च मरणं तस्माच्छ्रेष्ठं किं न मृता वयम् ॥ ३६ ॥ अधुना क्व गमिष्यामस्तस्माद्युद्ध्यमहे वयम् । मरिष्यामोऽथ वा मोचयिष्यामस्तं स्वतेजसा ॥ ३७ ॥ परस्परं चेति दैत्या उक्त्वा मरणनिश्चयाः । उदायुधाश्च सर्वे ते युयुधुर्देवसैनिकैः ॥ ३८ ॥ व्यंगा देवाः कृतास्तैस्ते पतिता रणमूर्धनि । हाहाकारश्च सर्वत्र देवसैन्ये प्रवर्तितः ॥ ३९ ॥ ततो ब्रह्मप्रियाद्या ये कुपिताः शस्त्रधारिणः । परशुप्रमुखैः शस्त्रैस्त्रिशूलांकुशपाशकैः ॥ ४० ॥ शस्त्रैर्दैत्यान्निजघ्नुस्तान् कालरुद्रा इव प्रजाः । तैरस्त्रैर्दैत्यसेनायाः कदनं कृतमंजसा ॥ ४१ ॥ बहवश्च मृता दैत्या मूर्च्छिताश्चापरेऽवनौ । पेतुस्ते सर्वशो वीरा प्रह्लादप्रमुखा मुने ॥ ४२ ॥ ततो दैत्यकुमारौ तावागतौ रणमूर्धनि । ऊचतुस्तान् गणांस्तत्र प्रमोदाद्यान् महा- सुरौ ॥ ४३ ॥ दैत्यपुत्रावूचतुः । प्रमोदामोदकाद्याश्च भवद्भिर्बलमंजसा । हतं सर्वं च दैत्यानां दैत्यश्रेष्ठाः प्रमूर्च्छिताः ॥ ४४ ॥ अधुना मरणं प्राप्तं समीपे वः प्रदृश्यताम् । शस्त्रैस्तीक्ष्णैर्हनिष्यावो वक्रतुंडयुतान् खलान् ॥ ४५ ॥ एवमुक्त्वा स्वबाणांस्तौ ववर्षतुरथासुरौ । ततस्तयोर्बलं वीक्ष्य द्वौ वीरौ समुपस्थितौ ॥ ४६ ॥ सर्वगः सर्वविच्चैव सबलौ धृतकार्मुकौ । बाणवृष्टिं तु संवार्य बाणांश्चिक्षिपतुः परान् ॥ ४७ ॥ अमोघाः सर्वबाणास्ते जग्मुःकालयमोपमाः । दैत्यान् सर्वान् प्रचक्रुस्ते छिन्न- भिन्नात्मकान् मुने ॥ ४८ ॥ मृता मुमूर्षवः केचित्पतिता धरणीतले । अकस्माद्रक्तसंभूता नदी तत्र प्रवर्तिता ॥ ४९ ॥ तयोर्बलं निरीक्ष्यैव कंपितौ दैत्यपुंगवौ । अग्न्यस्त्रं धनुषि श्रेष्ठं दधतुः क्रोधसंयुतौ ॥ ५० ॥ यावन् मुमुचतुस्तावत् परशु-

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण (Transcription) प्रस्तुत है:

खं. १ अ. ३७ पान ८३ यमसन्निभौ । आगतौ च शिरश्छेदं दैत्ययोश्चक्रतुः क्षणात् ॥ ५१ ॥ मत्सरस्य सुतौ वीक्ष्य मृतौ सर्वे भयातुराः । मत्सरं शरणं जग्मुरुचुर्वृत्तांतमंजसा ॥ ५२ ॥ दैत्या ऊचुः । शृणु दैत्येश वृत्तांतं रणभूमिसमुद्भवम् । महाभयंकरं घोरं कथितुं शक्यते न च ॥ ५३ ॥ प्रह्लादप्रमुखाः सर्वे घातिता रणमूर्धनि । मृततुल्या मृता वा किमस्माभिर्ज्ञायते न च ॥ ५४ ॥ तव पुत्रौ महावीर्यौ मृतौ संग्राममंडले । कृत्वा युद्धं महाघोरं परशुभ्यां महामते ॥ ५५ ॥ अकस्माद्वक्रतुंडस्य गणौ द्वौ समुपस्थितौ । ताभ्यां चैव हतौ वीरौ स्वल्पकालेन दैत्यप ॥ ५६ ॥ वक्रतुंडसमश्चैव न भूतो न भविष्यति । इति स्वांते च संज्ञाय देवं तं शरणं व्रज ॥ ५७ ॥ नोचेद्दैत्यगणाः सर्वे नाशं यास्यंति निश्चितम् । मा गर्वं कुरु दैत्येश दैत्यान् रक्ष महामते ॥ ५८ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते सुंदरप्रियविषयप्रियवधो नाम षट्त्रिंशोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः । मुद्गल उवाच । दैत्यानां वचनं श्रुत्वा स दैत्यो मत्सरासुरः । मूर्च्छितः सहसा भूमौ पपात भयविह्वलः ॥ १ ॥ अनिश्वासन् दैत्यपस्तु तैराशु विधृतो नृपः । सावधानं प्रचक्रुस्तं प्रयत्नः परमैस्ततः ॥ २ ॥ द्विमुहूर्तेन संबुद्धो मत्सरः प्रललाप ह । किं जातं भावि वा किं वा दैवेन विफलं कृतम् ॥ ३ ॥ तपसा त्वमरत्वं च पृथिवीराज्यमंजसा । मया प्राप्तं स्वसामर्थ्यादतुलं तद् वृथा कृतम् ॥ ४ ॥ अहो हि बलवद् दैवं प्रयत्नो निष्फलो मतः । अचिंत्या मेऽभयप्राप्तिः पश्चात् सूर्योदयो यथा ॥ ५ ॥ मृता दैत्या असंख्‍याश्च मदर्थं नात्र संशयः । मृतौ पुत्रौ महाकालौ कालस्य कथमद्य तौ ॥ ६ ॥ अधुना शोकसंतप्तो मरिष्यामि न संशयः । मृतौ पुत्रौ महाकालौ किं कार्यं जीवितेन मे ॥ ७ ॥ ब्रह्मांडाधिपतेः पुत्रौ कथं तौ निधनं गतौ । कथं मिथ्या हि जातं मे वरदानं महत्तरम् ॥ ८ ॥ अहो पुत्रौ महावीर्यौ कथं मरणमापतुः । याभ्यां स्वभुज- वीर्येण जिता विष्णुमुखाः सुराः ॥ ९ ॥ अहो पुत्रौ च मां त्यक्त्वा घोरे दुःखार्णवे परे । क्व गतौ वदतं वाक्यमभूतं निष्ठुरौ कथम् ॥ १० ॥ सखींश्च पितरं वृद्धं त्यक्त्वा मां सुंदरप्रिय । विषयप्रिय मद्दालौ कथं मृत्युमुपस्थितौ ॥ ११ ॥ इति नानाविधं शौकं चक्रे दैत्येंद्रपालकः । तं ते सभ्यवराः सर्वे सांत्वयामासुरादरात् ॥ १२ ॥ वृद्धा ऊचुः । न रोदनं प्रकर्तव्यं त्वया दैत्येंद्रनायक । रणे मृतौ महावीर्यौ कीर्तिं कृत्वा महत्तराम ॥ १३ ॥ देहस्य मरणं नित्यं जन्म चैव तथा प्रभो । किं चित्रं

खं. १ अ. ३७ पान ८४

तच्च संजातं येन शोचसि दैत्यप ॥ १४॥ आत्मनो मरणं नैव जन्मशास्त्रेषु कथ्यते। मायामोहं परित्यज्य स्वस्थो भव महामते ॥ १५॥ जंतोरूर्ध्वक्रिया सर्वा कर्तव्या स्वजनैरपि। अतस्त्वं दैत्यराजेंद्र सार्थकं त्वेतयोः कुरु॥ १६॥ अथवा तौ परित्यज्य वक्रतुंडं जहि प्रभो। अथवा शरणं याहि येनैव कुशलं भवेत् ॥ १७॥ वीरा रुदंति कुत्रापि नैव जानीहि दैत्यप । सपत्नान् हर्षसंयुक्तान् मा कुरुष्वाधुना परान् ॥ १८ ॥ एवं प्रबोधितो दैत्यो मत्सरः क्रोधसंयुतः। आदाय सकलं सैन्यं ययौ संग्राममंडलम् ॥ १९ ॥ मत्सरासुरमायातं दृष्ट्वा शंब्वादयः सुराः । भयभीताश्च तं प्रोचुर्वक्रतुंडं प्रणम्य ते ॥ २० ॥ स्वामिन् समागतो दैत्यो मत्सरः स प्रतापवान् । यस्याग्रे मशका देवास्तृणरूपा नरादयः ॥ २१ ॥ यस्याग्रे वशवर्तिन्यः श्रियः सर्वार्थदायिकाः । ब्रह्मांडं कंपते यस्य भयात्सोऽयं समागतः ॥ २२ ॥ यस्य राज्ये महाभागा जना दुःखविवर्जिताः । सर्वर्तुफलदा वृक्षा मेघाः कालप्रवर्षिणः ॥ २३॥ यस्याज्ञा वशगश्चासौ तपत्येव दिवाकरः। न शीतं प्रबलं तत्र मत्सरे राज्यभोगिनि ॥ २४॥ न रोगाः प्रचरंतीह भयभीताः संमततः। न च चोरादिसंत्रस्तं जगद्राज्यं प्रशासति ॥ २५ ॥ यस्य पूजा च सर्वत्र जगति क्रियते जनैः। यज्ञादि सर्वमखिलं भुक्तं येन महात्मना ॥ २६ ॥ कालो बिभेति यं दृष्ट्वा तदाज्ञा पालकोऽभवत् । कर्मखंडनमप्यत्र कृतं येन सुरारिणा ॥ २७॥ न स्वाहा न स्वधा यत्र न वषट्कार एव च। न वेदाध्ययनाचारो मत्सरे राज्यकर्तरि ॥ २८ ॥ न स्नानादिक्रिया यत्र न स्वधर्मः स्वभावजः । न वर्णाश्रमयोर्धर्मो मत्सरे राज्यकर्तरि ॥ २९ ॥ देवाः श्वापदतुल्या वै भ्रमंति वनगोचराः । अन्नवस्त्रादिसंहीनाः कृता दैत्येंद्रकेण भोः ॥ ३० ॥ मुनयस्तपसा हीनाः शापसामर्थ्यहीनकाः । कृता मत्सरदैत्येन सोऽयं स्वामिन् समागतः ॥ ३१ ॥ देवांगनाश्च तत्कन्या नागकन्या महात्मना। भुक्ता नानाविधा भोगाः सोऽयं मत्सर आगतः ॥ ३२ ॥ नरकन्याः पशोः कन्या मुनिकन्याः समाहृताः। बलेन न समं यस्य ब्रह्मांड सोऽयमागतः ॥ ३३ ॥ यस्याष्टावरणैर्मृत्युर्न भवेच्च कदाचन । सोऽयं समागतो दैत्यः पश्य पश्य गणाधिप ॥ ३४॥ इत्येवं ब्रुवतो देवान् वक्रतुंडो महाबलः। मा भयं कुरुत प्राज्ञा हनिष्यामीति सोऽब्रवीत् ॥ ३५ ॥ सिंहारूढो महाबाहुरेकदंतविराजितः । पाशांकुशधरो भूत्वा ययौ संग्राममंडलम् ॥ ३६ ॥ प्रमोदामोदकाद्यैश्च संवृतं युद्धलालसम् । तं दृष्ट्वा क्रोधसंयुक्तो मत्सरः प्राह भर्त्सयन् ॥ ३७ ॥ मत्सरासुर उवाच । किमर्थमागतस्त्वं मे वक्रतुंड रणेऽग्रतः। अद्यैव त्वां हनिष्यामि मा मुखं दर्शयस्व रे ॥ ३८ ॥ मूढोऽसि येन संग्रामं कर्तुमागत एव च । न मे मृत्युर्भवेदष्टावरणैर्देहधारिभिः

यहाँ प्रस्तुत पृष्ठ का सटीक लिप्यंतरण दिया गया है:

॥ ३९ ॥ शंभुविष्णुमुखैर्देवैः प्रेरितस्त्वं न बुध्यसे । मोहभावेन संयातो मत्सरेण युयुत्सुना ॥ ४० ॥ हन्मि त्वामेकबाणेन ससैन्यं नात्र संशयः । पदाघातेन मे भूमिर्विशीर्णा जायते खल ॥ ४१ ॥ तलप्रहारसंयुक्ताः पर्वताश्चूर्णतां गताः । तस्याऽग्रे कथमायातः कालेन प्रेरितोऽथवा ॥ ४२ ॥ शब्दगर्जनमात्रेण कंपते सचराचरम् । तस्याग्रे त्वं सुसंग्रामं किं करिष्यसि तद्वद ॥ ४३ ॥ ब्रह्मांडं सकलं युद्धे जितं येन प्रभावतः । तदा त्वं कुत्र गुप्तः सन् स्थितोऽसि भयभावितः ॥ ४४ ॥ समीचीनमिदं मूढाऽधुना खल कृतं त्वया । दृष्टेः समीपगो जातो हतो मम भविष्यसि ॥ ४५ ॥ शरणं याहि मे दुष्ट जीवितुं यदि चेच्छसि । मदाज्ञावशगो भूत्वा वने तिष्ठ यथासुखम् ॥ ४६ ॥ मूढभावेन संयातं त्वां न हन्मि च निर्बलम् । प्रेरकान् मुनिदेवांस्ते तान् हनिष्यामि निश्चितम् ॥ ४७ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते मत्सरासुरसमागमो नाम सप्तत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः । मुद्गल उवाच । एवं ब्रुवंतमत्यंतं मत्सरं क्रोधसंयुतम् । वक्रतुंडः प्रसन्नात्मा स्मयन्निव जगाद तम् ॥ १ ॥ वक्रतुंड उवाच । मा गर्वं कुरु दैत्येश नाहं देवो न मानुषः । नासुरो नैव नागश्च न गंधर्वो न पर्वतः ॥ २ ॥ न नानायोनिजो जंतुर्नाष्टावरणजस्तथा । ब्रह्मरूपोऽहमानंदानंदकारक एव च ॥ ३ ॥ त्वां हंतुं मुनिदेवानां स्थापनार्थमिहागतः । हनिष्यामि त्वसंदेहाद् दैत्यनायक दुर्मते ॥ ४॥ शिथिलं वरपुण्यं ते सांप्रतं पापसंचयात् । नानापापफलार्थस्य दाता तेऽहं समागतः ॥ ५॥ अकर्तुं कर्तुमीशं मामन्यथाकर्तुमादरात् । जानीहि मत्सर त्वं वै किं करिष्यसि तद्वद ॥ ६ ॥ जीवितुं चेच्छसि प्राज्ञ तदा मां शरणं व्रज । स्वस्थाने धर्मविद्वेषं त्यक्त्वा त्वं तु सुखी भव ॥ ७ ॥ देवादीनां च विद्वेषं त्यक्त्वा तिष्ठसि दैत्य चेत् । तदा त्वां न हनिष्यामि जानीहि त्वं मतं मम ॥ ८ ॥ मुद्गल उवाच । वक्रतुंडवचः श्रुत्वा मत्सरो विस्मितोऽभवत् । उवाच तं प्रसन्नात्मा भक्तिभावेन यंत्रितः ॥ ९ ॥ मत्सर उवाच । वक्रतुंड नमस्तुभ्यं वद मे सकलं प्रभो । संशयं छिंधि तं पूर्वं हृदिस्थं गणनायक ॥ १० ॥ यदि त्वं सगुणो नासि निर्गुणोऽपि न वर्तसे । ब्रह्मरूपोऽसि सर्वेश तदाकारधरः कथम् ॥ ११ ॥ अन्यच्च त्वं महाभाग ब्रह्मभावेन संस्थितः । सुरासुरसमं ब्रह्म कथमेकं समाश्रितः ॥ १२ ॥ असुराणां निहंता त्वं सुराणां पालकोऽधुना । एतं मे संशयं ब्रह्मन् छेत्तुमर्हसि विघ्नप ॥ १३ ॥ मत्सरस्य वचः श्रुत्वा वक्रतुंडः प्रतापवान् । उवाच तं

खं. १ अ. ३८ पान ८६ महावीरं भावं दृष्ट्वा हृदि स्थितम् ॥ १४ ॥ वक्रतुंड उवाच । शृणु मत्सर यत्पृष्टं त्वया बुद्धिविशारद । तत्सर्वं कथयिष्यामि संशयच्छेदनाय ते ॥ १५ ॥ अखिलं ब्रह्मरूपेण मया सृष्टं चराचरम् । लीलार्थं बंधहीनेन स्वस्वधर्मयुतं परम् ॥ १६ ॥ पुरुषप्रकृतिभ्यां तत् पाल्यते ह्रियते मया । तयोर्हृदि स्थितेनैव चिंतामणिस्वरूपिणा ॥ १७॥ सर्वेषां चित्तवृत्तेश्च चालकोऽहं न संशयः । मदाज्ञावशगं सर्वं वर्तते दैत्यपुंगव ॥ १८ ॥ यदा स्वधर्ममत्यंतं त्यक्त्वा देवगणेश्वराः । दैत्यानां निधनार्थं च यतंते मूलनाशकाः ॥ १९ ॥ तदा दैत्यहृदिस्थोऽहं तपसि प्रेरकोऽस्म्यतः । दैत्याः कुर्वंति च तपो देवानां प्रजिघांसया ॥ २० ॥ तपसा वरलाभेन देवान् घ्नंति महाबलाः । ततस्ते सततं देवाः सत्ताहीना भवंति वै ॥ २१ ॥ ततोऽहं देवसंघानां विपरीतो न संशयः । भवामि चासुराणां वै सिद्धिदाता महासुर ॥ २२ ॥ यदि दैत्या महादुष्टास्त्यक्त्वा घ्नंति स्वधर्मकम् । देवान् मूलविहीनांश्च कर्तुमिच्छंति दानव ॥ २३ ॥ तदाऽहं देवरूपेण तेषां हृदि समास्थितः । छिद्रं प्रकाशयाम्यदौ हनने दैत्य- रक्षसाम् ॥ २४ ॥ ततस्तेनैव देवेंद्रो मार्गेण सुरविद्विषः । घ्नंति मत्सर ते सर्वं कथितं मे चरित्रकम् ॥ २५ ॥ यदि स्वहृदये देवा निश्चयं कुर्वते परम् । दैत्यानां तपसां विघ्नं कर्तव्यमिति सांप्रतम् ॥ २६ ॥ तदाऽहं वरदाता च भवाम्यसुरनायक । दैत्येभ्यो नात्र संदेहो देवगर्वप्रहारकः ॥ २७ ॥ यदि दैत्या महाभागा देवैर्जाता दुरासदाः । तदाऽहं दैत्यनाशाय भवामि तनुधारकः ॥ २८ ॥ यदा दैत्याश्च देवाश्च स्वस्वधर्मपरायणाः । तदाऽहं ब्रह्मभावेन स्थितस्तेषां हृदि ह्यहो ॥ २९ ॥ त्वया प्रपीडिता देवास्त्यक्त्वा धर्मं स्वभावजम् । अतस्त्वां हंतुमायातो दैत्यराज महामते ॥ ३० ॥ इत्युक्त्वा निजरूपं तद्दर्शयामास विघ्नपः । बिंदुमात्रे ब्रह्मणि स्वे संस्थितं सुंदरं मुने ॥ ३१ ॥ वक्रतुंडप्रसादेन तस्य दर्शनजेन च । फलेन दैत्यराजोऽपि दिव्यं चक्षुरवाप्तवान् ॥ ३२ ॥ तेनैव चक्षुषा तेन दैत्येन परमाद्भुतम् । दृष्टं रूपं गणेशस्य ब्रह्माकारं प्रजापते ॥ ३३ ॥ न न्यूनं नाधिकं तन्न न समं चात्मना न च । चतुष्पादमयं ब्रह्म पादहीनं स्वभावतः ॥ ३४ ॥ न देहो न च देह्यत्र सगुणो निर्गुणो न च । न मायामायिको भाति वक्रतुंडो गजाननः ॥ ३५ ॥ देहं सगुणरूपं च निर्गुणं मस्तकं मुने । गजवक्रमयं तेन दृष्टं भिन्नं प्रभावतः ॥ ३६ ॥ तयोर्योगकरः साक्षाद् वक्रतुंडः प्रतापवान् । संयुक्तोऽवयवाद्यैश्च ज्ञातो दैत्याधिपेन सः ॥ ३७ ॥ ततस्तं प्रणमामाथ भक्तियुक्तेन चेतसा । तुष्टाव परया भक्त्या बद्धांजलिपुटोऽसुरः ॥ ३८ ॥ मत्सरासुर उवाच । नमामि वक्रतुंडं च चतुष्पादं चतुःपरम् । चतुर्देहविहीनं च बिंदुमात्रे व्यवस्थितम् ॥ ३९ ॥ साकारं

खं. १ अ. ३८ पान ८७ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 च निराकारं मायारूपधरं प्रभुम् । नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४० ॥ जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् । ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१ ॥ सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च । सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२ ॥ अनंतलीलया युक्तं लीलाहीनं नमामि तम् । अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदि स्थितम् ॥ ४३ ॥ वेदांतवेद्यं सज्ज्योतिर्ज्योतिषामपि भासकम् । नमामि सच्चिदानंददेहरूपं गजाननम् ॥ ४४ ॥ योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् । भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५ ॥ सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् । नमामि वक्रतुंडाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६ ॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । सर्वाकारनिराकारहीनोऽयं वक्रतुंडकः ॥ ४७ ॥ शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल । प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८ ॥ एवं स्तुत्वा वक्रतुंडं पादयोर्निपपात ह । पुनः पुनः प्रणम्याऽसौ बद्धांजलिपुटः स्थितः ॥ ४९ ॥ स दृष्ट्वा तादृशं दैत्यं भक्तियुक्तं गजाननः । जगाद तं महाभागं भक्तेशॊ भावतोषितः ॥ ५० ॥ वक्रतुंड उवाच । मत्सर त्वद्विनाशाय कुपितोऽहं न संशयः । शरणागतनाशं च नेच्छामि वृणु वाञ्छितम् ॥ ५१ ॥ इदं त्वया कृतं स्तोत्रं मत्प्रीतिवर्धनं महत् । महैश्वर्यायुरारोग्यदायकं धनधान्यदम् ॥ ५२ ॥ पुत्रपौत्रकलत्रादिनानासंपत्करं परम् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ ५३ ॥ मुद्गल उवाच । वक्रतुंडवचः श्रुत्वा मत्सरो भक्तिसंयुतः । जगाद वचनं तत्र वक्रतुंडं कृतांजलिः ॥ ५४ ॥ मत्सर उवाच । प्रसन्नो यदि सर्वेश मह्यं देयो वरो यदि । सुदृढां च तदा भक्तिं त्वदीयां देहि विघ्नप ॥ ५५ ॥ अन्यं त्वं मे वरं देहि त्वद्भक्तास्ते च मे प्रियाः । स्थानं देहि तथा वृत्तिं योगक्षेमकरीं प्रभो ॥ ५६ ॥ मत्सरस्य वचः श्रुत्वा वक्रतुंडस्तमब्रवीत् । अचला पदि मे भक्तिरद्य ते संभविष्यति ॥ ५७ ॥ स्वस्वधर्मरतान् जंतूंस्तान रक्षस्व च मत्सर । मदीयान् प्रवरान् भक्तांस्तान पालय च यत्नतः ॥ ५८ ॥ मदीयमूर्तिपूजा च यत्रादौ स्मरणं भवेत् । सर्वारंभेषु तत्र त्वं मा विघ्नं कुरु दैत्यप ॥ ५९ ॥ अन्यत्र सर्वभावेषु कर्मज्ञानादिकर्तृषु । आसुरेणैव वर्तस्व फलं ग्राह्यं त्वयाऽसुर ॥ ६० ॥ तेषां हृदि समाविश्य कुरु राज्यं महामते । मद्भक्त्या- दिषु भावेषु दासत्वत्वं सदा भव ॥ ६१ ॥ एवमुक्तो महादैत्यस्तथेति तमुवाच ह । प्रणिपत्य गणेशानं हर्षयुक्तेन चेतसा ॥ ६२ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते वक्रतुंडविजयो नामाष्टत्रिंशोऽध्यायः ॥

खं. १ अ. ३९ पान ८८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मत्सरं शांतिमापन्नं दृष्ट्वा देवर्षयस्तदा । प्रहृष्टमनसो जातास्तुष्टुवुस्तं गजाननम् ॥ १ ॥ देवर्षय ऊचुः । सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवंद्यम् । अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुंडं भजामः ॥ २ ॥ अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् । जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुंडं भजामः ॥ ३ ॥ अनंतस्वरूपं सदानंदकंदं प्रकाशस्वरूपं सदा सर्वगं तम् । अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुंडं भजामः ॥४॥ धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् । अहंकारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुंडं भजामः ॥ ५ ॥ रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेंद्रप्रकाशम् । दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुंडं भजामः॥६॥ उपस्थत्वगुक्तीक्षणस्थप्रकाशं करांघ्रिस्वरूपं कृतघ्राणजिह्वम् । गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुंडं भजामः ॥७॥ रजोरूपसृष्टिप्रकाशे विधिं तं सदा पालने केशवं सत्त्वसंस्थम् । तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुंडं भजामः ॥ ८ ॥ दिशाधीशरूपं सदाशास्त्रस्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् । अनंतोडुरूपं तदाकारहीनं नमामः सदा वक्रतुंडं भजामः ॥ ९॥ महत्तत्त्वरूपं प्रधानस्वरूपमहंकारवारं त्रयीबोधकारम् । अनाद्यंतमायं तदाधारपुच्छं नमामः सदा वक्रतुंडं भजामः ॥ १० ॥ सदा कर्मधारं फलैः स्वर्गदं तमकर्मप्रकाशेन मुक्तिप्रदं तम् । विकर्मादिना यातनाधारभूतं नमामः सदा वक्रतुंडं भजामः ॥ ११ ॥ अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् । नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुंडं भजामः ॥ १२ ॥ लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् । प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुंडं भजामः ॥ १३ ॥ खगेशस्वरूपं वृषादिप्रसंस्थं मृगेंद्रादिबोधं मृगेंद्रस्वरूपम् । धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुंडं भजामः ॥ १४ ॥ सुवर्णादिधातुस्थसद्रंगसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् । जले जंतुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुंडं भजामः ॥ १५॥ सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः । सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुंडं भजामः ॥ १६ ॥ वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् । चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुंडं भजामः ॥ १७ ॥ गणेशं गणेशादिवंद्यं सुरैशं परं सर्वपूज्यं सुबोधादिगम्यम् । महावाक्यवेदांतवेद्यं परेशं नमामः सदा वक्रतुंडं भजामः॥ १८ ॥ अनंतावतारैः सदा पालयंतं स्वधर्मादिसंस्थं जनं कारयंतम् । सुरैर्दैत्यपैर्वन्द्यमेकं

समं त्वां नमामः सदा वक्रतुंडं भजामः ॥ १९ ॥ त्वया नाशितोऽयं महादैत्यभूपः सुशांतैर्धरोऽयं कृतस्तेन विश्वम् । अखंडप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुंडं भजामः ॥ २० ॥ न विदंति यं वेदवेदज्ञमर्त्या न विदंति यं शास्त्रशास्त्रज्ञभूपाः । न विदंति यं योगयोगीशकाद्या नमामः सदा वक्रतुंडं भजामः ॥ २१ ॥ न वेदा विदुर्यं च देवेंद्रमुख्या न योगैर्मुनींद्रा वयं किं स्तुमश्च । तथाऽपि स्वबुद्ध्या स्तुतं वक्रतुंडं नमामः सदा वक्रतुंडं भजामः ॥ २२ ॥ मुद्गल उवाच । एवं स्तुत्वा वक्रतुंडं स्थिता देवर्षयः प्रभो । बद्धांजलिपुटाः सर्वे तूष्णींभावेन मानद ॥ २३ ॥ देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः । उवाच तान् प्रसन्नात्मा हर्षयन् वचनं महत् ॥ २४ ॥ वक्रतुंड उवाच । शृणुध्वं मुनयः सर्वे देवा मे वचनं महत् । भवत्कृतमिदं स्तोत्रं मत्प्रीतिवर्धनं भवेत् ॥ २५ ॥ अनेन स्तौति यो नित्यं मां तस्य परिपूरये । भोगान्नानाविधांश्चैव पुत्रपौत्रादिसंपदः ॥ २६ ॥ यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः । भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ २७ ॥ नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् । सुरैर्देर्वर्चतां याति यो मां स्तौति त्वनेन सः ॥ २८ ॥ सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् । मोचयेन्नात्र संदेहो मत्प्रियः सर्वदा भवेत् ॥ २९ ॥ अपराधशतैर्युक्तो यो वै भवति मानवः । तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ ३० ॥ एकविंशतिवारं य एकविंशदिनानि वै । पठिष्यति सदा तस्मै चिंतितं प्रददाम्यहम् ॥ ३१ ॥ एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः । कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ ३२ ॥ तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा । भविष्यथ महाभागा भुक्तिमुक्तिप्रदास्तथा ॥ ३३ ॥ वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् । तद्दास्यामि न संदेहः स्तोत्रसंतोषितो ह्यहम् ॥ ३४ ॥ मुद्गल उवाच । एवमुक्ताः सुराः सर्वे मुनयस्तं प्रणम्य च । प्रहृष्टमानसा ऊचुर्वक्रतुंडं महाबलम् ॥ ३५ ॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो वक्रतुंड ददासि चेत् । त्वदीयामचलां भक्तिं देहि नाथ दयानिधे ॥ ३६ ॥ यदि प्राप्ता त्वदीया च भक्तिर्जंतोस्तदा प्रभो । किं दुर्लभं भवेत्तस्य हस्तगाः सर्वसिद्धयः ॥ ३७ ॥ अतो भक्तिं महाभाग देहि नो विघ्ननायक । तया तृप्ता भविष्यामस्त्वत्पादप्रवणा वयम् ॥ ३८ ॥ तेषां वचनमाकर्ण्य देवदेवो गजाननः । जगाद भावगंभीरं ज्ञाता विज्ञजनप्रियः ॥ ३९ ॥ वक्रतुंड उवाच । मदीया भक्तिरचला भविष्यति न संशयः । भवतां भावयुक्तानां भो भो देवर्षयः खलु ॥ ४० ॥ अंतर्दधे स उक्त्वैवं वक्रतुंडो गणेश्वरः । पश्यतां मुनिदेवानां स्वानंदस्थो बभूव ह ॥ ४१ ॥ ततो देवर्षयः सर्वे खिन्नाः स्वस्वपदं ययुः ।

खं. १ अ. ४० पान ९० ध्यायंतश्च तमेवैते वक्रतुंडं सुसिद्धिदम् ॥ ४२॥ मत्सरोऽपि ततः सर्वैर्दैत्यैः परिवृतो ययौ । स्वं पदं पालयन् शीघ्रं सुशांतो ह्यभवत् सदा ॥ ४३ ॥ तं त्यक्त्वा दैत्यसंघास्ते ययुः स्वं स्वं गृहं मुने । एवं मत्सरमाहात्म्यं वक्रतुंडेन कारितम् ॥ ४४॥ स एव वक्रतुंडस्तु सृजत्यवति च प्रभुः । हरते भावहीनः सन् नायमध्यांतगः स्वयम् ॥ ४५॥ एवं नानावतारेण स्वस्वधर्मरतान् सुरान् । असुरान् मानवादींश्च कुरुते वक्रतुंडकः ॥ ४६ ॥ अवतारा अनंताश्च वक्रतुंडस्य भो विभो । चरित्रमखिलं तेषां कथितुं शक्यते न वै ॥ ४७॥ ब्रह्मणा षण्मुखेनाऽपि विष्णुना शंकरेण च । शेषेण मुनिभिश्चैव वेदैः काहं च तत्र वै ॥ ४८ ॥ दिवोदासशमार्थाय स एवं वक्रतुंडकः । शिवपुत्रत्वमापन्नो ढुंढिराजेति नामतः ॥ ४९ ॥ वामनस्य वरं दातुं स एव गणनायकः । प्रकटोऽभून् महातेजास्तस्याग्रे भक्तपालकः ॥ ५० ॥ एवं नानावतारैश्च भक्त- रक्षणलालसः । करोति भक्तसंरक्षां जानीहि त्वं प्रजापते ॥ ५१ ॥ ब्रह्मणा सृष्टिकार्यार्थं व्याकुलेन स न स्मृतः । वक्रतुंडस्ततो दैत्यो मत्सरः प्रविवेश तम् ॥ ५२॥ तेनासुरस्वभावेन पीडितो विधिरद्भुतम् । विघ्नयुक्तोऽभवत्तत्र सृष्टिं कर्तुं न स क्षमः ॥ ५३ ॥ पुरातनं वचः स्मृत्वा पुनस्तं शरणं ययौ । विधिर्विघ्नविहीनः स ससर्ज सकलं जगत् ॥ ५४ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते वक्रतुंडान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच ॥ धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया श्रावितं महत् । चरित्रं वक्रतुंडस्य ब्रह्मभूयकरं महत् ॥ १ ॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृततो यथा । इच्छामि तत्पुनः श्रोतुं पूजितो विधिना कथम् ॥ २ ॥ विस्तरेण च मे ब्रूहि कथां पापापनोदिनीम् । श्रोतुः प्रष्टुश्च वक्तुश्च त्रयाणां सर्वसिद्धिदाम् ॥ ३ ॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह । उत्फुल्लनयनो हर्षाद्गाणेशेंद्रः स शौनक ॥ ४ ॥ मुद्गल उवाच । शृणु दक्ष महाभाग धन्योऽसि न च संशयः । येन ते गणराजस्य कथायां प्रीतिरद्भुता ॥ ५ ॥ अल्पपुण्यवतो ढुंढिकथाया अवधारणे । श्रवणे च तथा प्रीति- र्जायते न कदाचन ॥ ६ ॥ अतस्तेऽहं प्रवक्ष्यामि त्वदादरसुतोषितः । संक्षेपेण कथां दिव्यां गणेशस्य महात्मनः ॥ ७ ॥ प्रलयादौ गणेशेन सृष्टाः पंच सुराधिपाः । तेषां तपःप्रभावेण प्रसन्नो वरदोऽभवत् ॥ ८ ॥ वरस्यैव प्रभावेण समर्थास्ते

खं. १ अ. ४० पान ९१ बभूविरे । स्वस्वकार्ये प्रवृत्ताश्च सावधानेन चेतसा ॥९॥ सृष्टिप्रकरणे ब्रह्मा प्रवृत्तो जगतोऽभवत् । न सस्मार गणेशानं विस्मृत्यादौ तदर्चनम् ॥१०॥ तेन भ्रांतोऽभवत् सद्यो मानसे गर्वमादधे । त्रिलोके नैव मत्पुल्यः स्रष्टाऽहं नात्र संशयः ॥११॥ सृजामि सकलं विश्वं तदा विष्णुश्च पाति वै । रुद्रः संहरते तच्च शक्तिर्मोहं करोति च ॥१२॥ सूर्यः कर्मप्रकाशं च करोति जगति प्रभुः । न सृष्टं चेन् मया विश्वं देवत्वं तु निरर्थकम् ॥१३॥ ममाज्ञादौ गणेशेन कृता सृष्टौ विशेषतः । मदीयां पात्रतां दृष्ट्वा तस्मान्नान्योऽस्ति मत्समः ॥१४॥ इति गर्वेण मनसि मोहितोऽभूत् पितामहः । ततो विघ्नगणास्तत्र प्रबभूवुरनेकंशः ॥१५॥ सृष्टिं विरचयंतं तं ब्रह्माणं प्राप्य दारुणः । नानारूपा महावीर्यास्ताडयामासु- रोजसा ॥१६॥ त्रिनेत्राः पंचनेत्राश्च पृष्ठनेत्रा महाबलाः । दशतुंडा सहस्रं च मुखानि दधतः परे ॥१७॥ एवं नाना- स्वरूपास्ते विधिं धृत्वा प्ररेमिरे । बालक्रीडनकं कृत्वा दुःखयुक्तं महाबलाः ॥१८॥ एवं स परवान् ब्रह्मा गर्वं सर्वं प्रमुच्य वै । जगाम शरणं देवं गणेशं विघ्ननायकम् ॥१९॥ गतगर्वो हृदि स्मृत्वा तुष्टाव गणनायकम् । तेन विघ्नगणाः सर्वेंऽतर्धानं तत्र चक्रिरे ॥२०॥ मुक्तो विघ्नैस्तदा ब्रह्मा तताप परमं तपः । षडक्षरेण मंत्रेण वक्रतुंडमतोषयत् ॥२१॥ वायुभक्षोऽभवद्ब्रह्मा पादांगुष्ठाग्रसंस्थितः । चकार तेजसा वृत्तिं गणेशे निश्चलां ततः ॥२२॥ एवं दिव्यसहस्रं स तपस्तेपे सुदारुणम् । ततो भूतानि सर्वाणि व्याकुलानि तदाऽभवन् ॥२३॥ ततस्तस्योग्रतपसा प्रसन्नो वक्रतुंडकः । आययौ भक्तराजं तं भक्तिभावेन तोषितः ॥२४॥ तेजोरूपी महाकायो वक्रतुंडश्चतुर्भुजः । सिंहारूढस्त्रिनेत्रश्च पाशांकुशधरो विभुः ॥२५॥ वरदाभयहस्तश्च पृथुवक्षा महोदरः । सिद्धिवृद्धियुतश्चिंतामणिना च विराजितः ॥२६॥ नानालंकारसंयुक्तः शेषनाभिर्गजाननः । सिंदूरारुणदेहश्च नानावस्त्रधरः प्रभुः ॥२७॥ तं दृष्ट्वा भयभीतोऽसौ विधाता स्तौति तं परम् । गणेशं हृदि संचिंत्य नानास्तोत्रैर्विधानतः ॥२८॥ वक्रतुंडः स्तुवंतं तमुवाच घननिस्वनः । वरं वृणु विधातस्त्वं दास्यामि तु न संशयः ॥२९॥ इति तस्य वचः श्रुत्वा ब्रह्मा तं प्रणनाम च । उवाच सौम्यरूपेण वरं देहि गजानन ॥३०॥ ब्रह्मणो गिरमाकर्ण्य सौम्यतेजा गजाननः । उवाच तं महाभागं भक्तिभावेन तोषितः ॥३१॥ वक्रतुंड उवाच । स्वानंदGeneric/स्वानंदनगरे संस्थं सदैतादृशरूपकम् । मृत्युलोके स्थितस्त्वं च कथं द्रक्ष्यसि मानद ॥३२॥ तपसा भक्तिभावेन तोषितोऽहं त्वया विधे । तेन सौम्यस्वरूपेण त्वदग्रे संस्थितोऽभवम् ॥३३॥ त्वं तु मत्तो वरान् ब्रूहि

खं. १ अ. ४१ पान ९२ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 दास्येऽहं वाञ्छितान् परान् । मयि प्रसन्नतां याते दुर्लभं न भविष्यति ॥ ३४ ॥ गणेशवचनं श्रुत्वा ब्रह्मा तं प्रणनाम च । बद्धांजलिपुटो भूत्वा स्तोतुं तमुपचक्रमे ॥ ३५ ॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः ॥ ❧ ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमस्ते वक्रतुंडाय गणेशाय महात्मने । अनंतानंतपाराय विघ्नेशाय नमो नमः ॥ १ ॥ नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते । अभक्तकामनाशाय सर्वदात्रे नमो नमः ॥ २ ॥ निर्गुणाय निरूपाय निर्मलाय गुणात्मने । अनंताननधाराय सिंहवाहाय ते नमः ॥ ३ ॥ अनादिरूपकायैव नमः सर्वप्रियंकर । वेदांतवेद्यदेहाय गज- वक्त्राय ते नमः ॥ ४ ॥ अनंतोदरसंस्थाय नानाभोगकराय ते । मायाधाराय मायाया मोहकाय नमो नमः ॥ ५ ॥ अमेयशक्तये तुभ्यमनाधाराय दंष्ट्रिणे । चतुर्बाहुयुतायैव स्वानंदपतये नमः ॥ ६ ॥ सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च । ब्रह्मभूताय देवाय विघ्नहर्त्रे नमोऽस्तु ते ॥ ७ ॥ वक्रतुंड प्रसन्नस्त्वं मह्यं देहि तदानघ । त्वदीयामचलां भक्तिं यया बंधो न विद्यते ॥ ८ ॥ त्वदाज्ञया प्रवृत्तोऽहं तत्र सामर्थ्यमद्भुतम् । सृष्टौ देहि गणाधीश विघ्नहीनं च मे सदा ॥ ९ ॥ अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानन । अतस्त्वं पुत्रभावेन गृहे मे तिष्ठ मायया ॥ १० ॥ त्वं साक्षाद्ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि । तदाहं बंधनान्मुक्तो भविष्यामि च राजसात् ॥ ११ ॥ तव माता पिता स्वामिन् बंधयुक्तौ कृतौ यदि । तदा वेदादिकं सर्वं मिथ्याभूतं भविष्यति ॥ १२ ॥ नामग्रहणमात्रेण ब्रह्मभूयप्रदो भवान् । किं पुनः पुत्रभावेन त्वं चेत् स्थास्यसि मे गृहे ॥ १३ ॥ अन्यच्च लालनं कुर्यां सेवनं पूजनं तथा । निरंतरं प्रपश्येयं भवेयमतुलस्ततः ॥ १४ ॥ ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिः स्वयम् । जगाद तं महाभागं हर्षयन् सर्वभाववित् ॥ १५ ॥ वक्रतुंड उवाच । त्वया यत् प्रार्थितं ब्रह्मन् तदस्तु सकलं किल । सृष्टिकर्तृत्वसामर्थ्यमद्भुतं ते भविष्यति ॥ १६ ॥ निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति । यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा ॥ १७ ॥ तव पुत्रो भविष्यामि तारको माययांशतः । वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः ॥ १८ ॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । मम प्रीतिकरं ब्रह्मन् 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐

खं. १ अ. ४१ पान ९३ ब्रह्मभूयप्रदं तथा ॥ १९॥ इत्युक्त्वांतर्दधे दक्ष वक्रतुंडः प्रतापवान् । ब्रह्माऽपि विमना भूत्वा तत्र वै संस्थितोऽभवत् ॥ २०॥ वक्रतुंडप्रसादेन निर्ममे सकलं जगत् । चराचरमयं सर्वं यथायोग्यं चकार ह ॥ २१ ॥ सृष्ट्वा त्रिभुवनं सर्वं कृतकृत्य इवाऽभवत् । स्थितः स्वसुखनिष्ठः सन् वक्रतुंडं स संस्मरन् ॥ २२ ॥ एकदा वायुवेगेन कंपितः स प्रजापतिः । तस्मात् पुरुषरूपेण दंभश्च प्रकटोऽभवत् ॥ २३ ॥ तत्पुरः पुरुषश्रेष्ठश्चतुर्बाहुधरः खलः । गदाचक्रत्रिशूलास्त्रधनुर्बाणधरो बभौ ॥ २४॥ रूपेण तेजसा पूर्णो वीर्येण ह्यतुलः परः । महाकायो महाबाहुः स्थितः पर्वतसन्निभः ॥ २५ ॥ तं दृष्ट्वा विस्मितो ब्रह्मा पप्रच्छ च नरं ततः । कस्य त्वं कुत आयातः किं कार्यं तेऽत्र वर्तते ॥ २६ ॥ वद मे पृच्छते सर्वं महाबलपराक्रम । धन्योऽसि रूपलावण्ययुक्तः परमशोभनः ॥ २७ ॥ ब्रह्मणो वच आकर्ण्य मेघगंभीरया गिरा । उवाच तं विधातारं स्मयमान इदं वचः ॥ २८ ॥ पुरुष उवाच । विधेऽहं त्वां प्रजानामि प्रभावात् मे च मानद । तवांगकंपसंभूतं मां जानीहि प्रजापते ॥ २९ ॥ देहि मे नाम योग्यं त्वं पुत्रोऽहं ते च सुव्रत । स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ॥ ३० ॥ वचस्तस्य समाकर्ण्य तमूचे पद्मसंभवः । हास्यं कृत्वा महाबाहुः प्रीणयन् वाक्यमादरात् ॥ ३१ ॥ ब्रह्मोवाच । किं मां जानासि पुत्र त्वं दंभेन प्रब्रवीषि रे । अतस्त्वं दंभनामा वै भविष्यसि महाखलः ॥ ३२ ॥ यत्र तत्र गतिस्ते वै भविष्यति महासुर । भोगान्नानाविधान् भुंक्ष्व यथारुचि यथासुखम् ॥ ३३ ॥ एवमुक्तो महाबाहुस्तं जगाम प्रणम्य सः । प्रदक्षिणीकृत्य विधिं क्षितिमंडलमादरात् ॥ ३४ ॥ तत्रागत्य विचारं स कृतवान् मानसे खलः । ब्रह्मणाऽसत्कृतोऽहं वै तस्य गर्वं हराम्यहम् ॥ ३५ ॥ विचार्य सहसा दंभो जगाम शरणं कविम् । तेनोपदिष्टमंत्रेण ब्रह्माणं समतोषयत् ॥ ३६ ॥ एकपादेन तिष्ठन् सन्निराहारपरायणः । तताप तप उग्रं वै वर्षाणामयुतं गतम् ॥ ३७ ॥ तस्यैव तपसा सर्वं व्याकुलं सचराचरम् । न स्थातुमशक्तं स्थाने भयभीतं बभूव ह ॥ ३८ ॥ तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा देवगणैः सह । आययौ तं वरं दातुं तपसा तोषितः प्रभुः ॥ ३९ ॥ काष्ठवत्तं स्थितं वीक्ष्य विस्मितः कमलासनः । जगाद तं महाभागं हर्षयन्निव भाषया ॥ ४० ॥ ब्रह्मोवाच । वरं वृणु महाभाग यं यं मनसि संस्थितम् । ईप्सितं पूरयिष्यामि नात्र कार्या विचारणा ॥ ४१ ॥ ब्रह्मणो वचनं श्रुत्वा दंभः परमहर्षितः । तं प्रणम्य प्रतुष्टाव बद्धांजलिपुटो बली ॥ ४२ ॥ दंभ उवाच । नमस्ते सृष्टिकर्त्रे वै सृष्टिपात्रे प्रजापते । सृष्टिहर्त्रे त्रिरूपाय ब्रह्मविष्णुशिवात्मने ॥ ४३ ॥ त्वया ततमिदं सर्वं त्वदाधारं महाप्रभो ।