मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 804, कुल 1023 में से
संदर्भ में पढ़ेंतं प्रणम्य गणाधीशं कश्यपो हर्षसंयुक्तः । दित्या कर्मपरो भूत्वा ब्राह्मणांश्च समाह्वयत् ॥१५॥ ततश्चतुर्भुजेनैव मायाऽऽक्षिप्ता तयोर्हृदि । पुत्रभावप्रकाशार्थं तथा तौ संबभूवतुः ॥१६॥ स्नापयित्वा दितिर्बालं स्तनपानमकारयत् । जातकर्म चकारैव कश्यपो हर्षसंयुक्तः ॥१७॥ द्वादशेऽह्नि द्विजास्तत्र नामकर्मार्थमाययुः । पूजिताः कश्यपेनैव तमूचुर्हर्षसंयुताः ॥१८॥ स्वर्गेषु देवपांश्चाऽयं नरान् पृथ्व्यां तथा तले । असुरान् नागकूमांदीन् स्थापयिष्यति बालकः ॥१९॥ तत्त्वानि चालयन् विप्र तस्मान्नाम्ना चतुर्भुजः । चतुर्णां विविधानां च स्थापकोऽयं मतो बुधैः ॥२०॥ मुद्गल उवाच । ततो वर्षे द्वितीयेऽस्य प्रह्लादप्रमुखाः परे । प्रपेलुर्हन्यमानास्तैर्देवैर्विष्णुमुखैर्विधे ॥२१॥ सर्वं त्यक्त्वाऽसुरेशानाः पातालं विविशुर्भयात् । देवानां च स्वयं विष्णुः क्रोधयुक्तो बभूव ह ॥२२॥ इंद्राद्यैः सहितः सोऽपि सन्नद्धश्चक्रसंयुतः । आययौ दैत्यनाशार्थं पातालेषु महाबलः ॥२३॥ चक्रं तत्याज देवेशस्तेन दैत्या मृता मृधे । केचिद् दुःखसमायुक्ताः प्रपेलुश्छिन्नदेहकाः ॥२४॥ शरणं केशवं चैव केचिज्जग्मुः प्रजापते । तथापि तान् महाविष्णुर्जघान क्रोधसंयुतः ॥२५॥ असुरैर्विगतं विश्वं कर्तुं चैव समुद्यतः । दैत्येंद्रा भयसंयुक्ता दितिं ययुः शरण्यदाम् ॥२६॥ छिन्नभिन्नकृतांगांस्तान् दितिर्दृष्ट्वा शुशोच ह । ततः क्रोधयुतः सोऽपि बभूवे गणनायकः ॥२७॥ तत्याज परशुं तीक्ष्णं देवान् हन्तुं चतुर्भुजः । परशोस्तेजसा सर्वं व्याप्तं पातालमंडलम् ॥२८॥ व्यर्थरूपाणि शस्त्राणि चक्रादीन्यभवन् मृधे । देवा दाहसमायुक्ताः प्रपेलुश्च दिशो दश ॥२९॥ ततस्तत्र ययौ ब्रह्मा बोधयामास केशवम् । पातालं त्यज्य सर्वे ते ययुः स्वर्गं भयान्विताः ॥३०॥ परशोस्तेजसा तत्र संदग्धा इव देवपाः । न शांतिं प्रलभंते स्म हाहाकाररवाकुलाः ॥३१॥ ततः शंभू रविर्ब्रह्मा केशवस्तुष्टुवुः परम् । परशुं भयसंयुक्ता देवैर्मुनिगणैः सह ॥३२॥ शांतियुक्तं महास्त्रं तद्बभूवे च प्रजापते । ततो देवेंद्रकाः सर्वे चतुर्भुजं ययुः पुरा ॥३३॥ तं प्रणम्य भयोद्विग्ना मुनिभिर्देवनायकाः । नत्वाऽऽपूज्य गणेशानं तुष्टुवुः करसंपुटाः ॥३४॥ देवर्षय ऊचुः । नमस्ते काश्यपायैव चतुर्भुजाय ढुंढये । अनादये गणेशाय विघ्नेशाय नमो नमः ॥३५॥ परेशाय परेषां च पतये परमात्मने । विनायकाय विप्रेभ्यो वरदाय नमो नमः ॥३६॥ लंबोदराय सर्वेषामुदरस्थाय ते नमः । महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥३७॥ क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे । शूद्राणां शूद्रधर्माय वर्णहीनाय ते नमः ॥३८॥ गृहस्थानां गृहस्थाय ब्रह्मचर्याय सर्वप । ब्रह्मचारिस्वरूपाणां वनस्थानां तदात्मने ॥३९॥ न्यासिनां न्यासधर्मायाश्रमहीनाय ते नमः । चतुर्षु ते पंचमाय