भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 805, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 805

[खं. ७ अ. १५] [पान ३५]

हेरंबाय नमो नमः ॥४०॥ स्वानंदवासिने तुभ्यं सिद्धिबुद्धिवराय च । एकदंताय देवायासुराय ते नमो नमः ॥४१॥ अनाथानामनाथाय सनाथानां सनाथक । ईश्वराणां महेशाय विष्णवे ते नमो नमः ॥४२॥ ब्रह्मणे भानवे तुभ्यं शक्तये सर्वरूपिणे । देवादिभ्यः प्रदात्रे ते पदानां वै नमो नमः ॥४३॥ किं स्तुमस्त्वां चतुर्णां च चालकं स्वभुजैः परम् । अतस्त्वां प्रणमामो वै चतुर्भुज प्रसीद नः ॥४४॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । स तानुवाच प्रीतात्मा भक्तान् भक्तजनप्रियः ॥४५॥ चतुर्भुज उवाच । वरान् ब्रूत महादेवा मुनयो मत्त ईप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भवतां भयवर्जिताः ॥४६॥ स्तोत्रं भवत्कृतं देवाः सर्वसिद्धिप्रदं भवेत् । पठतां शृण्वतां चैव भयनाशकरं परम् ॥४७॥ विशेषतः पुत्रपौत्रादिकं सर्वं लभेन्नरः । धनधान्यादिकं चांते मल्लोकं पठनात् परम् ॥४८॥ एवं तस्य वचः श्रुत्वा देवा मुनिसमन्विताः । भयहीनाः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥४९॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि चतुर्भुज । तदा ते पादपद्मे वै भक्तिरस्तु निरंतरम् ॥५०॥ आज्ञां कुरु महाभाग तथा वर्तामहे वयम् । दितिजदैत्यसंत्रासतापिताः सततं वयम् ॥५१॥ चतुर्भुज उवाच । अद्य प्रभृति देवेशाः पातालस्थान् महासुरान् । मा हिंस्यथ महाभागा मया संस्थापितान् पुरा ॥५२॥ स्वर्गेषु चामरस्थानं पृथिव्यां च नृणां सदा । पाताले दानवादीनां स्वधर्मस्था भवंतु ते ॥५३॥ यदि भूत्वा विपथगा इमे गर्वेण मोहिताः । सिद्धिर्न भविता तेषां मद्वाक्यान्नात्र संशयः ॥५४॥ तथेति तं प्रणम्यैव देवाः स्वस्थानमाययुः । तदादि दानवान् देवा न जघ्नुः स्थलसंश्रितान् ॥५५॥ चतुर्भुजश्च दैत्येंद्रान् सर्वानाज्ञापयत् प्रभुः । ते तथेति तमुच्चार्य हर्षिताः स्वस्थलं ययुः ॥५६॥ ततश्चतुर्भुजो देवोऽंतर्दधे च प्रजापते । कश्यपो दितिसंयुक्तः शुशोच तमनुस्मरन् ॥५७॥ पितरौ वाक्यमूचे सा वाणी चाऽकाशसंभवा । स्थाप्य मूर्तिं गणेशस्य भजतं नित्यमादरात् ॥५८॥ तथा चकार दित्या स कश्यपो ब्राह्मणैः सह । स्थापयामास मूर्तिं वै चतुर्भुजस्य सर्वदाम् ॥५९॥ हृदि चिंतामणिं ध्यात्वा बहिः पूज्य चतुर्भुजम् । संस्थितौ भक्तियुक्तौ दितिकश्यपकौ किल ॥६०॥ आसुरं भावमुत्सृज्य दितिर्भक्तिसमन्विता । गाणपत्यस्वभावेनाऽभजत्तं तु चतुर्भुजम् ॥६१॥ एतच्चतुर्भुजस्यैव चरितं कथितं मया । विघ्नराजकलारूपोऽवतारोऽयमुदाहृतः ॥६२॥ य इदं शृणुयान् मर्त्यः श्रावयेद्वा पठेत् स तु । भुक्तिं मुक्तिं लभेद्व्रह्म भक्तिं विघ्नेश्वरे पराम् ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते चतुर्भुजावतारविक्रमवर्णनं नाम पंचदशोऽध्यायः ॥