भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

[खं. ७ अ. १५] [पान ३५]

हेरंबाय नमो नमः ॥४०॥ स्वानंदवासिने तुभ्यं सिद्धिबुद्धिवराय च । एकदंताय देवायासुराय ते नमो नमः ॥४१॥ अनाथानामनाथाय सनाथानां सनाथक । ईश्वराणां महेशाय विष्णवे ते नमो नमः ॥४२॥ ब्रह्मणे भानवे तुभ्यं शक्तये सर्वरूपिणे । देवादिभ्यः प्रदात्रे ते पदानां वै नमो नमः ॥४३॥ किं स्तुमस्त्वां चतुर्णां च चालकं स्वभुजैः परम् । अतस्त्वां प्रणमामो वै चतुर्भुज प्रसीद नः ॥४४॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । स तानुवाच प्रीतात्मा भक्तान् भक्तजनप्रियः ॥४५॥ चतुर्भुज उवाच । वरान् ब्रूत महादेवा मुनयो मत्त ईप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भवतां भयवर्जिताः ॥४६॥ स्तोत्रं भवत्कृतं देवाः सर्वसिद्धिप्रदं भवेत् । पठतां शृण्वतां चैव भयनाशकरं परम् ॥४७॥ विशेषतः पुत्रपौत्रादिकं सर्वं लभेन्नरः । धनधान्यादिकं चांते मल्लोकं पठनात् परम् ॥४८॥ एवं तस्य वचः श्रुत्वा देवा मुनिसमन्विताः । भयहीनाः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥४९॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि चतुर्भुज । तदा ते पादपद्मे वै भक्तिरस्तु निरंतरम् ॥५०॥ आज्ञां कुरु महाभाग तथा वर्तामहे वयम् । दितिजदैत्यसंत्रासतापिताः सततं वयम् ॥५१॥ चतुर्भुज उवाच । अद्य प्रभृति देवेशाः पातालस्थान् महासुरान् । मा हिंस्यथ महाभागा मया संस्थापितान् पुरा ॥५२॥ स्वर्गेषु चामरस्थानं पृथिव्यां च नृणां सदा । पाताले दानवादीनां स्वधर्मस्था भवंतु ते ॥५३॥ यदि भूत्वा विपथगा इमे गर्वेण मोहिताः । सिद्धिर्न भविता तेषां मद्वाक्यान्नात्र संशयः ॥५४॥ तथेति तं प्रणम्यैव देवाः स्वस्थानमाययुः । तदादि दानवान् देवा न जघ्नुः स्थलसंश्रितान् ॥५५॥ चतुर्भुजश्च दैत्येंद्रान् सर्वानाज्ञापयत् प्रभुः । ते तथेति तमुच्चार्य हर्षिताः स्वस्थलं ययुः ॥५६॥ ततश्चतुर्भुजो देवोऽंतर्दधे च प्रजापते । कश्यपो दितिसंयुक्तः शुशोच तमनुस्मरन् ॥५७॥ पितरौ वाक्यमूचे सा वाणी चाऽकाशसंभवा । स्थाप्य मूर्तिं गणेशस्य भजतं नित्यमादरात् ॥५८॥ तथा चकार दित्या स कश्यपो ब्राह्मणैः सह । स्थापयामास मूर्तिं वै चतुर्भुजस्य सर्वदाम् ॥५९॥ हृदि चिंतामणिं ध्यात्वा बहिः पूज्य चतुर्भुजम् । संस्थितौ भक्तियुक्तौ दितिकश्यपकौ किल ॥६०॥ आसुरं भावमुत्सृज्य दितिर्भक्तिसमन्विता । गाणपत्यस्वभावेनाऽभजत्तं तु चतुर्भुजम् ॥६१॥ एतच्चतुर्भुजस्यैव चरितं कथितं मया । विघ्नराजकलारूपोऽवतारोऽयमुदाहृतः ॥६२॥ य इदं शृणुयान् मर्त्यः श्रावयेद्वा पठेत् स तु । भुक्तिं मुक्तिं लभेद्व्रह्म भक्तिं विघ्नेश्वरे पराम् ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते चतुर्भुजावतारविक्रमवर्णनं नाम पंचदशोऽध्यायः ॥

खं. ७ अ. १६ | पान ३६

॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। ततो बहौ गते काले दैत्येंद्रा बलसंयुताः। देवान् जेतुं सन्नद्धा बभूवुः क्रोधसंयुताः ॥१॥ प्रह्लादं मुख्यकं कृत्वा ब्रह्मशापेन मोहितम्। आयुयुस्तां प्रणेमुस्ते दितिं कश्यपसंयुताम् ॥२॥ तानुवाच स्वयं देवी दितिः क्रोधसमन्विता। मा गच्छत महादुष्टाः धर्मं संत्यज दैत्यपाः ॥३॥ चतुर्भुजेन देवेशाः स्थापिताः स्वर्गभूमिषु। पाताल- विवरेष्वत्र यूयं राज्यसमन्विताः ॥४॥ प्रणम्य तामनादृत्य दैत्येशा लोभसंयुताः। ययुर्देवजयार्थे ते ह्यधर्मेण प्रणोदिताः ॥५॥ दितिः कश्यपसंयुक्ता दैत्यानां सुदुरात्मनाम्। पक्षं त्यक्त्वा गणेशानमभजद् भक्तिसंयुता ॥६॥ एवं वै देवपक्षं सा त्यक्त्वा मुनिसमन्विता। अदितिस्तं स्वपुत्रं चाभजद्विनायकं परम् ॥७॥ दैवीं प्रकृतिमुत्सृज्य मृन्मूर्तिस्थं विनायकम्। योगभावेन भक्त्या तमभजत्प्रेमसंयुता ॥८॥ विनतायास्तथा दक्ष कश्यपेनोपदेशिताः। शांतियुक्ता गणेशानमभजन् प्रेमसंयुताः ॥९॥ दक्ष उवाच। दैवीं तु प्रकृतिं त्यक्त्वा तथाऽऽसुरीं महामुने। कथं गणेश्वरं भक्त्या भजंति वद मानवाः ॥१०॥ मुद्गल उवाच। सकामिकं करोति चेन्नरः कर्म यथाविधि। आसुरं तत् समाख्यातं देहसौख्यकरं यतः ॥११॥ निष्का- मिकं करोति चेन्नरः दैवं प्रकीर्तितम्। विधियुक्तं कर्म दक्ष मुक्तिदं तन्मतं बुधैः ॥१२॥ स्वधर्मस्थैर्जनैः कर्म क्रियते विविधं परम्। देहधर्मं समाज्ञाय योगरूपं च तत् स्मृतत् ॥१३॥ तदेव देवप्रीत्यर्थं कर्म भक्तिमयं मतम्। भक्तिभावार्थमानंदात् सस्त्रीको मुनिराकरोत् ॥१४॥ एतत्ते कथितं सर्वं विघ्नराजचरित्रकम्। सर्वसिद्धिप्रदं पूर्णं शांतिदं भक्तिकारणम् ॥१५॥ एवं नानाऽवताराश्च विघ्नराजस्य मानद। तेषां चरित्रकं केन वक्तुं नैव प्रशक्यते ॥१६॥ अयं विघ्नेश्वरो देवः समस्वानंदगो भवेत्। सत्यासत्ये विनिर्माय प्रभुः क्रीडति मायया ॥१७॥ पूर्णयोगमयश्चायं विघ्नराजः प्रकीर्तितः। तस्यार्थं शृणु भावेन ब्रह्मबुद्धिप्रकाशकम् ॥१८॥ संप्रज्ञातमयं ब्रह्माऽसंप्रज्ञातगतं तथा। अमयुक्तं महाविघ्नसंयुक्तं नात्र संशयः ॥१९॥ भ्रमहीनं तदेवापि विघ्नहीनं प्रकीर्तितम्। ब्रह्मणि ब्रह्मभूतं चेन्नोभयं तत्र विद्यते ॥२०॥ विश्वेषां विघ्नराजोऽयं विघ्नकर्ता प्रजापते। विघ्नहर्ता स्वयं साक्षाद्ब्रह्मणं च निरंतरम् ॥२१॥ स्वयं विघ्नयुतो नैव विघ्नहीनो न विद्यते। एवं ज्ञात्वा नरो ब्रह्मभूतो भवति विघ्नपम् ॥२२॥ इदं वैघ्नेश्वरं चित्रं चरितं संशृणोति यः। पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥२३॥ प्रसन्ने विघ्नराजेंद्रे किं किं वै दुर्लभं भवेत्। सर्वसिद्धियुतः सोऽन्ते नरो ब्रह्मैव जायते ॥२४॥ नानेन सहशं किंचित् पावनं कुत्र वर्तते। भुक्तिमुक्तिप्रदं दक्ष चरित्रं संश्रुतं त्वया ॥२५॥ पंचाग्निसाधनादीनि तपांसि विविधानि यः।

खं. ७ अ. १६ पान ३७ कुर्यात्तेभ्योऽधिकं पुण्यमस्य श्रवणतो लभेत् ॥२६॥ तीर्थानि विविधान्येव साधयित्वा फलं लभेत् । तेभ्योऽधिकं लभेत् पुण्यं खंडस्यास्य श्रवान्नरः ॥२७॥ यज्ञानां सांगजातानां फलं तस्मात् प्रजापते । अधिकं श्रवणादस्य लभेत् खंडस्य मानवः ॥२८॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । तेभ्योऽधिकं लभेत्तस्य श्रवणान्नात्र संशयः ॥२९॥ पुत्रपौत्रादिसंयुक्तो धनधान्यादिसंयुतः । आरोग्येण नरो युक्तो भवेदस्य तु संश्रवात् ॥३०॥ वंध्यादिदोषभावेन पीडितो यदि मानवः । अस्य श्रवणमात्रेण पीडाहीनो भवेत् सदा ॥३१॥ यस्य गेहे स्थितश्चायं खंडो विघ्नेशभक्तिदः । कदा तस्य पिशाचेभ्यश्चौरादिभ्यो भयं न हि ॥३२॥ नाग्निभूतं न भूतेभ्यो भयं राजभवं कदा । ग्रहेभ्यो राशिसंस्थेभ्यः पूतनादिभयं न च ॥३३॥ धर्मार्थ- काममोक्षाणां दायकोऽयं प्रकीर्तितः । ब्रह्मभूयप्रदः साक्षाच्छ्रवणेन न संशयः ॥३४॥ बहुनाऽत्र किमुक्तेन यत्र विघ्नपतिः स्वयम् । संस्थितस्तेन सामान्यं भविष्यति किमप्यहो ॥३५॥ इति ते कथितं सर्वं विघ्नराजस्य चेष्टितम् । भज त्वं सर्वभावेन गणेशं सुखमाप्स्यसि ॥३६॥ न श्राव्यं दुर्जनायेदं चरित्रं सर्वसिद्धिदम् । साधवे गाणपत्याय श्राव्यं यत्नेन मानद ॥३७॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हृष्टमनास्तं तु प्रणनाम कृतांजलिः ॥३८॥ मया ते कथितं पूर्णं चरित्रं विघ्नपस्य यत् । यथा मुद्गलवक्त्राच्च निःसृतं तादृशं परम् ॥३९॥ भवतां संगयोगेन पावितोऽहं न संशयः । श्रोतुमिच्छसि किं भूयो वद शौनक ते हितम् ॥४०॥ विघ्नराजसमं नैव यथा विप्र तथा परम् । चरित्रं विघ्नराजस्य सर्व- सिद्धिप्रदायकम् ॥४१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणे सप्तमः खंडः समाप्तः ॥ ॥ श्रीगजाननार्पणमस्तु ॥

॥ इति श्रीमुद्गलपुराणे सप्तमः खंडः समाप्तः ॥

॥ अथ श्रीमुद्गलपुराणे अष्टमः खंडः प्रारभ्यते ॥

[Page Header] खं. ८ अ. १ | पान १

[Main Text] ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । विघ्नराजचरित्रं तु श्रुतं सर्वप्रदं परम् । ममनाशकरं पूर्णं त्वत्तोऽस्माभिर्महामते ॥१॥ धन्योऽसि ज्ञानयुक्तोऽसि व्यासतुल्योऽसि निश्चितम् । व्यासाधिकोऽथवा किं नु शिष्यस्तस्य महात्मनः ॥२॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते तत् कथामृतम् । माहात्म्यं धूम्रवर्णस्याधुना वद सुखप्रदम् ॥३॥ सूत उवाच । शृणु शौनक माहात्म्यं धूम्रवर्णस्य सर्वदम् । यथा व्यासाच्छ्रुतं पूर्णं तथा ते कथयाम्यहम् ॥४॥ श्रुत्वा विघ्नेशमाहात्म्यं दक्षो हृष्टमना अभूत् । प्रणम्य मुद्गलं सोऽपि पप्रच्छ विनयान्वितः ॥५॥ दक्ष उवाच । विघ्नेशस्य श्रुतं पूर्णं माहात्म्यं सर्वसिद्धिदम् । न तृप्तोऽहं महायोगिन्नमृतादधिकं यतः ॥६॥ अधुना धूम्रवर्णस्य माहात्म्यं वद विस्तरात् । कीदृशांडशमयश्चायं गणेशो धूम्रवर्णकः ॥७॥ कीदृशं ब्रह्म तस्यैव केन योगेन लभ्यते । कति तस्यावताराश्च किं कर्मा कीदृशं महः ॥८॥ केन संसाधितो देवो देहधारी बभूव ह । कं दैत्यं वशमानीय धर्ममास्थापयत् प्रभुः ॥९॥ इत्यादि सर्वमाहात्म्यं वद योगींद्र सत्तम । ब्रह्मांड त्वत्समं नास्ति ब्रह्मदायकपात्रकम् ॥१०॥ सूत उवाच । एवं पृष्टो महायोगी मुद्गलः शौनकोऽब्रवीत् । दक्षं हृष्टमनाः साक्षात् ज्ञात्वा भक्तियुतं परम् ॥११॥ मुद्गल उवाच । दक्ष त्वं योगिवर्योऽसि निश्चितं सर्वभावतः । नान्यथा गणनाथस्य कथायां जायते रसः ॥१२॥ धूम्रवर्णावतारस्य चरितं सर्वसिद्धिदम् । कथयिष्यामि भक्त्या ते समासेन प्रजापते ॥१३॥ विस्तरेण शिवाद्याश्च वेदाद्या न बभूविरे । समर्थास्तत्र कोऽहं तु स्वल्पज्ञानप्रधारकः ॥१४॥ अत्र ते कथयिष्यामि चेतिहास पुरा भवम् । शेषस्य शंकरस्यैव संवादेन समन्वितम् ॥१५॥ प्रणम्य शेषनागश्च एकदा शंकरं पुरा । पप्रच्छ सिद्धिदं पूर्णं सर्वज्ञं करुणानिधिम् ॥१६॥ त्वत्तः परतरं नास्ति वेदश्रुतिप्रमाणतः । त्वं ध्यानसंयुतः स्वामिन् भजसे कं शिवं परम् ॥१७॥ अतः संशययुक्तोऽहं पृच्छामि सर्वभावतः । किं मोहार्थं महेशान करोषि चेष्टितं नवम् ॥१८॥ मुद्गल उवाच । एवं पृष्टः शिवः साक्षात्तमुवाच सुहर्षितः । भक्तं योगप्रियं दृष्ट्वा साधु चेष्टासमन्वितम् ॥१९॥ शिव उवाच । एवं पृष्टोऽहमेकांते सनकाद्यैर्महाप्रियैः । तत्तेऽहं शृणु वक्ष्यामि ज्ञानं गाणेशबोधकम् ॥२०॥ एकदा सनका- द्याश्च दृष्ट्वा मां नियमे रतम् । पप्रच्छुस्त्वं यथा शेष तथा संशयसंयुताः ॥२१॥ सनकाद्या ऊचुः । महेश्वरो भवान् साक्षा- त्तवेशो नैव विद्यते । कं ध्यायसि महादेव मिथ्या मोहप्रदायक ॥२२॥ तेषां तद्वचनं श्रुत्वा हर्षितोऽहं च काश्यप । ऊचे योगं गणेशाख्यं पूर्णशांतिप्रदायकम् ॥२३॥ ईशत्वमनीशत्वं च मायायुक्तं न संशयः । ब्रह्मणि ब्रह्मभूतस्य कथं तद्वर्तते

खं. ८ अ. १ पान २

द्विजाः ॥२४॥ येनेशत्वं च मे दत्तमनीशत्वं तथाऽपरम् । जनेभ्यस्तं गणाधीशं जज्ञेऽहं भक्तिसंयुतः ॥२५॥ अहंकारयुताः सर्वे न जानंति गजाननम् । तं जित्वाऽहं मुनींद्राश्च सेवे तस्य पदद्वयम् ॥२६॥ शिवस्य वचनं श्रुत्वा सनकाद्यास्तमब्रुवन् । विस्मिता भावसंयुक्ता गणेशज्ञानलालसाः ॥२७॥ सनकाद्या ऊचुः । अभिमानं महादेव जेतुं नैव प्रशक्यते । वेदादिभिः च देवेशैरस्माभिश्चान्ययोगिभिः ॥२८॥ नरोऽहं देवरूपोऽहं आत्माहं खस्वरूपकः । ब्रह्माहं च महेशान अहं तेषु प्रति- ष्ठितः ॥२९॥ अहं केनैव योगेन सदाशिव जितस्त्वया । वद तस्य चरित्रं नो विस्तरेण सुशांतिदम् ॥३०॥ श्रीशिव उवाच । अहं ब्रह्मणि विप्रेशा गतो ब्रह्मास्मिना सह । महावाक्यमये योगे ब्रह्माऽहं दृश्यते न च ॥३१॥ अहं नास्ति तथा ब्रह्म नेति ब्रह्माहमंजसा । बोधार्थं साधनं चेदं महावाक्यं स्मृतं परम् ॥३२॥ ततः संशयसंयुक्ता सनकाद्यास्तमब्रुवन् । न बुद्धं वचनं नाथ त्वदीयं दुर्गमं परम् ॥३३॥ अतः सुलभयोगेन वद योगं महेश्वर । दयया शिष्यमुख्यांश्च तारणाय सुशांति- दम् ॥३४॥ श्रीशिव उवाच । अत्र वः कथयिष्यामि चेतिहासं पुरातनम् । अहम्भावविनाशार्थमहंकारस्य सौख्यदम् ॥३५॥ एकदा ज्योतिषां नाथः सूर्य आत्मा शरीरिणाम् । ब्रह्मणां चाभिषिक्तः स कर्मणां राज्यकर्मणि ॥३६॥ स प्राप्य राज्य- मुग्रं तत् कर्मणां ज्योतिषां पतिः । अभिमानयुतोऽत्यंतं बभूवे देवदेवपः ॥३७॥ कर्मणा सृष्टिकर्ता वै ब्रह्मा लोकपितामहः । पालकः कर्मणा विष्णुर्हरः संहारकोऽभवत् ॥३८॥ कर्मणाऽन्नप्रभावेण पोषिका शक्तिरेव च । कर्माधीनं जगत् सर्वं सेश्वरं नात्र संशयः ॥३९॥ सोऽहं कर्ममयो देवः कर्मणां चालकः परः । मदधीनमिदं भाति भानुरेवं सुगर्वितः ॥४०॥ अहंकारेण संयुक्तश्छिङ्कां चक्रे कदा प्रभुः । तस्य छिङ्कासमुत्पन्नः पुरुषः सुन्दराकृतिः ॥४१॥ स पपात महीपृष्ठे न ज्ञातस्तेन भानुना । महाकायो विशालाक्षो बलयुक्तो व्यराजत ॥४२॥ तत्राकस्मात् समायातः शुक्रः सर्वार्थकोविदः । पप्रच्छ हर्षसंयुक्तस्तं दृष्ट्वा भावसंयुतः ॥४३॥ शुक्र उवाच । कोऽसि त्वं कुत्र ते वासः कर्तुमिच्छसि किं वद । माता पिता च ते त्राता कः किं मत्त इहेच्छसि ॥४४॥ पुरुष उवाच । सूर्यपुत्रो द्विजश्रेष्ठ तस्य छिङ्कासमुद्भवः । अनाथोऽहं महाभाग पतितो धरणीतले ॥४५॥ त्वं दयायुक्तभावेन मां पृच्छसि न संशयः । त्वदधीनो भविष्यामि शाधि मां मुनिसत्तम ॥४६॥ श्रीशिव उवाच । तस्य तद्वचनं श्रुत्वा शुक्को योगविदांवरः । ध्यानेनालोक्य तत्कर्म तमुवाच शुभावहम् ॥४७॥ शुक्र उवाच । अहम्भावात् समुत्पन्नस्त्वं सूर्यान्नात्र संशयः । अहंनामा भवस्वाद्य तपः कुरु महामते ॥४८॥ एवमुक्त्वा

खं. ८ अ. २ पान ३ ददौ तस्मै गाणेशं षोडशाक्षरम् । मंत्रं विधिसमायुक्तं ततः सोऽंतर्हितोऽभवत् ॥४९॥ अहं तत्र तपस्तेपे ध्यात्वा गणपतिं हृदि । निराहारपरो भूत्वा जपमंत्रपरायणः ॥५०॥ शीतोष्णवातवर्षादिसहने दृढनिश्चयः । जित्वा खानि प्रयत्नेन तोषयामास विघ्नपम् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । एवं वर्षसहस्रेण तं दिव्येन गजाननः । ययौ प्रसन्नभावेन भक्त्या वरार्थमादरात् ॥१॥ आखुवाहस्त्रिनेत्रश्च गजवक्त्रो महोदरः । चतुर्भुजश्च पाशाद्यैः शोभितः सिद्धिवुद्धियुक् ॥२॥ एकदंतः शूर्पकर्णो देवैर्मु निसम- न्वितैः । संस्तुतः स्वगणैश्चैव सेवितः सर्वदायकः ॥३॥ तं दृष्ट्वाऽहं समुत्थाय प्रणामं कृतांजलिः । पूजयामास विघ्नेशं सिद्धि- बुद्धिसमन्वितम् ॥४॥ ततः क्रमेण देवान् स मुनीन् पूज्य पुनः प्रभुम् । प्रणनाम प्रतुष्टाव गणेशं प्रकृतांजलिः ॥५॥ अहमुवाच । नमस्ते गणनाथाय हेरंबाय परात्मने । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥६॥ ब्रह्मसु ब्रह्मनाथाय निजेषु स्वस्वरूपिणे । सांख्याय ते परत उत्थानस्थेषु नमो नमः ॥७॥ ज्ञानेषु बोधरूपाय सोऽहंदेहिषु ते नमः । देहेषु बिंदुरूपाय विघ्नेशाय नमो नमः ॥८॥ स्रष्टृषु ब्रह्मदेवाय विष्णवे पालकेषु ते । संहर्तृषु शिवायैवैकदंताय नमो नमः ॥९॥ प्रकाशकेषु सूर्याय मोहकेषु च शक्तये । देवेषु देवराजाय विनायकाय ते नमः ॥१०॥ अग्नये ते दाहकेषु यमाय नीतिधारिणाम् । रक्षःसु नैर्ऋतायैव शूर्पकर्णाय ते नमः ॥११॥ वायवे बलयुक्तेषु निधिषु धनपाय ते । रुद्रेषु कालरूपाय नमो लंबोदराय वै ॥१२॥ प्रजापतिषु दक्षाय नागेशे शेषरूपिणे । अनंतविभवायैव किं ते स्तौमि नमो नमः ॥१३॥ यं स्तोतुं न समर्थाश्च वेदाद्या योगिनोऽमलाः । तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः ॥१४॥ धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता । माता कुलं तथा ज्ञानं त्वदंघ्रियुगदर्शनात् ॥१५॥ एवमुक्त्वा गणेशानं प्रणनाम महासुरः । हर्षेण महता युक्तस्तमुवाच गजाननः ॥१६॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते शृण्वते चैव मयि भावप्रदायकम् ॥१७॥

पुत्रपौत्रादिकं सौख्यं भुक्तिं मुक्तिं लभेन्नरः । अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् ॥१८॥ वरान् वृणु महाभाग मनेप्सितान् ददाम्यहम् । तपसा स्तोत्रमुख्येन तुष्टोऽहं ते महादरात् ॥१९॥ अहमुवाच । प्रसन्नोऽसि यदा नाथ भक्तिं देहि त्वदीयिकाम् । यद्यदिच्छामि तत्तन्मे सफलं सर्वदाऽस्तु च ॥२०॥ मायाविकारयुक्तेभ्यो मरणं नैव मे भवेत् । राज्यं ब्रह्मांड- गोलस्य देहि मे भोगसंयुक्तम् ॥२१॥ आरोग्यं विजयं ढुंढे संग्रामे ह्यतुलं तथा । अमोघास्त्रं सदा मेऽस्तु त्वत्प्रसादाच्च देहि भोः ॥२२॥ तथेति तमहं देवो जगाद गणनायकः । अंतर्धाय स्वमात्मानं निजलोकं जगाम ह ॥२३॥ ततोऽतिहर्षसंयुक्तोऽहं जगाम कविं पुनः । तं प्रणम्य स्ववृत्तांतं कथयामास विस्तरात् ॥२४॥ श्रुत्वा मुनिवरः सोऽपि तं प्रशंस्य महासुरम् । असुरानाह्वयामास श्रेष्ठान् काव्यो महामतिः ॥२५॥ तस्याज्ञया त्वरावंतो मुनिं सर्वे समागताः । असुरांस्तान् महातेजा हितं काव्यो जगाद वै ॥२६॥ अहमासुरवृत्तांतं श्रुत्वा ते शुक्रवक्त्रतः । हर्षितास्तं प्रणम्यादौ जगुर्वचो हितावहम् ॥२७॥ असुरा ऊचुः । आज्ञापय महायोगिन् कार्यं चेतोगतं प्रभो । करिष्यामो वयं दासास्त्वत्पादस्य जवान्विताः ॥२८॥ तेषां वचनमाकर्ण्य काव्यः सर्वार्थकोविदः । ब्राह्मणान् वेदनिष्ठांश्च समानाय्य पुपूज ह ॥२९॥ तैरहं सिंचयामासासुराणां राज्यकर्मणि । यथाशास्त्रविधानेन दैत्याधीशं चकार ह ॥३०॥ प्रधानास्तस्य पंचाऽसन् सुहृदास्तेजसा युताः । शंखो वेदघ्नकः कालः पैशुनो- ऽधर्मधारकः ॥३१॥ नगरं निर्ममे सोऽपि विषयप्रियनामकम् । अहमासुरकस्तत्र राज्यं चकार हर्षतः ॥३२॥ समायाता निवासार्थं जना वर्गाश्रमन्विताः । असुरा विविधाश्चैव सुखं लेभुः समास्थिताः ॥३३॥ प्रमादासुरपुत्रीं वै ममतां रूप- शालिनीम् । तस्मै ददौ प्रपादश्च यौवनस्थां महात्मने ॥३४॥ ममतासंयुक्तो रेमे दैत्येंद्रोऽहं प्रहर्षितः । मोहितो मायया तस्या ममताया वशे स्थितः ॥३५॥ तस्यां पुत्रौ महावीर्यौ जनयामास दैत्यपः । गर्वश्रेष्ठौ तयोर्नाम चक्रुः सर्वे द्विजातयः ॥३६॥ एवं बहौ गते काले तमुवाच प्रमादकः । किं स्थितोऽसि महावीर जय देवादिकान् प्रभो ॥३७॥ वरदानबलेन त्वं निर्भयोऽसि न संशयः । वराणां सफलं सर्वं कुरु भोगपरं महः ॥३८॥ तथेति श्वशुरं सोऽपि जगादाऽहं प्रतापवान् । समानाय्य कविं तत्र पूजयामास दैत्यपैः ॥३९॥ तस्याऽज्ञां गृह्य दैत्येशः परान् दैत्यान् समाह्वयत् । तैः संयुतः स शुक्रेण प्रधानैः शुशुभेऽसुरः ॥४०॥ दिग्विजयार्थमहं तत्र सर्वानाज्ञापयत् प्रभुः । सन्नद्धास्तं समाजग्मुर्दैत्या परमदारुणाः ॥४१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥

शीर्षक (Header): खं. ८ अ. ३ । पान ५


॥ श्रीगणेशाय नमः ॥ शिव उवाच । रथारूढः स्वयं तन्नाहं निर्जगाम दैत्यपैः । पुत्रौ तथा प्रधानांश्च सन्नद्वा असुरा ययुः ॥१॥ नाना वर्णा महाक्रूराः कालस्य भयदायकाः । नाना वाहनगाः सर्वे तमनु प्रययुः किल ॥२॥ चतुरंगचमूमध्ये शुशुभे दैत्यनायकः । अपारसेनया युक्तः पृथ्वीं जेतुं मनोदधे ॥३॥ शंखादयो महावीरा नृपान् जग्मुः सुदारुणाः । जित्वा राजकुलं सर्वं समाजग्मुर्महासुरम् ॥४॥ नृपास्तैः किं द्विजा युद्धं करिष्यंति महाबलैः । मृताः केचित् क्षताः केचित् केचित्तान शरणं ययुः ॥५॥ करदांस्ते नृपान् कृत्वा तेषां राज्ये स्वसेवकान् । स्थापयामासुरव्यग्रान् दैत्येंद्रा हर्षसंयुताः ॥६॥ सप्तद्वीपवतीं जित्वा पृथ्वीं पातालमाययुः । दैत्येंद्रा नागमुख्यांस्ते जयार्थं जयशालिनः ॥७॥ शेषो नागयुतस्तेषां शरणं समुपागतः । ज्ञात्वा वरबलं योगी साम चक्रे महासुरैः ॥८॥ वार्षिकं करभारं स स्वीकृत्य स्वस्थलं ययौ । नागेंद्रैः संवृतः शेषो दुःख- युक्तेन चेतसा ॥९॥ तथापि दैत्यमुख्यास्ते दैत्यं दैत्यसमन्वितम् । समीपे तस्य संस्थाप्य ययुरहं महाबलाः ॥१०॥ ततो दैत्येंद्रसंयुक्तः काव्येनाऽहंप्रतापवान् । स्वर्गं ययौ महातेजा वरगर्वसमन्वितः ॥११॥ दूतं संप्रेषयामासाहमिंद्रस्यैव सन्निधौ । स गत्वा देवराजाय प्रणम्यैतद्वचो जगौ ॥१२॥ ततः क्रोधसमायुक्त इंद्रो देवेंद्रमुख्यकैः । विचार्यांगिरसं सर्वैर्जगाम प्रणाम तम् ॥१३॥ तेनापि सत्कृतः सोऽपि जगाद वचनं परम् । सर्वेषां दुःखदं पूर्णं असुराणां जयावहम् ॥१४॥ इंद्र उवाच । अहं वरसमायुक्तः समायातो महाबलः । दूतेन नो वदत्यद्य शरणं याहि देवपैः ॥१५॥ अतः सुरैः समायुक्तो भवंतं सर्ववेदिनम् । समायातो वद स्वामिन् त्वदाज्ञावशगा वयम् ॥१६॥ गुरुरुवाच । गणेश्वरवरदानेन मत्तोऽसौ नात्र संशयः । जेष्यते सकलं तस्माच्छरणं नैव शोभनम् ॥१७॥ अतो वयं विधातारं व्रजामहे त्वरान्विताः । स श्रेष्ठः सर्वभावेन करिष्यति हितं च नः ॥१८॥ ततः सर्वे विधातारं जग्मुर्देवाः सवासवाः । प्रणम्य तं जगुः सर्वे वृत्तांतं दैत्यसंभवम् ॥१९॥ श्रुत्वा खेदयुतो ब्रह्मा गृह्य तान् शंकरं ययौ । तं प्रणम्य जगौ सर्वं स देवो वृत्तमुल्बणम् ॥२०॥ जगाम सोऽपि निःश्वस्य तैः सार्धं विष्णुमादरात् । प्रणम्य कथयामास वृत्तांतं दुःखदायकम् ॥२१॥ श्रुत्वा क्रोधयुतो विष्णुः समाश्वास्य महेश्वरम् । सदेवं तं जगादाऽसौ पराक्रमयुतं वचः ॥२२॥ श्रीविष्णुरुवाच । हनिष्यामि महादैत्यमहं चासुरसंयुतम् । मायायुक्त- त्वमेवं यन् मम तन्न प्रबाधते ॥२३॥ एवमुक्त्वा महादेवं तत्रैवासंस्थितोऽभवत् । देवैः सह महाभागः प्रतीक्षन् दैत्यपौरुषम् ॥२४॥ अहंकारासुरस्तत्र ज्ञात्वा वृत्तांतमादरात् । प्रविवेशामरावत्यां दैत्येंद्रैर्हर्षसंयुक्तः ॥२५॥ इंद्रासनसमारूढः सेव्यमानो-

यहाँ दिए गए पृष्ठ का मूल पाठ (Transliteration/Transcription) निम्नलिखित है:

ऽप्सरोगणैः । गंधर्वैर्गीयमानः स शुशुभे परमश्रिया ॥२६॥ ततो देवपदेषु संस्थापयामास चासुरान् । स्वर्गभोगं चकारैवं दैत्येंद्रैः श्वशुरेण च ॥२७॥ ततः स दैत्यसंघैस्तैः सन्नद्धः प्रययौ द्विजाः । ब्रह्मलोकं महोग्रतं विधिहीनं ददर्श ह ॥२८॥ विवेश हर्षयुक्तस्तन्नगरं दैत्यसंयुतः । ब्रह्मासनसमासीनो बुभुजे विविधान् परान् ॥२९॥ ततः स दैत्यपैः सर्वं ज्ञात्वा वृत्तांतमंजसा । कैलासं भानुलोकं तु शक्तिलोकं ययौ क्रमात् ॥३०॥ तत्र विलाससंयुक्तो बुभुजे विविधान् परान् । विकुंठ- विजयर्थं स प्रययौ दैत्यपैर्वृतः ॥३१॥ दूतं संप्रेषयामास कालं सर्वभयंकरम् । स गत्वा केशवं नत्वा जगौ वै वाक्य- मुल्बणम् ॥३२॥ काल उवाच । अहं त्वसुरसंयुक्त आययौ स महाबलः । तेनाऽहं सामभावार्थं प्रेषितस्ते प्रसन्निधौ ॥३३॥ त्यक्त्वा विकुंठं देवेशैर्गच्छ त्वं यत्र ते रुचिः । नारायण न हन्मि त्वां नोचेद्युद्धोद्यतो भव ॥३४॥ कालस्य वचनं श्रुत्वा केशवः क्रोधसंयुतः । जगाद तं महादैत्यं दहन्निव प्रधर्षयन् ॥३५॥ श्रीविष्णुरुवाच । किं मां पापस्वरूपस्त्वं वदसि मंदविक्रम । हनिष्याम्यहमद्यैव दैत्ययुक्तं महासुरम् ॥३६॥ गच्छ दूत स्वभावस्थं न हन्मि त्वां खलाधम । स्वपदं त्यज्य दैत्येशाधीनोऽहं किं भवामि तु ॥३७॥ ततोऽहंकारकं गत्वा कालासुरः प्रतापवान् । वृत्तांतं कथयामास दैत्येंद्रैः संयुतं परम् ॥३८॥ श्रुत्वा दैत्यगणाः सर्वे क्रोधयुक्ता बभूविरे । अहंकारासुरेणैव युक्ता युद्धोद्यता बभुः ॥३९॥ तान्निवार्य महाबाहुरहं क्रोधसमन्वितः । जगाद दैत्यमुख्यान् स वाक्यं सर्वहितावह्म् ॥४०॥ अहमुवाच । किमर्थं श्रमसंयुक्ता भविष्यथ महाबलाः । अमोघास्त्र- वरैर्युक्तः करिष्याम्यधुना सुखम् ॥४१॥ एवमुक्त्वा ततो दैत्यः सज्जं कृत्वा महद्धनुः । मुमोचाग्निमयं चास्त्रं संमंत्र्य क्रोधसंयुतः ॥४२॥ सहसास्त्रं प्रजज्वाल दिशो दश महोज्ज्वलम् । विकुंठं दाहयामास देवान् सर्वान् समंततः ॥४३॥ ततः क्षोभयुता देवास्तत्यजुर्वरुणास्त्रकम् । तेनैव तन्न शांतं तु बभूवे तेजसान्वितम् ॥४४॥ ततः खेदयुताः सर्वे पपुलुर्भयसंयुताः । पीडिता अग्निनाऽत्यंतं त्यक्त्वा वैकुंठमेव च ॥४५॥ वरुणश्च स्वयं दृष्ट्वा जगाम रणमूर्धनि । चंद्रेण संयुतः सोऽपि जलं सृष्ट्वा व्यवस्थितः ॥४६॥ जलेन न च शांतोऽभूदग्निः परमदारुणः । दाहयुक्तः पपालाऽसौ वरुणश्चंद्रसंयुतः ॥४७॥ ततः शक्तिः समायाता महास्त्रं वरुणात्मकम् । मोचयामास तस्मात्तु जलधारा प्रवर्तिता ॥४८॥ घृतेन संयुतस्तत्र यथाग्निर्जल- संयुतः । जज्वल मायया तस्याऽहंकारस्य विशेषतः ॥४९॥ ततो दाहसमायुक्ता शक्तिः पपाल तत्क्षणात् । क्रुद्धो भानुः स्वयं तत्राऽजगाम क्रोधसंयुतः ॥५०॥ सोऽपि स्ववीर्यसंयुक्तं वरुणास्त्रं जहौ मृधे । पूर्ववद्वाहसंयुक्तः पपाल च दिवाकरः

खं. ८ अ. ४ पान ७ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ॥५१॥ ततः शिवः स्वयं तद्रूययौ क्रोधसमन्वितः । हतोद्यमः पपालाऽसौ दाहयुक्तः स्वभावतः ॥५२॥ ततोऽतिखेदसंयुक्तो विष्णुः स्वयमुपागतः । तत्याज वारुणं शस्त्रं स्वसत्तासंयुक्तं परम् ॥५३॥ तथापि न स शांतोऽभूदग्निः परमदारुणः । जज्वलातीव सर्वत्र दाहयामास देवपान् ॥५४॥ ततोऽतिदाहसंयुक्तः पपाल च जनार्दनः । विष्णुना संयुताः सर्वे देवेशाः पप्लुर्भयात् ॥५५॥ गत्वा गिरिगुहासंस्था बभूवुर्भयसंकुलाः । कंदादिभक्षयंतस्ते दिवसानतिचक्रमुः ॥५६॥ ज्ञात्वा वृत्तांतमेवाहं समाहृत्य स्वशस्त्रकम् । आग्रेयमगमद्दैत्यैर्वैकुंठं हर्षसंयुतः ॥५७॥ तत्र स्थित्वाऽभिमानी स परां मेने कृतार्थताम् । न मत्तः श्रेष्ठ इत्येव गर्वयुक्तो बभूव ह ॥५८॥ ततो गर्वं शिवस्यैव तथा स्थाप्य पदेऽसुरः । श्रेष्ठं विकुंठनाथं च स चक्रे पुत्रमुत्तमम् ॥५९॥ पिशुनं शक्तिलोकस्य वेदघ्नं सर्वलोपकम् । प्रमादं ब्रह्मणो नाथं चकार मदसंयुतः ॥६०॥ शंखमिंद्रपदस्यैव नाथं चक्रे महासुरः । कालं यमस्य लोकस्य कमलं वरुणस्य च ॥६१॥ कुबेरस्य पदे स्थाप्याऽधर्मधारक- मादरात् । ततः स्वनगरं सर्वैः समाययौ महाबलः ॥६२॥ तत्रस्थः प्रशासासौ ब्रह्मांडं लोकसंकुलम् । अहं मेने न किंचिद्वै समं भाग्येन तेजसा ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहमसुरब्रह्मांडजयो नाम तृतीयोऽध्यायः ॥ ❖❖❖ ॥ श्रीगणेशाय नम ॥ शिव उवाच । दैत्योऽहंकारकोऽत्यंतं परस्त्रीलालसस्ततः । बभूव दैत्यपैः सर्वैर्नागकन्याः समानयत् ॥१॥ देवकन्या नराणां च स्त्रियः कन्या विशेषतः । समाहृत्य बलात् सोऽपि बुभुजे सर्वदूषकः ॥२॥ मद्यमांसपरोऽत्यंतं बभूव द्विजसत्तमाः । गणेशं त्यज्य दुष्टात्मा पापकर्मपरोऽभवत् ॥३॥ एकदाऽहं सभासंस्थं जगादाऽधर्मधारकः। दैत्येंद्रैः प्रेरितः सर्वैः कृत्वा करपुटं वचः ॥४॥ अधर्मधारक उवाच । जितं त्वया महाभाग ब्रह्मांडं लोकसंकुलम् । जगदीशस्त्वमेवैको नान्यः कश्चन विद्यते ॥५॥ देवा विष्णुमुखाः सर्वे भवंति वनसंस्थिताः । प्रकीर्तिताः शत्रवो नो वेदेषु च सुरासुराः ॥६॥ शस्त्रादिभिश्च देवेंद्र्रा मरिष्यंति कदापि न । अमरा वेदवादेषु कथिता पश्य मानद ॥७॥ कर्मान्ना अमराः सर्वे नष्टे कर्मणि दैत्यप । मरिष्यंति न ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

खं. ८ अ. ४ पान ८ संदेहः कर्मणः खंडनं कुरु ॥८॥ जित्वा त्रिलोकराज्यं च कर्तारो बहवोऽभवन् । असुराः कालयोगेन देवेंद्रैर्निहताः पुरा ॥९॥ अतश्छिद्रं समालोक्य त्वां हनिष्यंति देवपाः । अहं तेषां विनाशार्थं यतस्वासुरनायकैः ॥१०॥ अधर्मधारकस्यैव वचः श्रुत्वा महासुराः । साधु साधु ब्रुवंति स्म शंखाद्यास्तत्र संसदि ॥११॥ ततोऽहंकारको हृष्टो जगाद वचनं हितम् । साधु प्रोक्तं त्वया दैत्य कुरु सर्वैः समन्वितः ॥१२॥ हृष्टो दैत्यसमूहैः स युक्तो जगाम हर्षितः । अधर्मधारको भूम्यां चकार कर्मखंडनम् ॥१३॥ कर्मखंडनभावेन हाहाकाररवाकुलाः । जना वर्णाश्रमैर्हीनाः कृतास्तेन दुरात्मना ॥१४॥ देवतायतनादीनि खंडयामास सर्वतः । क्षेत्राणि च गणेशस्य मूर्तीः सर्वारतथा द्विजाः ॥१५॥ सर्वत्राऽहंप्रतिमाश्च स्थापिता भूमिमंडले । पूजका राक्षसास्तत्र कृतास्तेन सुपापिना ॥१६॥ गृहे गृहेऽभिमानस्य प्रतिमा मानवैः किल । पूज्याः कृता द्विजास्तेनाऽऽसुरं कर्म प्रवर्तितम् ॥१७॥ कृत्वाऽधर्मधरः कार्यं प्रययौ तं सुहर्षितः । तेनातिपूजितः सोऽपि परां मेने कृतार्थताम् ॥१८॥ एवं कर्मणि नष्टे तु वर्णसंकररूपिणः । जना जातास्ततो देवा दुःखयुक्ता बभूविरे ॥१९॥ मुनिभिः सहिताः सर्वे देवाश्चोपोषणांन्विताः । विचारं चक्रुरे तस्य नाशार्थं दैत्यपस्य ते ॥२०॥ ततो ब्रह्मा महेशाद्यानुवाच खेदसंयुतः । मायायुक्ता वयं सर्वे जितास्तेन दुरात्मना ॥२१॥ माया नानाविधा विप्र वेदेष्वत्र न संशयः । तया हीनो गणेशानो नान्यः कश्चन विद्यते ॥२२॥ पंचचित्तमयी बुद्धिः पंचभ्रांतिकरी तथा । सिद्धिस्तयोः पतिः सोऽपि मायिको गणनायकः ॥२३॥ सिद्धिर्बुद्धिः परा माया न तयोर्विद्यते परा । अतो विघ्नेश्वरो दैत्यं हनिष्यति न संशयः ॥२४॥ गणेशवरदानेन मत्तोऽसौ दैत्यनायकः । विस्मृतो गणनांथं तं मंत्रं त्यक्त्वा स्थितोऽभवत् ॥२५॥ गणेशक्षेत्रकाण्येव खंडयामास दुर्मतिः । गणेशपूजनं सर्वकर्मस्वादौ विशेषतः ॥२६॥ अतो विघ्नसमायुक्तं जातं तं देवसत्तमाः । अस्माभिः पूजितो ढुंढिर्हनिष्यति महासुरम् ॥२७॥ अधुनैकाक्षरं मंत्रं जप्त्वा ध्यात्वा गजाननम् । पूजयित्वा तपोयुक्तास्तोषयामो विशेषतः ॥२८॥ श्रीशिव उवाच । ब्रह्मणो वचनं श्रुत्वा देवा मुनिसमन्विताः । साधु साधु ब्रुवंति स्म तथा चक्रुः सहेश्वराः ॥२९॥ निराहारसमायुक्ता एकाक्षरविधानतः । तोषयामासुरत्यंतं भक्तियुक्ता गणेश्वरम् ॥३०॥ एवं वर्षशते पूर्णे प्रसन्नो गणनायकः । ययौ तान् देवमुख्यांश्च वरदो मुनिसत्तमान् ॥३१॥ मूषकोपरि संस्थं ते ददृशुर्द्विरदाननम् । प्रणेमुर्हर्षसंयुक्ताः पूजयामासुरादरात् ॥३२॥ पुनः प्रणम्य विघ्नेशं देवा मुनिसमन्विताः । तुष्टुवुर्गणनाथं ते धूम्रवर्णं प्रहर्षिताः ॥३३॥ देवर्षय ऊचुः । धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे ।

खं. ८ अ. ४ | पान ९ गणेशाय परेशाय परात्पराय ते नमः ॥३४॥ लंबोदराय विघ्नानां पतये ते नमो नमः । विघ्नकर्त्रे च तद्धर्त्रे हेरंबाय नमो नमः ॥३५॥ अनादये विशेषेण ज्येष्ठाय सर्वपूजित । मनोवाणीविहीनाय मनोवाणीमयाय ते ॥३६॥ नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने । ब्रह्मणां पतये तुभ्यं मंत्रनाथाय ते नमः ॥३७॥ महोरूपाय देवाय देवदेवेशरूपिणे । देवेभ्यो वरदात्रे ते महोदर नमो नमः ॥३८॥ आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः । सर्वरूपाय सर्वात्मन् कर्मरूपाय ते नमः ॥३९॥ शूर्पकर्णाय शूराय वीराय परमात्मने । चतुर्भुजाय धूम्राय गुणेशाय नमो नमः ॥४०॥ कर्त्रे हर्त्रे च भर्त्रे ते परज्ञानस्वरूपिणे । स्वाधीनाय महामोहदात्रे हृत्रे नमो नमः ॥४१॥ यत्र वेदादयः स्वामिन् शांतिं प्राप्ताश्च योगिनः । गणेश तत्र के नाथ वयं ते स्तवने प्रभो ॥४२॥ वर्णा धूम्रायिता यत्राव्यक्तस्वरूपे पुरा त्वयि । धूम्रवर्गः समाख्यातो वेदेषु वेदवादिभिः ॥४३॥ धन्या वयं महाभाग त्वदंघ्रियुगदर्शनात् । अव्यक्तो व्यक्ततां प्राप्तो भक्तवात्सल्यकारणात् ॥४४॥ एवमुक्त्वा प्रणेमुस्तं धूम्रवर्णं सुरर्षयः । उत्थाप्य धूम्रवर्णस्तान् जगाद मेघनिःस्वनः ॥४५॥ धूम्रवर्ण उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागाः पठेत शृण्वते परम् ॥४६॥ पुत्रपौत्रादिकं धान्यं धनं लभेन्र्नस्तथा । यद्यदिच्छति तत्तत्तु सफलं संभविष्यति ॥४७॥ वरान् वृणुत देवेशा मुनयो मनसीप्सितान् । दास्यामि तपसा तुष्टः स्तोत्रेण भवतां परान् ॥४८॥ गणेशवचनं श्रुत्वा देवर्षयः प्रणम्य तम् । जगुः प्ररुष्टभावेन देवदेवेशमादरात् ॥४९॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । तदाहंकारकं दैत्यं जहि सर्वज्ञ ते नमः ॥५०॥ सर्वेभ्यो दुःखदाता स कर्मखंडनकारकः । स मृतश्चेदृणाधीश भविष्यति तदा सुखम् ॥५१॥ मायायुक्तविहीनस्त्वं तव हस्तान् महासुरः । मरिष्यति न संदेहस्तस्मात्तं जहि मानद ॥५२॥ अस्मै त्वयाऽभयं दत्तं तेन सर्वे पराजिताः । वयं ते शरणं प्राप्ता रक्ष रक्ष महाप्रभो ॥५३॥ तव पादे दृढां भक्तिं देहि नोऽव्यभि- चारिणीम् । तया विघ्नविहीनास्ते पदं प्राप्स्यामहे वयम् ॥५४॥ एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः । तथेति तानथोक्त्वा- ऽसावंतर्धानं चकार ह ॥५५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते देवमुनिवरप्रदानं नाम चतुर्थोऽध्यायः ॥

खं. ८ अ. ५ पान १० 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच। ततो देवेंद्रमुख्याश्च देवा मुनिसमन्विताः। हर्षयुक्ता विशेषेण मेनिरे चासुरं हतम् ॥१॥ कालभावं प्रतीक्षंतः स्थितास्तत्रैव विघ्नपम्। अभजंस्ते मुदा युक्ता गाणपत्यप्रियात्मकाः ॥२॥ धूम्रवर्णः स्वयं साक्षाद्रात्रौ स्वप्ने द्विजोत्तमाः। जगाम दैत्यनाथस्य भयदः सर्वभावतः ॥३॥ स शोकसंयुतः प्रातः समुत्थाय महासुरान्। समानाय्य स्वयं स्वप्नं कथयामास विस्तरात् ॥४॥ अहमुवाच। शंखमुख्याः शृणुत यत् स्वप्ने दृष्टं भयंकरम्। धूम्रवर्णो गणेशानः क्रोधयुक्तो बभूव ह ॥५॥ तस्य क्रोधसमुत्पन्नोऽग्निः सर्वं नगरं च मे। दाहयामास शस्त्राण्यस्त्राणि कुंठानि चाऽभवन् ॥६॥ पराक्रम- विहीनोऽहं कृतस्तेन महात्मना। देवाः स्वस्थानगाः सर्वे कृता मुनिगणैः सह ॥७॥ अतः स्वल्पेन कालेन भविष्यत्यशुभं ध्रुवम्। तदर्थं यत्नसंयुक्ता भवध्वं दैत्यनायकाः ॥८॥ अभिमानवचः श्रुत्वा तं पुनर्दैत्यनायकाः। जगुः खेदसमायुक्ता वचनं हितकारकम् ॥९॥ दैत्येंद्रा ऊचुः। मा कुरुष्व वृथा चिंतामशुभं ते कथं भवेत्। वरदानप्रभावेण निर्भयोऽस्य- सुरेश्वर ॥१०॥ स्वप्नः सदा जनानां तु भवत्यत्र न संशयः। जागृतौ नश्वरः सोऽपि तत्र किं दुःखदं भवेत् ॥११॥ स्वप्ने धनादिकं लब्ध्वा मरणादिकमेव वा। जागर्ति चेत् स्वयं जंतुर्न किंचित् पश्यतीत्यहो ॥१२॥ एवं हास्यादिकं कृत्वा समाश्वास्यासुरोत्तमम्। असुराः स्वगृहं गत्वा शौचादिकं प्रचक्रिरे ॥१३॥ अथ शृणुत विप्रेन्द्राश्चरितं विघ्नपस्य च। अकस्मात् धूम्रवर्णः स ययौ तत्र महाबलः ॥१४॥ पंचयोजनदूरे स नगराद्दैत्यपस्य च। संस्थितस्तत्र विप्रेन्द्रो नारदः सहसाऽऽगतः ॥१५॥ दृष्ट्वा गणेश्वरं देवं तमागत्य प्रणम्य सः। गानं चकार हर्षेण भक्त्या साश्रुप्रलोचनः ॥१६॥ तमुवाच गणाधीशो गच्छ त्वं दैत्यमंदिरम्। अहंकारं वदखर्षे वाक्यं सामकरं महत् ॥१७॥ देवाः स्वस्थानगाः संतु जनाः स्वाचारसंयुताः। नागाः स्वराज्यकर्तारो भवंतु मत्प्रसादतः ॥१८॥ राज्यं कुरु महादैत्यैर्नगरस्थो महासुर। नोचेद्युद्धेन जेष्यामि करिष्यामि जगद्धितम् ॥१९॥ तथेति गणनांथं स जगाद नारदो मुनिः। अहंकारासुरं गत्वा कथयामास तद्वचः ॥२०॥ स श्रुत्वा क्रोधसंयुक्तो बभूवे तं जगाद ह। गच्छ विघ्नेश्वरं विप्र वद मे वचनं महत् ॥२१॥ सदेवं धूम्रवर्णं च हनिष्यामि न संशयः। तदाज्ञावशगो नाहं भविष्यामि कदाचन ॥२२॥ एवमूचे ततो विप्रं नारदं दैत्यनायकः। नारदो गणनांथं च ययौ जगाद तद्वचः ॥२३॥ नारदस्य वचः श्रुत्वा क्रोधयुक्तो गजाननः। अहं हंतुं मनश्चक्रे शस्त्रं 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐

[Header] खं. ८ अ. ५ | पान ११

[Main Text] दधार विघ्नपः ॥२४॥ अथ नारदविप्रर्षिस्तं प्रणम्य ययौ सुरान् । जगाद सकलं तेभ्यो वृत्तांतं हर्षसंयुतः ॥२५॥ देवास्तं नम्य सर्वे ते धूम्रवर्णं समाययुः। मुनिभिः शक्रसंयुक्ताः स्तुत्वा तं ते जगुर्वचः ॥२६॥ आज्ञां कुरु महाभाग धूम्रवर्ण नमोऽस्तु ते । दैत्यैर्युद्धं च देवेशांस्त्वद्दासांस्ते वशे स्थितान् ॥२७॥ तेषां वचनमाकर्ण्य धूम्रवर्णः प्रतापवान्। उवाच तान् स्वभक्तांश्च भक्तेशो भक्तवत्सलः ॥२८॥ धूम्रवर्ण उवाच । तिष्ठध्वं देवदेवेशाः पश्यध्वं कौतुकं महत् । हनिष्यामि महादैत्यं मच्छासनपराङ्मुखम् ॥२९॥ एवमुक्त्वा गणाधीशो मुमोच पाशमुल्बणम् । स्वशस्त्रं तत् समागत्या- नंतरूपं बभूव ह ॥३०॥ यत्र तत्रासुरान् धृत्वा क्षणात् कंठे पपात तत् । मृता दैत्याः पुरांतसंस्थाः पाशबलार्दिताः ॥३१॥ हाहाकारश्च सर्वत्र बभूव नगरे तदा । दैत्या गत्वा महादैत्यं कथयामासुरुल्बणम् ॥३२॥ किं स्थितोऽसि महाराज मृता दैत्याः समंततः । पाशैः सर्वत्र संस्थैश्च धूम्रवर्णस्य मानद ॥३३॥ तेषां वचनमाकर्ण्य दुःखयुक्तो महासुरः । जगाद सचिवांदींश्च वचनं भयसंकुलः ॥३४॥ अहमुवाच । अहो कालमुखा दैत्याः स्वप्नं सत्यं बभूव ह । किं भविष्यति दैत्येशा विपरीतं तु दृश्यते ॥३५॥ इति तस्य वचः श्रुत्वा पुत्रौ तातं महात्मनः । ऊचतुस्तं भयोद्विग्नं गर्वश्रेष्ठौ महासुरौ ॥३६॥ गर्वश्रेष्ठावूचतुः । किं शोचसि महाभाग भयं ते न भविष्यति । मायायुक्तो धूम्रवर्णः किं करिष्यति तेऽप्रियम् ॥३७॥ देहधारी समायातो देवपक्षपरायणः । हनिष्यावो न संदेहः सदेवं पश्य पौरुषम् ॥३८॥ एवमुक्त्वा महादैत्यं गर्वो गर्वसमन्वितः । श्रेष्ठः प्रणम्य दैत्येंद्रं ततो युद्धाय जग्मतुः ॥३९॥ प्रधानाद्यैः समायुक्तौ शस्त्रवृष्टिं प्रचक्रतुः । पाशस्य तेजसा तत्र दग्धास्ते तु समंततः ॥४०॥ ततो भययुताः सर्वे प्रधानाश्च बभूविरे । पाशतेजःप्रदग्धास्ते प्रपेलुः सर्वतोदिशम् ॥४१॥ ततोऽतिक्रोधसंयुक्तौ खड्गं गृह्य महासुरौ । पाशान् विच्छेत्तुमायांतौ महाबलपराक्रमौ ॥४२॥ तेजसा दग्धदेहौ तौ तथाऽपि खड्गधारया । पाशं गृह्य चकर्तुं तौ समुद्युक्तौ बभूवतुः ॥४३॥ ततः पाशेन संबद्धौ रुद्धश्वासौ महासुरौ । गतप्राणौ च संग्रामे बभूवतुर्महर्षयः ॥४४॥ ततो हाहारवं कृत्वा दैत्याः सर्वे भयातुराः । प्रपेलुर्दशदिग्देशे गतमानाः सुविह्वलाः ॥४५॥ ततः केचित् समागम्याहंकारं ते वचः परम् । जगुः क्रूरं मृतौ पुत्रौ तव दैत्यपते मृधे ॥४६॥ तेषां वचनमाकर्ण्य मूर्च्छितः सहसाऽसुरः । सावधानः कृतः सर्वैः शुशोच भयसंकुलः ॥४७॥ धृत्वा धैर्यं ततः सोऽपि युद्धार्थं

खं. ८ अ. ६ पान १२ संगतोऽभवत् । मुमोचास्त्राणि सर्वाणि छेत्तुं पाशं महोज्ज्वलम् ॥४८॥ पाशस्य तेजसा तानि दग्धानि च समंततः । ततोऽतिभयसंयुक्तो विचारमकरोद् हृदि ॥४९॥ अमोघास्त्रमयं मे तु वरं निष्फलतायुतम् । चकार पाशश्चात्यंतं चित्रं किं वा भविष्यति ॥५०॥ पलायनपरः सर्वैः स्वगृहं दैत्यनायकः । आगत्य स्वगुरुं तत्र समानाय्याब्रवीद्वचः ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहंकारपराजयो नाम पंचमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । शुक्रं प्रणम्य नीतिज्ञं भयसंकुलितोऽसुरः । अहंकारो जगादेदं वचनं स्वहितार्थकम् ॥१॥ अहंकार उवाच । स्वामिन् मे वरदानं यन्निष्फलं प्रबभूव तत् । अमोघास्त्रमयं किं त्वं वद संशयकं नुद ॥२॥ धूम्रवर्णः समा- यातो देवपक्षप्रवर्धनः । मायामयः कथं सोऽपि निष्फलं मां चकार ह ॥३॥ शुक्र उवाच । अहं त्वं मूर्खभावेन मन्यसे धूम्र- वर्णकम् । मायामयं विशेषेण न जानासि गजाननम् ॥४॥ मायायुक्तविहीनत्वं तत्र नैव प्रवर्तते । योगाकारं गणेशानं वदंते वेदवादिनः ॥५॥ हनिष्यति समाक्रुद्धस्त्वमायं धूम्रवर्णकः । अतस्तं त्वं गणेशानं शरणं याहि दैत्यप ॥६॥ धूम्रेणा- वृतमेवं यद् दृश्यते न जनैर्यथा । तथा वस्तु गणेशानं न जानंति शिवादयः ॥७॥ वर्णा वेदस्वरूपाश्च धूम्रा जाता इवाऽऽबभुः । अज्ञानत्वात्ततश्चायमव्यक्तो धूम्रवर्णकः ॥८॥ सहजं ब्रह्म यत् प्रोक्तं स्वाधीनं ब्रह्मसु परम् । तस्य किं वरदानस्योल्लंघनं दुर्घटं भवेत् ॥९॥ स्वेच्छया वरदानं वै सफलं निष्फलं भवेत् । तदेव धूम्रवर्णोऽयं सहजो नेति वाचकः ॥१०॥ अविनाशि- पदं यच्च गजाख्यं ब्रह्म कथ्यते । तदेव मस्तकं तस्य गणेशस्य महात्मनः ॥११॥ नाशरूपं जगत् सर्वं देह- स्तस्य न संशयः । धूम्रवर्णस्तयोर्योगे देहधारी बभूव ह ॥१२॥ पंचचित्तमयी बुद्धिर्दक्षिणांगे व्यवस्थिता । चित्तभ्रांतिकरी सिद्धिर्वामांगे राजते सदा ॥१३॥ तयोः स्वामी गणेशानो मायाभ्यां क्रीडति प्रभुः । तं गच्छ शरणं तात तदा सौख्य- मवाप्स्यसि ॥१४॥ स्वसंवेद्येन योगेन दर्शनं तस्य जायते । योगिनां गणनाथस्य तेन स्वानंदपालकः ॥१५॥ न ते यशो महाराज भविष्यति कदाचन । सुरासुरमयो ढुंढिः शरणं तस्य गच्छतु ॥१६॥ सुराः स्वर्गेषु तेनैव स्थापिता

खं. ८ अ. ६ पान १३ मानवा भुवि । असुरा विवरेष्वेव त्रिविधं धर्मसंयुक्तम् ॥१७॥ स्वस्वधर्मं परित्यज्य लोभयुक्ताः सुराऽसुराः । भवंति चेत्तदाऽयं तु तेषां शास्ता भवत्यहो ॥१८॥ देवैर्दैत्या जिताः सर्वे पातालं गत्य मानद । तदा त्वां स विनिर्माय देवविघ्नपरोऽभवत् ॥१९॥ त्वमपि धर्मलोपेन वर्णाश्रमपराङ्मुखः । देवनाशार्थमत्यंतमुद्युक्तोऽसि खलोत्तम ॥२०॥ अतस्त्वां हंतुमेवं स समायातो गजाननः । स्वधर्मस्थस्य ते नाशं न करिष्यति विघ्नपः ॥२१॥ त्रिविधं त्रिविधे भावे संस्थितं धर्मसंयुक्तम् । तदाऽयं बुद्धिनाथश्च बुद्धौ नित्यं स्थितो भवेत् ॥२२॥ अतस्तस्य गणेशस्य शरणं गच्छ दैत्यप । ब्रह्माकारं च सर्वत्र सुरासुरप्रवर्तकम् ॥२३॥ श्रीशिव उवाच । काव्यस्य वचनं श्रुत्वा हर्षयुक्तोऽहमादरात् । प्रणम्य तं पुनः प्राह संशयस्यापनुत्तये ॥२४॥ अहमुवाच । शरणं धूम्रवर्णस्य गमिष्यामि त्वदाज्ञया । सुरासुरमयस्यैव तथाऽपि नुद संशयम् ॥२५॥ सिद्धिबुद्धि समा माया विद्यते नैव निश्चितम् । प्रकृत्या संयुतो नित्यं गणेशानः प्रखेलति ॥२६॥ सर्वपूज्यश्च सर्वादौ संमतो ब्रह्मनायकः । श्रीशब्देन समायुक्तः कथं श्रीमुख्यतां गता ॥२७॥ सिद्धिं बुद्धिं परित्यज्य श्रियं चौंकारकं तथा । विकल्पेन समागृह्य तिष्ठते गणनायकः ॥२८॥ अन्ये सर्वे तथा विप्र प्रकृत्या श्रीस्वरूपया । युक्ता भवंति शास्त्रेषु किमिदं कौतुकं वद ॥२९॥ अतः श्रीर्यत् समा देवी विद्यते नैव निश्चितम् । भाति सर्वत्र वेदेषु तथौकारात्मिका परा ॥३०॥ शुक्र उवाच । गकारः सिद्धिरूपश्च णकारो बुद्धिवाचकः । तयोः स्वामी गणेशानो योगाकारः प्रदृश्यते ॥३१॥ यथा मायायुतं ब्रह्म मायाया भिन्नकं न च । माया सैव सदा ब्रह्म ब्रह्म माया न संशयः ॥३२॥ तथा सिद्धिश्च बुद्धिश्च गणेशो दैत्यनायक । एकरूपो न संदेहो योगस्तेनायमुच्यते ॥३३॥ सिद्धिर्बुद्धिर्गणेशानो ज्ञानिनां त्रिविधं परम् । भाति योगमयं चापि विचारय विचक्षण ॥३४॥ अतः सिद्धेश्च बुद्धेश्चोपासनं नात्र विद्यते । भिन्नं गणपते- स्तस्मात् त्रिविधं नास्ति निश्चितम् ॥३५॥ गणेशपूजनेनैव त्रिविधं पूजितं भवेत् । प्रकृतिः पुरुषाकारस्तत्र नैव प्रदृश्यते ॥३६॥ वामांगं प्रकृत्याकारं दक्षिणांगं च पुंमयम् । सिद्धिं बुद्धिं विजानीहि तयोर्योगे गणेश्वरः ॥३७॥ सर्वेषां वामभागे च प्रकृतिः संस्थिताऽभवत् । गणेशस्योभयांगे तु प्रकृतिः परिकीर्तिता ॥३८॥ एकरूपधरा माया सिद्धिबुद्धिमयी परा । भिन्न- भोगार्थमानंदात् सृष्टिं कर्तुं मनोदधे ॥३९॥ सिद्धेरंगात् समुत्पन्ना श्रीः सर्वशोभया युता । बुद्धेरंगात्तथौकारप्रकृतिः प्रबभूव ह ॥४०॥ ताभ्यां तपः कृतं घोरं स्वस्वज्ञानप्रसिद्धये । यस्मै कस्मै नमो नित्यं मंत्रं जप्त्वा स्वमूलकम् ॥४१॥

खं. ८ अ. ६ पान १४ ततस्तयोर्हृदिस्थं यद्ब्रह्म मायाप्रचालकम् । प्रसन्नं जातमप्यंतं स्वरूपं स्वमदर्शयत् ॥४२॥ तत एकाक्षरं मंत्रं गणेशस्य महात्मनः । दृष्ट्वा ताभ्यां हृदिस्थं स्वं तेजोरूपं सुखप्रदम् ॥४३॥ ततस्तनैव मंत्रेण तोषयामासतुः परम् । गणेशं ते महा- भागे व्यादिमाये तपोन्विते ॥४४॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । वरान् दातुं समायातः सिद्धिबुद्धिसम- न्वितः ॥४५॥ नरकुंजररूपं तत् दृष्ट्वा विस्मितमानसे । माये बभूवतुस्तत्र विचारं चक्रतुर्हृदि ॥४६॥ गणेशकृपया सद्यो ज्ञातं जातं महाद्भुतम् । तपसोग्रप्रभावेण ज्ञातं ताभ्यां रहस्यकम् ॥४७॥ सिद्धिबुद्धियुतं तं ते वीक्ष्य चोत्थाय सत्वरम् । प्रणेमतुर्गणेशानं पूज्य स्तोत्रं प्रचक्रतुः ॥४८॥ ऒ्योंकारावूचतुः । नमस्ते गणनाधाय सर्वसिद्धिप्रदायक । सिद्धिबुद्धियुतायैव गणानां पतये नमः ॥४९॥ स्वानंदपतये तुभ्यं कर्तॄणां कर्तृरूपिणे । अनाधाय सनाथानां नमो नाथाय ते नमः ॥५०॥ परेशाय परेषां च पालकाय परात्मने । आत्मनाममृतायैव विघ्नेशाय नमो नमः ॥५१॥ लंबोदराय देवाय देवदेवेशरूपिणे । देवेभ्यो देवतां दात्रे गजाननाय ते नमः ॥५२॥ ज्येष्ठराजाय सर्वेषामादिपूज्याय ढुंढये । अनामनाय नित्याय सर्वेशाय नमो नमः ॥५३॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणे ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं पूर्णयोगाय ते नमः ॥५४॥ योग- शांतिमयायैव चिंतामणिस্বরূপिणे । अनंतायादिरूपाय चांतःस्थाय नमो नमः ॥५५॥ किं स्तुवस्त्वां गणाधीश योगशांति- धरं परम् । यत्र वेदादयः शांतिं प्राप्ता योगपरायणाः ॥५६॥ मनोवाणीमयो नैव मनोवाणीविवर्जितः । नैव त्वं ते नमो नाथ प्रसन्नो भव सर्वदा ॥५७॥ एवमुक्त्वा गणाधीशं प्रणेमतुर्महासुर । ऒ्योंकारौ तौ समुत्थाप्य जगाद गणनायकः ॥५८॥ श्रीगणेश उवाच । वरान् ब्रूतं महाभागे महामाये हृदीप्सितान् । दास्यामि तपसा तुष्टः स्तोत्रेणाहं विशेषतः ॥५९॥ स्तोत्रं भवत्कृतं मे वै सर्वसिद्धिप्रदायकम् । पठते शृण्वते नित्यं प्रभवेद्भुक्तिमुक्तिदम् ॥६०॥ ब्रह्मभूयकरं पूर्णं ऒ्योंकारयशसाऽन्वितम् । मम प्रियकरं पूर्णं भक्तिवर्धनकं भवेत् ॥६१॥ गणेशवचनं श्रुत्वोचतुः ऒ्योंकारकौ परम् । गणेशभक्तिसंयुक्तो भक्तेशं भक्तवत्सलम् ॥६२॥ ऒ्योंकारावूचतुः । त्वयि भक्तिं स्थिरं देहि योगशांतिप्रदायिकाम् । संकल्पसिद्धिसामर्थ्यं दास्यं ते पादपद्मयोः ॥६३॥ यथा सिद्धिश्च बुद्धिश्च त्वया संमानिते प्रभो । तथाऽऽवां ते प्रिये नाथ कुरुष्व गणनायक ॥६४॥ अस्मदीयं वशे सर्वं जगद्ब्रह्म कुरु प्रभो । आवाभ्यां मोहितं सर्वं भवतु त्वत्प्रसादतः ॥६५॥ त्वदीयभजनेनैव मोहो ह्यस्मत्कृतः परः । नाशं यातु सदा देव नान्यथा योगकारिभिः ॥६६॥ शिवविष्णुमुखा देवा मोहयुक्ता भवंतु च । अस्मदर्थं सदा भ्रांता यत्नयुक्ता भवंतु वै ॥६७॥

Here is the complete and precise Devanagari text transcription from the image:

खं. ८ अ. ६ पान १५ श्रीगणेश उवाच । भवतीभ्यां वृताः सर्वे वराः सुदुर्लभाः पराः । दत्ता मया विशेषेण मोहयेतमिदं जगत् ॥६८॥ मायाभ्यां सिद्धिबुद्धिभ्यां रचितं विविधं जगत् । ब्रह्म नानाविधं देव्यौ तत्राऽहं बिंबितोऽभवम् ॥६९॥ बिंबं मे मोहयुक्तं तन्नाना- भावपरायणम् । मम भक्तिस्वभावेन मोहहीनं भवेत् सदा ॥७०॥ मम बिंबस्य भार्ये तु संशयो न भविष्यथः । तेन युक्ते महामाये बंधमोक्षौ करिष्यथः ॥७१॥ सिद्धिबुद्धियुतोऽहं तु ब्रह्मभूतः सनातनः । न तत्र योग्यता देव्यौ भवत्यो- र्मोहनात्मनोः ॥७२॥ एवमुक्त्वा गणाधीशोऽन्तर्धानं वै चकार ह । माये तं मनसा ध्यात्वा संस्थिते तत्र दैत्यप ॥७३॥ ततो गणेशबिंबं यत् पतितं तत्तयोर्हृदि । तेन युक्ते चतुर्धेदं चक्रतुर्भेदनात्मके ॥७४॥ बाह्यसौख्यकरी माया चतुर्णां जगतां किल । ब्रह्मणां देहरूपा च श्रीः सर्वत्र प्रकीर्तिता ॥७५॥ चतुर्णां जगतां तद्ब्रह्मणां ज्ञानरूपिणी । ओंकारात्मक रूपा सा माया सर्वत्र संस्थिता ॥७६॥ ताभ्यां युक्तो गणेशानः क्रीडते विविधे रतः । मोहयुक्तविहीनत्वान्नानाभेदपरायणः ॥७७॥ अतः सर्वेषु जीवेषु मोहितेषु महासुर । मोहहीनात्मभावेषु ओंकारौ त्वादिसंमतौ ॥७८॥ आदौ प्रकृतिमुच्चार्य पश्चात् पुरुष उच्यते । कृतं विघ्नेश्वरेणैतत् जानीहि दैत्यनायक ॥७९॥ कुत्र श्रीशब्दयुक्तश्च गणेशः पठ्यते बुधैः । तत्रोंकारसमायुक्तो मायाभ्यां खेलनात् परः ॥८०॥ वामांगे श्रीर्धृता तेन दक्षिणांगे महासुर । ओंकारो गणनाथस्य बिंबेन ब्रह्मरूपिणा ॥८१॥ बिंबं सर्वत्र भावेषु तदाकारं बभूव ह । अतः शिवाद्यः सर्वे जाताः ओंकारसंयुताः ॥८२॥ जीवा ओंकारसंयुक्ताः पठ्यंते वेदवादिभिः । आदिमाये समाख्याते बिंवाधारे विचारय ॥८३॥ अतः ओंकारमोहं त्वं त्यक्त्वा विघ्नेश्वरं भज । सिद्धिबुद्धियुतं तात तेन सौख्यमवाप्स्यसि ॥८४॥ इति ते कथितं सर्वं धूम्रवर्णस्य चेष्टितम् । गच्छतं शरणं दैत्य शांतिदं मुक्तिमुक्तिदम् ॥८५॥ भिन्नभावकरे माये ओंकारौ परिकीर्तितौ । ब्रह्मभूयमयी प्रोक्ता सिद्धिर्बुद्धिविचक्षण ॥८६॥ एतत्ते कथितं सर्वं रहस्यं सर्वसंमतम् । वेदगुह्यमहंकार गच्छ तं सर्वसिद्धये ॥८७॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहंकारासुरज्ञानोपदेशो नाम षष्ठोऽध्यायः ॥