भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 822, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 822

खं. ८ अ. ६ पान १३ मानवा भुवि । असुरा विवरेष्वेव त्रिविधं धर्मसंयुक्तम् ॥१७॥ स्वस्वधर्मं परित्यज्य लोभयुक्ताः सुराऽसुराः । भवंति चेत्तदाऽयं तु तेषां शास्ता भवत्यहो ॥१८॥ देवैर्दैत्या जिताः सर्वे पातालं गत्य मानद । तदा त्वां स विनिर्माय देवविघ्नपरोऽभवत् ॥१९॥ त्वमपि धर्मलोपेन वर्णाश्रमपराङ्मुखः । देवनाशार्थमत्यंतमुद्युक्तोऽसि खलोत्तम ॥२०॥ अतस्त्वां हंतुमेवं स समायातो गजाननः । स्वधर्मस्थस्य ते नाशं न करिष्यति विघ्नपः ॥२१॥ त्रिविधं त्रिविधे भावे संस्थितं धर्मसंयुक्तम् । तदाऽयं बुद्धिनाथश्च बुद्धौ नित्यं स्थितो भवेत् ॥२२॥ अतस्तस्य गणेशस्य शरणं गच्छ दैत्यप । ब्रह्माकारं च सर्वत्र सुरासुरप्रवर्तकम् ॥२३॥ श्रीशिव उवाच । काव्यस्य वचनं श्रुत्वा हर्षयुक्तोऽहमादरात् । प्रणम्य तं पुनः प्राह संशयस्यापनुत्तये ॥२४॥ अहमुवाच । शरणं धूम्रवर्णस्य गमिष्यामि त्वदाज्ञया । सुरासुरमयस्यैव तथाऽपि नुद संशयम् ॥२५॥ सिद्धिबुद्धि समा माया विद्यते नैव निश्चितम् । प्रकृत्या संयुतो नित्यं गणेशानः प्रखेलति ॥२६॥ सर्वपूज्यश्च सर्वादौ संमतो ब्रह्मनायकः । श्रीशब्देन समायुक्तः कथं श्रीमुख्यतां गता ॥२७॥ सिद्धिं बुद्धिं परित्यज्य श्रियं चौंकारकं तथा । विकल्पेन समागृह्य तिष्ठते गणनायकः ॥२८॥ अन्ये सर्वे तथा विप्र प्रकृत्या श्रीस्वरूपया । युक्ता भवंति शास्त्रेषु किमिदं कौतुकं वद ॥२९॥ अतः श्रीर्यत् समा देवी विद्यते नैव निश्चितम् । भाति सर्वत्र वेदेषु तथौकारात्मिका परा ॥३०॥ शुक्र उवाच । गकारः सिद्धिरूपश्च णकारो बुद्धिवाचकः । तयोः स्वामी गणेशानो योगाकारः प्रदृश्यते ॥३१॥ यथा मायायुतं ब्रह्म मायाया भिन्नकं न च । माया सैव सदा ब्रह्म ब्रह्म माया न संशयः ॥३२॥ तथा सिद्धिश्च बुद्धिश्च गणेशो दैत्यनायक । एकरूपो न संदेहो योगस्तेनायमुच्यते ॥३३॥ सिद्धिर्बुद्धिर्गणेशानो ज्ञानिनां त्रिविधं परम् । भाति योगमयं चापि विचारय विचक्षण ॥३४॥ अतः सिद्धेश्च बुद्धेश्चोपासनं नात्र विद्यते । भिन्नं गणपते- स्तस्मात् त्रिविधं नास्ति निश्चितम् ॥३५॥ गणेशपूजनेनैव त्रिविधं पूजितं भवेत् । प्रकृतिः पुरुषाकारस्तत्र नैव प्रदृश्यते ॥३६॥ वामांगं प्रकृत्याकारं दक्षिणांगं च पुंमयम् । सिद्धिं बुद्धिं विजानीहि तयोर्योगे गणेश्वरः ॥३७॥ सर्वेषां वामभागे च प्रकृतिः संस्थिताऽभवत् । गणेशस्योभयांगे तु प्रकृतिः परिकीर्तिता ॥३८॥ एकरूपधरा माया सिद्धिबुद्धिमयी परा । भिन्न- भोगार्थमानंदात् सृष्टिं कर्तुं मनोदधे ॥३९॥ सिद्धेरंगात् समुत्पन्ना श्रीः सर्वशोभया युता । बुद्धेरंगात्तथौकारप्रकृतिः प्रबभूव ह ॥४०॥ ताभ्यां तपः कृतं घोरं स्वस्वज्ञानप्रसिद्धये । यस्मै कस्मै नमो नित्यं मंत्रं जप्त्वा स्वमूलकम् ॥४१॥