भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 821, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 821

खं. ८ अ. ६ पान १२ संगतोऽभवत् । मुमोचास्त्राणि सर्वाणि छेत्तुं पाशं महोज्ज्वलम् ॥४८॥ पाशस्य तेजसा तानि दग्धानि च समंततः । ततोऽतिभयसंयुक्तो विचारमकरोद् हृदि ॥४९॥ अमोघास्त्रमयं मे तु वरं निष्फलतायुतम् । चकार पाशश्चात्यंतं चित्रं किं वा भविष्यति ॥५०॥ पलायनपरः सर्वैः स्वगृहं दैत्यनायकः । आगत्य स्वगुरुं तत्र समानाय्याब्रवीद्वचः ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहंकारपराजयो नाम पंचमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । शुक्रं प्रणम्य नीतिज्ञं भयसंकुलितोऽसुरः । अहंकारो जगादेदं वचनं स्वहितार्थकम् ॥१॥ अहंकार उवाच । स्वामिन् मे वरदानं यन्निष्फलं प्रबभूव तत् । अमोघास्त्रमयं किं त्वं वद संशयकं नुद ॥२॥ धूम्रवर्णः समा- यातो देवपक्षप्रवर्धनः । मायामयः कथं सोऽपि निष्फलं मां चकार ह ॥३॥ शुक्र उवाच । अहं त्वं मूर्खभावेन मन्यसे धूम्र- वर्णकम् । मायामयं विशेषेण न जानासि गजाननम् ॥४॥ मायायुक्तविहीनत्वं तत्र नैव प्रवर्तते । योगाकारं गणेशानं वदंते वेदवादिनः ॥५॥ हनिष्यति समाक्रुद्धस्त्वमायं धूम्रवर्णकः । अतस्तं त्वं गणेशानं शरणं याहि दैत्यप ॥६॥ धूम्रेणा- वृतमेवं यद् दृश्यते न जनैर्यथा । तथा वस्तु गणेशानं न जानंति शिवादयः ॥७॥ वर्णा वेदस्वरूपाश्च धूम्रा जाता इवाऽऽबभुः । अज्ञानत्वात्ततश्चायमव्यक्तो धूम्रवर्णकः ॥८॥ सहजं ब्रह्म यत् प्रोक्तं स्वाधीनं ब्रह्मसु परम् । तस्य किं वरदानस्योल्लंघनं दुर्घटं भवेत् ॥९॥ स्वेच्छया वरदानं वै सफलं निष्फलं भवेत् । तदेव धूम्रवर्णोऽयं सहजो नेति वाचकः ॥१०॥ अविनाशि- पदं यच्च गजाख्यं ब्रह्म कथ्यते । तदेव मस्तकं तस्य गणेशस्य महात्मनः ॥११॥ नाशरूपं जगत् सर्वं देह- स्तस्य न संशयः । धूम्रवर्णस्तयोर्योगे देहधारी बभूव ह ॥१२॥ पंचचित्तमयी बुद्धिर्दक्षिणांगे व्यवस्थिता । चित्तभ्रांतिकरी सिद्धिर्वामांगे राजते सदा ॥१३॥ तयोः स्वामी गणेशानो मायाभ्यां क्रीडति प्रभुः । तं गच्छ शरणं तात तदा सौख्य- मवाप्स्यसि ॥१४॥ स्वसंवेद्येन योगेन दर्शनं तस्य जायते । योगिनां गणनाथस्य तेन स्वानंदपालकः ॥१५॥ न ते यशो महाराज भविष्यति कदाचन । सुरासुरमयो ढुंढिः शरणं तस्य गच्छतु ॥१६॥ सुराः स्वर्गेषु तेनैव स्थापिता