भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 820, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 820

[Header] खं. ८ अ. ५ | पान ११

[Main Text] दधार विघ्नपः ॥२४॥ अथ नारदविप्रर्षिस्तं प्रणम्य ययौ सुरान् । जगाद सकलं तेभ्यो वृत्तांतं हर्षसंयुतः ॥२५॥ देवास्तं नम्य सर्वे ते धूम्रवर्णं समाययुः। मुनिभिः शक्रसंयुक्ताः स्तुत्वा तं ते जगुर्वचः ॥२६॥ आज्ञां कुरु महाभाग धूम्रवर्ण नमोऽस्तु ते । दैत्यैर्युद्धं च देवेशांस्त्वद्दासांस्ते वशे स्थितान् ॥२७॥ तेषां वचनमाकर्ण्य धूम्रवर्णः प्रतापवान्। उवाच तान् स्वभक्तांश्च भक्तेशो भक्तवत्सलः ॥२८॥ धूम्रवर्ण उवाच । तिष्ठध्वं देवदेवेशाः पश्यध्वं कौतुकं महत् । हनिष्यामि महादैत्यं मच्छासनपराङ्मुखम् ॥२९॥ एवमुक्त्वा गणाधीशो मुमोच पाशमुल्बणम् । स्वशस्त्रं तत् समागत्या- नंतरूपं बभूव ह ॥३०॥ यत्र तत्रासुरान् धृत्वा क्षणात् कंठे पपात तत् । मृता दैत्याः पुरांतसंस्थाः पाशबलार्दिताः ॥३१॥ हाहाकारश्च सर्वत्र बभूव नगरे तदा । दैत्या गत्वा महादैत्यं कथयामासुरुल्बणम् ॥३२॥ किं स्थितोऽसि महाराज मृता दैत्याः समंततः । पाशैः सर्वत्र संस्थैश्च धूम्रवर्णस्य मानद ॥३३॥ तेषां वचनमाकर्ण्य दुःखयुक्तो महासुरः । जगाद सचिवांदींश्च वचनं भयसंकुलः ॥३४॥ अहमुवाच । अहो कालमुखा दैत्याः स्वप्नं सत्यं बभूव ह । किं भविष्यति दैत्येशा विपरीतं तु दृश्यते ॥३५॥ इति तस्य वचः श्रुत्वा पुत्रौ तातं महात्मनः । ऊचतुस्तं भयोद्विग्नं गर्वश्रेष्ठौ महासुरौ ॥३६॥ गर्वश्रेष्ठावूचतुः । किं शोचसि महाभाग भयं ते न भविष्यति । मायायुक्तो धूम्रवर्णः किं करिष्यति तेऽप्रियम् ॥३७॥ देहधारी समायातो देवपक्षपरायणः । हनिष्यावो न संदेहः सदेवं पश्य पौरुषम् ॥३८॥ एवमुक्त्वा महादैत्यं गर्वो गर्वसमन्वितः । श्रेष्ठः प्रणम्य दैत्येंद्रं ततो युद्धाय जग्मतुः ॥३९॥ प्रधानाद्यैः समायुक्तौ शस्त्रवृष्टिं प्रचक्रतुः । पाशस्य तेजसा तत्र दग्धास्ते तु समंततः ॥४०॥ ततो भययुताः सर्वे प्रधानाश्च बभूविरे । पाशतेजःप्रदग्धास्ते प्रपेलुः सर्वतोदिशम् ॥४१॥ ततोऽतिक्रोधसंयुक्तौ खड्गं गृह्य महासुरौ । पाशान् विच्छेत्तुमायांतौ महाबलपराक्रमौ ॥४२॥ तेजसा दग्धदेहौ तौ तथाऽपि खड्गधारया । पाशं गृह्य चकर्तुं तौ समुद्युक्तौ बभूवतुः ॥४३॥ ततः पाशेन संबद्धौ रुद्धश्वासौ महासुरौ । गतप्राणौ च संग्रामे बभूवतुर्महर्षयः ॥४४॥ ततो हाहारवं कृत्वा दैत्याः सर्वे भयातुराः । प्रपेलुर्दशदिग्देशे गतमानाः सुविह्वलाः ॥४५॥ ततः केचित् समागम्याहंकारं ते वचः परम् । जगुः क्रूरं मृतौ पुत्रौ तव दैत्यपते मृधे ॥४६॥ तेषां वचनमाकर्ण्य मूर्च्छितः सहसाऽसुरः । सावधानः कृतः सर्वैः शुशोच भयसंकुलः ॥४७॥ धृत्वा धैर्यं ततः सोऽपि युद्धार्थं