भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 819, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 819

खं. ८ अ. ५ पान १० 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच। ततो देवेंद्रमुख्याश्च देवा मुनिसमन्विताः। हर्षयुक्ता विशेषेण मेनिरे चासुरं हतम् ॥१॥ कालभावं प्रतीक्षंतः स्थितास्तत्रैव विघ्नपम्। अभजंस्ते मुदा युक्ता गाणपत्यप्रियात्मकाः ॥२॥ धूम्रवर्णः स्वयं साक्षाद्रात्रौ स्वप्ने द्विजोत्तमाः। जगाम दैत्यनाथस्य भयदः सर्वभावतः ॥३॥ स शोकसंयुतः प्रातः समुत्थाय महासुरान्। समानाय्य स्वयं स्वप्नं कथयामास विस्तरात् ॥४॥ अहमुवाच। शंखमुख्याः शृणुत यत् स्वप्ने दृष्टं भयंकरम्। धूम्रवर्णो गणेशानः क्रोधयुक्तो बभूव ह ॥५॥ तस्य क्रोधसमुत्पन्नोऽग्निः सर्वं नगरं च मे। दाहयामास शस्त्राण्यस्त्राणि कुंठानि चाऽभवन् ॥६॥ पराक्रम- विहीनोऽहं कृतस्तेन महात्मना। देवाः स्वस्थानगाः सर्वे कृता मुनिगणैः सह ॥७॥ अतः स्वल्पेन कालेन भविष्यत्यशुभं ध्रुवम्। तदर्थं यत्नसंयुक्ता भवध्वं दैत्यनायकाः ॥८॥ अभिमानवचः श्रुत्वा तं पुनर्दैत्यनायकाः। जगुः खेदसमायुक्ता वचनं हितकारकम् ॥९॥ दैत्येंद्रा ऊचुः। मा कुरुष्व वृथा चिंतामशुभं ते कथं भवेत्। वरदानप्रभावेण निर्भयोऽस्य- सुरेश्वर ॥१०॥ स्वप्नः सदा जनानां तु भवत्यत्र न संशयः। जागृतौ नश्वरः सोऽपि तत्र किं दुःखदं भवेत् ॥११॥ स्वप्ने धनादिकं लब्ध्वा मरणादिकमेव वा। जागर्ति चेत् स्वयं जंतुर्न किंचित् पश्यतीत्यहो ॥१२॥ एवं हास्यादिकं कृत्वा समाश्वास्यासुरोत्तमम्। असुराः स्वगृहं गत्वा शौचादिकं प्रचक्रिरे ॥१३॥ अथ शृणुत विप्रेन्द्राश्चरितं विघ्नपस्य च। अकस्मात् धूम्रवर्णः स ययौ तत्र महाबलः ॥१४॥ पंचयोजनदूरे स नगराद्दैत्यपस्य च। संस्थितस्तत्र विप्रेन्द्रो नारदः सहसाऽऽगतः ॥१५॥ दृष्ट्वा गणेश्वरं देवं तमागत्य प्रणम्य सः। गानं चकार हर्षेण भक्त्या साश्रुप्रलोचनः ॥१६॥ तमुवाच गणाधीशो गच्छ त्वं दैत्यमंदिरम्। अहंकारं वदखर्षे वाक्यं सामकरं महत् ॥१७॥ देवाः स्वस्थानगाः संतु जनाः स्वाचारसंयुताः। नागाः स्वराज्यकर्तारो भवंतु मत्प्रसादतः ॥१८॥ राज्यं कुरु महादैत्यैर्नगरस्थो महासुर। नोचेद्युद्धेन जेष्यामि करिष्यामि जगद्धितम् ॥१९॥ तथेति गणनांथं स जगाद नारदो मुनिः। अहंकारासुरं गत्वा कथयामास तद्वचः ॥२०॥ स श्रुत्वा क्रोधसंयुक्तो बभूवे तं जगाद ह। गच्छ विघ्नेश्वरं विप्र वद मे वचनं महत् ॥२१॥ सदेवं धूम्रवर्णं च हनिष्यामि न संशयः। तदाज्ञावशगो नाहं भविष्यामि कदाचन ॥२२॥ एवमूचे ततो विप्रं नारदं दैत्यनायकः। नारदो गणनांथं च ययौ जगाद तद्वचः ॥२३॥ नारदस्य वचः श्रुत्वा क्रोधयुक्तो गजाननः। अहं हंतुं मनश्चक्रे शस्त्रं 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 819, कुल 1023 में से · BharatKosha