मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 818, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ४ | पान ९ गणेशाय परेशाय परात्पराय ते नमः ॥३४॥ लंबोदराय विघ्नानां पतये ते नमो नमः । विघ्नकर्त्रे च तद्धर्त्रे हेरंबाय नमो नमः ॥३५॥ अनादये विशेषेण ज्येष्ठाय सर्वपूजित । मनोवाणीविहीनाय मनोवाणीमयाय ते ॥३६॥ नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने । ब्रह्मणां पतये तुभ्यं मंत्रनाथाय ते नमः ॥३७॥ महोरूपाय देवाय देवदेवेशरूपिणे । देवेभ्यो वरदात्रे ते महोदर नमो नमः ॥३८॥ आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः । सर्वरूपाय सर्वात्मन् कर्मरूपाय ते नमः ॥३९॥ शूर्पकर्णाय शूराय वीराय परमात्मने । चतुर्भुजाय धूम्राय गुणेशाय नमो नमः ॥४०॥ कर्त्रे हर्त्रे च भर्त्रे ते परज्ञानस्वरूपिणे । स्वाधीनाय महामोहदात्रे हृत्रे नमो नमः ॥४१॥ यत्र वेदादयः स्वामिन् शांतिं प्राप्ताश्च योगिनः । गणेश तत्र के नाथ वयं ते स्तवने प्रभो ॥४२॥ वर्णा धूम्रायिता यत्राव्यक्तस्वरूपे पुरा त्वयि । धूम्रवर्गः समाख्यातो वेदेषु वेदवादिभिः ॥४३॥ धन्या वयं महाभाग त्वदंघ्रियुगदर्शनात् । अव्यक्तो व्यक्ततां प्राप्तो भक्तवात्सल्यकारणात् ॥४४॥ एवमुक्त्वा प्रणेमुस्तं धूम्रवर्णं सुरर्षयः । उत्थाप्य धूम्रवर्णस्तान् जगाद मेघनिःस्वनः ॥४५॥ धूम्रवर्ण उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागाः पठेत शृण्वते परम् ॥४६॥ पुत्रपौत्रादिकं धान्यं धनं लभेन्र्नस्तथा । यद्यदिच्छति तत्तत्तु सफलं संभविष्यति ॥४७॥ वरान् वृणुत देवेशा मुनयो मनसीप्सितान् । दास्यामि तपसा तुष्टः स्तोत्रेण भवतां परान् ॥४८॥ गणेशवचनं श्रुत्वा देवर्षयः प्रणम्य तम् । जगुः प्ररुष्टभावेन देवदेवेशमादरात् ॥४९॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । तदाहंकारकं दैत्यं जहि सर्वज्ञ ते नमः ॥५०॥ सर्वेभ्यो दुःखदाता स कर्मखंडनकारकः । स मृतश्चेदृणाधीश भविष्यति तदा सुखम् ॥५१॥ मायायुक्तविहीनस्त्वं तव हस्तान् महासुरः । मरिष्यति न संदेहस्तस्मात्तं जहि मानद ॥५२॥ अस्मै त्वयाऽभयं दत्तं तेन सर्वे पराजिताः । वयं ते शरणं प्राप्ता रक्ष रक्ष महाप्रभो ॥५३॥ तव पादे दृढां भक्तिं देहि नोऽव्यभि- चारिणीम् । तया विघ्नविहीनास्ते पदं प्राप्स्यामहे वयम् ॥५४॥ एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः । तथेति तानथोक्त्वा- ऽसावंतर्धानं चकार ह ॥५५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते देवमुनिवरप्रदानं नाम चतुर्थोऽध्यायः ॥