भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 817, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 817

खं. ८ अ. ४ पान ८ संदेहः कर्मणः खंडनं कुरु ॥८॥ जित्वा त्रिलोकराज्यं च कर्तारो बहवोऽभवन् । असुराः कालयोगेन देवेंद्रैर्निहताः पुरा ॥९॥ अतश्छिद्रं समालोक्य त्वां हनिष्यंति देवपाः । अहं तेषां विनाशार्थं यतस्वासुरनायकैः ॥१०॥ अधर्मधारकस्यैव वचः श्रुत्वा महासुराः । साधु साधु ब्रुवंति स्म शंखाद्यास्तत्र संसदि ॥११॥ ततोऽहंकारको हृष्टो जगाद वचनं हितम् । साधु प्रोक्तं त्वया दैत्य कुरु सर्वैः समन्वितः ॥१२॥ हृष्टो दैत्यसमूहैः स युक्तो जगाम हर्षितः । अधर्मधारको भूम्यां चकार कर्मखंडनम् ॥१३॥ कर्मखंडनभावेन हाहाकाररवाकुलाः । जना वर्णाश्रमैर्हीनाः कृतास्तेन दुरात्मना ॥१४॥ देवतायतनादीनि खंडयामास सर्वतः । क्षेत्राणि च गणेशस्य मूर्तीः सर्वारतथा द्विजाः ॥१५॥ सर्वत्राऽहंप्रतिमाश्च स्थापिता भूमिमंडले । पूजका राक्षसास्तत्र कृतास्तेन सुपापिना ॥१६॥ गृहे गृहेऽभिमानस्य प्रतिमा मानवैः किल । पूज्याः कृता द्विजास्तेनाऽऽसुरं कर्म प्रवर्तितम् ॥१७॥ कृत्वाऽधर्मधरः कार्यं प्रययौ तं सुहर्षितः । तेनातिपूजितः सोऽपि परां मेने कृतार्थताम् ॥१८॥ एवं कर्मणि नष्टे तु वर्णसंकररूपिणः । जना जातास्ततो देवा दुःखयुक्ता बभूविरे ॥१९॥ मुनिभिः सहिताः सर्वे देवाश्चोपोषणांन्विताः । विचारं चक्रुरे तस्य नाशार्थं दैत्यपस्य ते ॥२०॥ ततो ब्रह्मा महेशाद्यानुवाच खेदसंयुतः । मायायुक्ता वयं सर्वे जितास्तेन दुरात्मना ॥२१॥ माया नानाविधा विप्र वेदेष्वत्र न संशयः । तया हीनो गणेशानो नान्यः कश्चन विद्यते ॥२२॥ पंचचित्तमयी बुद्धिः पंचभ्रांतिकरी तथा । सिद्धिस्तयोः पतिः सोऽपि मायिको गणनायकः ॥२३॥ सिद्धिर्बुद्धिः परा माया न तयोर्विद्यते परा । अतो विघ्नेश्वरो दैत्यं हनिष्यति न संशयः ॥२४॥ गणेशवरदानेन मत्तोऽसौ दैत्यनायकः । विस्मृतो गणनांथं तं मंत्रं त्यक्त्वा स्थितोऽभवत् ॥२५॥ गणेशक्षेत्रकाण्येव खंडयामास दुर्मतिः । गणेशपूजनं सर्वकर्मस्वादौ विशेषतः ॥२६॥ अतो विघ्नसमायुक्तं जातं तं देवसत्तमाः । अस्माभिः पूजितो ढुंढिर्हनिष्यति महासुरम् ॥२७॥ अधुनैकाक्षरं मंत्रं जप्त्वा ध्यात्वा गजाननम् । पूजयित्वा तपोयुक्तास्तोषयामो विशेषतः ॥२८॥ श्रीशिव उवाच । ब्रह्मणो वचनं श्रुत्वा देवा मुनिसमन्विताः । साधु साधु ब्रुवंति स्म तथा चक्रुः सहेश्वराः ॥२९॥ निराहारसमायुक्ता एकाक्षरविधानतः । तोषयामासुरत्यंतं भक्तियुक्ता गणेश्वरम् ॥३०॥ एवं वर्षशते पूर्णे प्रसन्नो गणनायकः । ययौ तान् देवमुख्यांश्च वरदो मुनिसत्तमान् ॥३१॥ मूषकोपरि संस्थं ते ददृशुर्द्विरदाननम् । प्रणेमुर्हर्षसंयुक्ताः पूजयामासुरादरात् ॥३२॥ पुनः प्रणम्य विघ्नेशं देवा मुनिसमन्विताः । तुष्टुवुर्गणनाथं ते धूम्रवर्णं प्रहर्षिताः ॥३३॥ देवर्षय ऊचुः । धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे ।