मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 816, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ४ पान ७ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ॥५१॥ ततः शिवः स्वयं तद्रूययौ क्रोधसमन्वितः । हतोद्यमः पपालाऽसौ दाहयुक्तः स्वभावतः ॥५२॥ ततोऽतिखेदसंयुक्तो विष्णुः स्वयमुपागतः । तत्याज वारुणं शस्त्रं स्वसत्तासंयुक्तं परम् ॥५३॥ तथापि न स शांतोऽभूदग्निः परमदारुणः । जज्वलातीव सर्वत्र दाहयामास देवपान् ॥५४॥ ततोऽतिदाहसंयुक्तः पपाल च जनार्दनः । विष्णुना संयुताः सर्वे देवेशाः पप्लुर्भयात् ॥५५॥ गत्वा गिरिगुहासंस्था बभूवुर्भयसंकुलाः । कंदादिभक्षयंतस्ते दिवसानतिचक्रमुः ॥५६॥ ज्ञात्वा वृत्तांतमेवाहं समाहृत्य स्वशस्त्रकम् । आग्रेयमगमद्दैत्यैर्वैकुंठं हर्षसंयुतः ॥५७॥ तत्र स्थित्वाऽभिमानी स परां मेने कृतार्थताम् । न मत्तः श्रेष्ठ इत्येव गर्वयुक्तो बभूव ह ॥५८॥ ततो गर्वं शिवस्यैव तथा स्थाप्य पदेऽसुरः । श्रेष्ठं विकुंठनाथं च स चक्रे पुत्रमुत्तमम् ॥५९॥ पिशुनं शक्तिलोकस्य वेदघ्नं सर्वलोपकम् । प्रमादं ब्रह्मणो नाथं चकार मदसंयुतः ॥६०॥ शंखमिंद्रपदस्यैव नाथं चक्रे महासुरः । कालं यमस्य लोकस्य कमलं वरुणस्य च ॥६१॥ कुबेरस्य पदे स्थाप्याऽधर्मधारक- मादरात् । ततः स्वनगरं सर्वैः समाययौ महाबलः ॥६२॥ तत्रस्थः प्रशासासौ ब्रह्मांडं लोकसंकुलम् । अहं मेने न किंचिद्वै समं भाग्येन तेजसा ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहमसुरब्रह्मांडजयो नाम तृतीयोऽध्यायः ॥ ❖❖❖ ॥ श्रीगणेशाय नम ॥ शिव उवाच । दैत्योऽहंकारकोऽत्यंतं परस्त्रीलालसस्ततः । बभूव दैत्यपैः सर्वैर्नागकन्याः समानयत् ॥१॥ देवकन्या नराणां च स्त्रियः कन्या विशेषतः । समाहृत्य बलात् सोऽपि बुभुजे सर्वदूषकः ॥२॥ मद्यमांसपरोऽत्यंतं बभूव द्विजसत्तमाः । गणेशं त्यज्य दुष्टात्मा पापकर्मपरोऽभवत् ॥३॥ एकदाऽहं सभासंस्थं जगादाऽधर्मधारकः। दैत्येंद्रैः प्रेरितः सर्वैः कृत्वा करपुटं वचः ॥४॥ अधर्मधारक उवाच । जितं त्वया महाभाग ब्रह्मांडं लोकसंकुलम् । जगदीशस्त्वमेवैको नान्यः कश्चन विद्यते ॥५॥ देवा विष्णुमुखाः सर्वे भवंति वनसंस्थिताः । प्रकीर्तिताः शत्रवो नो वेदेषु च सुरासुराः ॥६॥ शस्त्रादिभिश्च देवेंद्र्रा मरिष्यंति कदापि न । अमरा वेदवादेषु कथिता पश्य मानद ॥७॥ कर्मान्ना अमराः सर्वे नष्टे कर्मणि दैत्यप । मरिष्यंति न ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖