मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 815, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ दिए गए पृष्ठ का मूल पाठ (Transliteration/Transcription) निम्नलिखित है:
ऽप्सरोगणैः । गंधर्वैर्गीयमानः स शुशुभे परमश्रिया ॥२६॥ ततो देवपदेषु संस्थापयामास चासुरान् । स्वर्गभोगं चकारैवं दैत्येंद्रैः श्वशुरेण च ॥२७॥ ततः स दैत्यसंघैस्तैः सन्नद्धः प्रययौ द्विजाः । ब्रह्मलोकं महोग्रतं विधिहीनं ददर्श ह ॥२८॥ विवेश हर्षयुक्तस्तन्नगरं दैत्यसंयुतः । ब्रह्मासनसमासीनो बुभुजे विविधान् परान् ॥२९॥ ततः स दैत्यपैः सर्वं ज्ञात्वा वृत्तांतमंजसा । कैलासं भानुलोकं तु शक्तिलोकं ययौ क्रमात् ॥३०॥ तत्र विलाससंयुक्तो बुभुजे विविधान् परान् । विकुंठ- विजयर्थं स प्रययौ दैत्यपैर्वृतः ॥३१॥ दूतं संप्रेषयामास कालं सर्वभयंकरम् । स गत्वा केशवं नत्वा जगौ वै वाक्य- मुल्बणम् ॥३२॥ काल उवाच । अहं त्वसुरसंयुक्त आययौ स महाबलः । तेनाऽहं सामभावार्थं प्रेषितस्ते प्रसन्निधौ ॥३३॥ त्यक्त्वा विकुंठं देवेशैर्गच्छ त्वं यत्र ते रुचिः । नारायण न हन्मि त्वां नोचेद्युद्धोद्यतो भव ॥३४॥ कालस्य वचनं श्रुत्वा केशवः क्रोधसंयुतः । जगाद तं महादैत्यं दहन्निव प्रधर्षयन् ॥३५॥ श्रीविष्णुरुवाच । किं मां पापस्वरूपस्त्वं वदसि मंदविक्रम । हनिष्याम्यहमद्यैव दैत्ययुक्तं महासुरम् ॥३६॥ गच्छ दूत स्वभावस्थं न हन्मि त्वां खलाधम । स्वपदं त्यज्य दैत्येशाधीनोऽहं किं भवामि तु ॥३७॥ ततोऽहंकारकं गत्वा कालासुरः प्रतापवान् । वृत्तांतं कथयामास दैत्येंद्रैः संयुतं परम् ॥३८॥ श्रुत्वा दैत्यगणाः सर्वे क्रोधयुक्ता बभूविरे । अहंकारासुरेणैव युक्ता युद्धोद्यता बभुः ॥३९॥ तान्निवार्य महाबाहुरहं क्रोधसमन्वितः । जगाद दैत्यमुख्यान् स वाक्यं सर्वहितावह्म् ॥४०॥ अहमुवाच । किमर्थं श्रमसंयुक्ता भविष्यथ महाबलाः । अमोघास्त्र- वरैर्युक्तः करिष्याम्यधुना सुखम् ॥४१॥ एवमुक्त्वा ततो दैत्यः सज्जं कृत्वा महद्धनुः । मुमोचाग्निमयं चास्त्रं संमंत्र्य क्रोधसंयुतः ॥४२॥ सहसास्त्रं प्रजज्वाल दिशो दश महोज्ज्वलम् । विकुंठं दाहयामास देवान् सर्वान् समंततः ॥४३॥ ततः क्षोभयुता देवास्तत्यजुर्वरुणास्त्रकम् । तेनैव तन्न शांतं तु बभूवे तेजसान्वितम् ॥४४॥ ततः खेदयुताः सर्वे पपुलुर्भयसंयुताः । पीडिता अग्निनाऽत्यंतं त्यक्त्वा वैकुंठमेव च ॥४५॥ वरुणश्च स्वयं दृष्ट्वा जगाम रणमूर्धनि । चंद्रेण संयुतः सोऽपि जलं सृष्ट्वा व्यवस्थितः ॥४६॥ जलेन न च शांतोऽभूदग्निः परमदारुणः । दाहयुक्तः पपालाऽसौ वरुणश्चंद्रसंयुतः ॥४७॥ ततः शक्तिः समायाता महास्त्रं वरुणात्मकम् । मोचयामास तस्मात्तु जलधारा प्रवर्तिता ॥४८॥ घृतेन संयुतस्तत्र यथाग्निर्जल- संयुतः । जज्वल मायया तस्याऽहंकारस्य विशेषतः ॥४९॥ ततो दाहसमायुक्ता शक्तिः पपाल तत्क्षणात् । क्रुद्धो भानुः स्वयं तत्राऽजगाम क्रोधसंयुतः ॥५०॥ सोऽपि स्ववीर्यसंयुक्तं वरुणास्त्रं जहौ मृधे । पूर्ववद्वाहसंयुक्तः पपाल च दिवाकरः