मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 814, कुल 1023 में से
संदर्भ में पढ़ेंशीर्षक (Header): खं. ८ अ. ३ । पान ५
॥ श्रीगणेशाय नमः ॥ शिव उवाच । रथारूढः स्वयं तन्नाहं निर्जगाम दैत्यपैः । पुत्रौ तथा प्रधानांश्च सन्नद्वा असुरा ययुः ॥१॥ नाना वर्णा महाक्रूराः कालस्य भयदायकाः । नाना वाहनगाः सर्वे तमनु प्रययुः किल ॥२॥ चतुरंगचमूमध्ये शुशुभे दैत्यनायकः । अपारसेनया युक्तः पृथ्वीं जेतुं मनोदधे ॥३॥ शंखादयो महावीरा नृपान् जग्मुः सुदारुणाः । जित्वा राजकुलं सर्वं समाजग्मुर्महासुरम् ॥४॥ नृपास्तैः किं द्विजा युद्धं करिष्यंति महाबलैः । मृताः केचित् क्षताः केचित् केचित्तान शरणं ययुः ॥५॥ करदांस्ते नृपान् कृत्वा तेषां राज्ये स्वसेवकान् । स्थापयामासुरव्यग्रान् दैत्येंद्रा हर्षसंयुताः ॥६॥ सप्तद्वीपवतीं जित्वा पृथ्वीं पातालमाययुः । दैत्येंद्रा नागमुख्यांस्ते जयार्थं जयशालिनः ॥७॥ शेषो नागयुतस्तेषां शरणं समुपागतः । ज्ञात्वा वरबलं योगी साम चक्रे महासुरैः ॥८॥ वार्षिकं करभारं स स्वीकृत्य स्वस्थलं ययौ । नागेंद्रैः संवृतः शेषो दुःख- युक्तेन चेतसा ॥९॥ तथापि दैत्यमुख्यास्ते दैत्यं दैत्यसमन्वितम् । समीपे तस्य संस्थाप्य ययुरहं महाबलाः ॥१०॥ ततो दैत्येंद्रसंयुक्तः काव्येनाऽहंप्रतापवान् । स्वर्गं ययौ महातेजा वरगर्वसमन्वितः ॥११॥ दूतं संप्रेषयामासाहमिंद्रस्यैव सन्निधौ । स गत्वा देवराजाय प्रणम्यैतद्वचो जगौ ॥१२॥ ततः क्रोधसमायुक्त इंद्रो देवेंद्रमुख्यकैः । विचार्यांगिरसं सर्वैर्जगाम प्रणाम तम् ॥१३॥ तेनापि सत्कृतः सोऽपि जगाद वचनं परम् । सर्वेषां दुःखदं पूर्णं असुराणां जयावहम् ॥१४॥ इंद्र उवाच । अहं वरसमायुक्तः समायातो महाबलः । दूतेन नो वदत्यद्य शरणं याहि देवपैः ॥१५॥ अतः सुरैः समायुक्तो भवंतं सर्ववेदिनम् । समायातो वद स्वामिन् त्वदाज्ञावशगा वयम् ॥१६॥ गुरुरुवाच । गणेश्वरवरदानेन मत्तोऽसौ नात्र संशयः । जेष्यते सकलं तस्माच्छरणं नैव शोभनम् ॥१७॥ अतो वयं विधातारं व्रजामहे त्वरान्विताः । स श्रेष्ठः सर्वभावेन करिष्यति हितं च नः ॥१८॥ ततः सर्वे विधातारं जग्मुर्देवाः सवासवाः । प्रणम्य तं जगुः सर्वे वृत्तांतं दैत्यसंभवम् ॥१९॥ श्रुत्वा खेदयुतो ब्रह्मा गृह्य तान् शंकरं ययौ । तं प्रणम्य जगौ सर्वं स देवो वृत्तमुल्बणम् ॥२०॥ जगाम सोऽपि निःश्वस्य तैः सार्धं विष्णुमादरात् । प्रणम्य कथयामास वृत्तांतं दुःखदायकम् ॥२१॥ श्रुत्वा क्रोधयुतो विष्णुः समाश्वास्य महेश्वरम् । सदेवं तं जगादाऽसौ पराक्रमयुतं वचः ॥२२॥ श्रीविष्णुरुवाच । हनिष्यामि महादैत्यमहं चासुरसंयुतम् । मायायुक्त- त्वमेवं यन् मम तन्न प्रबाधते ॥२३॥ एवमुक्त्वा महादेवं तत्रैवासंस्थितोऽभवत् । देवैः सह महाभागः प्रतीक्षन् दैत्यपौरुषम् ॥२४॥ अहंकारासुरस्तत्र ज्ञात्वा वृत्तांतमादरात् । प्रविवेशामरावत्यां दैत्येंद्रैर्हर्षसंयुक्तः ॥२५॥ इंद्रासनसमारूढः सेव्यमानो-