मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 813, कुल 1023 में से
संदर्भ में पढ़ेंपुत्रपौत्रादिकं सौख्यं भुक्तिं मुक्तिं लभेन्नरः । अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् ॥१८॥ वरान् वृणु महाभाग मनेप्सितान् ददाम्यहम् । तपसा स्तोत्रमुख्येन तुष्टोऽहं ते महादरात् ॥१९॥ अहमुवाच । प्रसन्नोऽसि यदा नाथ भक्तिं देहि त्वदीयिकाम् । यद्यदिच्छामि तत्तन्मे सफलं सर्वदाऽस्तु च ॥२०॥ मायाविकारयुक्तेभ्यो मरणं नैव मे भवेत् । राज्यं ब्रह्मांड- गोलस्य देहि मे भोगसंयुक्तम् ॥२१॥ आरोग्यं विजयं ढुंढे संग्रामे ह्यतुलं तथा । अमोघास्त्रं सदा मेऽस्तु त्वत्प्रसादाच्च देहि भोः ॥२२॥ तथेति तमहं देवो जगाद गणनायकः । अंतर्धाय स्वमात्मानं निजलोकं जगाम ह ॥२३॥ ततोऽतिहर्षसंयुक्तोऽहं जगाम कविं पुनः । तं प्रणम्य स्ववृत्तांतं कथयामास विस्तरात् ॥२४॥ श्रुत्वा मुनिवरः सोऽपि तं प्रशंस्य महासुरम् । असुरानाह्वयामास श्रेष्ठान् काव्यो महामतिः ॥२५॥ तस्याज्ञया त्वरावंतो मुनिं सर्वे समागताः । असुरांस्तान् महातेजा हितं काव्यो जगाद वै ॥२६॥ अहमासुरवृत्तांतं श्रुत्वा ते शुक्रवक्त्रतः । हर्षितास्तं प्रणम्यादौ जगुर्वचो हितावहम् ॥२७॥ असुरा ऊचुः । आज्ञापय महायोगिन् कार्यं चेतोगतं प्रभो । करिष्यामो वयं दासास्त्वत्पादस्य जवान्विताः ॥२८॥ तेषां वचनमाकर्ण्य काव्यः सर्वार्थकोविदः । ब्राह्मणान् वेदनिष्ठांश्च समानाय्य पुपूज ह ॥२९॥ तैरहं सिंचयामासासुराणां राज्यकर्मणि । यथाशास्त्रविधानेन दैत्याधीशं चकार ह ॥३०॥ प्रधानास्तस्य पंचाऽसन् सुहृदास्तेजसा युताः । शंखो वेदघ्नकः कालः पैशुनो- ऽधर्मधारकः ॥३१॥ नगरं निर्ममे सोऽपि विषयप्रियनामकम् । अहमासुरकस्तत्र राज्यं चकार हर्षतः ॥३२॥ समायाता निवासार्थं जना वर्गाश्रमन्विताः । असुरा विविधाश्चैव सुखं लेभुः समास्थिताः ॥३३॥ प्रमादासुरपुत्रीं वै ममतां रूप- शालिनीम् । तस्मै ददौ प्रपादश्च यौवनस्थां महात्मने ॥३४॥ ममतासंयुक्तो रेमे दैत्येंद्रोऽहं प्रहर्षितः । मोहितो मायया तस्या ममताया वशे स्थितः ॥३५॥ तस्यां पुत्रौ महावीर्यौ जनयामास दैत्यपः । गर्वश्रेष्ठौ तयोर्नाम चक्रुः सर्वे द्विजातयः ॥३६॥ एवं बहौ गते काले तमुवाच प्रमादकः । किं स्थितोऽसि महावीर जय देवादिकान् प्रभो ॥३७॥ वरदानबलेन त्वं निर्भयोऽसि न संशयः । वराणां सफलं सर्वं कुरु भोगपरं महः ॥३८॥ तथेति श्वशुरं सोऽपि जगादाऽहं प्रतापवान् । समानाय्य कविं तत्र पूजयामास दैत्यपैः ॥३९॥ तस्याऽज्ञां गृह्य दैत्येशः परान् दैत्यान् समाह्वयत् । तैः संयुतः स शुक्रेण प्रधानैः शुशुभेऽसुरः ॥४०॥ दिग्विजयार्थमहं तत्र सर्वानाज्ञापयत् प्रभुः । सन्नद्धास्तं समाजग्मुर्दैत्या परमदारुणाः ॥४१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥