मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 812, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. २ पान ३ ददौ तस्मै गाणेशं षोडशाक्षरम् । मंत्रं विधिसमायुक्तं ततः सोऽंतर्हितोऽभवत् ॥४९॥ अहं तत्र तपस्तेपे ध्यात्वा गणपतिं हृदि । निराहारपरो भूत्वा जपमंत्रपरायणः ॥५०॥ शीतोष्णवातवर्षादिसहने दृढनिश्चयः । जित्वा खानि प्रयत्नेन तोषयामास विघ्नपम् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । एवं वर्षसहस्रेण तं दिव्येन गजाननः । ययौ प्रसन्नभावेन भक्त्या वरार्थमादरात् ॥१॥ आखुवाहस्त्रिनेत्रश्च गजवक्त्रो महोदरः । चतुर्भुजश्च पाशाद्यैः शोभितः सिद्धिवुद्धियुक् ॥२॥ एकदंतः शूर्पकर्णो देवैर्मु निसम- न्वितैः । संस्तुतः स्वगणैश्चैव सेवितः सर्वदायकः ॥३॥ तं दृष्ट्वाऽहं समुत्थाय प्रणामं कृतांजलिः । पूजयामास विघ्नेशं सिद्धि- बुद्धिसमन्वितम् ॥४॥ ततः क्रमेण देवान् स मुनीन् पूज्य पुनः प्रभुम् । प्रणनाम प्रतुष्टाव गणेशं प्रकृतांजलिः ॥५॥ अहमुवाच । नमस्ते गणनाथाय हेरंबाय परात्मने । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥६॥ ब्रह्मसु ब्रह्मनाथाय निजेषु स्वस्वरूपिणे । सांख्याय ते परत उत्थानस्थेषु नमो नमः ॥७॥ ज्ञानेषु बोधरूपाय सोऽहंदेहिषु ते नमः । देहेषु बिंदुरूपाय विघ्नेशाय नमो नमः ॥८॥ स्रष्टृषु ब्रह्मदेवाय विष्णवे पालकेषु ते । संहर्तृषु शिवायैवैकदंताय नमो नमः ॥९॥ प्रकाशकेषु सूर्याय मोहकेषु च शक्तये । देवेषु देवराजाय विनायकाय ते नमः ॥१०॥ अग्नये ते दाहकेषु यमाय नीतिधारिणाम् । रक्षःसु नैर्ऋतायैव शूर्पकर्णाय ते नमः ॥११॥ वायवे बलयुक्तेषु निधिषु धनपाय ते । रुद्रेषु कालरूपाय नमो लंबोदराय वै ॥१२॥ प्रजापतिषु दक्षाय नागेशे शेषरूपिणे । अनंतविभवायैव किं ते स्तौमि नमो नमः ॥१३॥ यं स्तोतुं न समर्थाश्च वेदाद्या योगिनोऽमलाः । तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः ॥१४॥ धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता । माता कुलं तथा ज्ञानं त्वदंघ्रियुगदर्शनात् ॥१५॥ एवमुक्त्वा गणेशानं प्रणनाम महासुरः । हर्षेण महता युक्तस्तमुवाच गजाननः ॥१६॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते शृण्वते चैव मयि भावप्रदायकम् ॥१७॥