भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 811, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 811

खं. ८ अ. १ पान २

द्विजाः ॥२४॥ येनेशत्वं च मे दत्तमनीशत्वं तथाऽपरम् । जनेभ्यस्तं गणाधीशं जज्ञेऽहं भक्तिसंयुतः ॥२५॥ अहंकारयुताः सर्वे न जानंति गजाननम् । तं जित्वाऽहं मुनींद्राश्च सेवे तस्य पदद्वयम् ॥२६॥ शिवस्य वचनं श्रुत्वा सनकाद्यास्तमब्रुवन् । विस्मिता भावसंयुक्ता गणेशज्ञानलालसाः ॥२७॥ सनकाद्या ऊचुः । अभिमानं महादेव जेतुं नैव प्रशक्यते । वेदादिभिः च देवेशैरस्माभिश्चान्ययोगिभिः ॥२८॥ नरोऽहं देवरूपोऽहं आत्माहं खस्वरूपकः । ब्रह्माहं च महेशान अहं तेषु प्रति- ष्ठितः ॥२९॥ अहं केनैव योगेन सदाशिव जितस्त्वया । वद तस्य चरित्रं नो विस्तरेण सुशांतिदम् ॥३०॥ श्रीशिव उवाच । अहं ब्रह्मणि विप्रेशा गतो ब्रह्मास्मिना सह । महावाक्यमये योगे ब्रह्माऽहं दृश्यते न च ॥३१॥ अहं नास्ति तथा ब्रह्म नेति ब्रह्माहमंजसा । बोधार्थं साधनं चेदं महावाक्यं स्मृतं परम् ॥३२॥ ततः संशयसंयुक्ता सनकाद्यास्तमब्रुवन् । न बुद्धं वचनं नाथ त्वदीयं दुर्गमं परम् ॥३३॥ अतः सुलभयोगेन वद योगं महेश्वर । दयया शिष्यमुख्यांश्च तारणाय सुशांति- दम् ॥३४॥ श्रीशिव उवाच । अत्र वः कथयिष्यामि चेतिहासं पुरातनम् । अहम्भावविनाशार्थमहंकारस्य सौख्यदम् ॥३५॥ एकदा ज्योतिषां नाथः सूर्य आत्मा शरीरिणाम् । ब्रह्मणां चाभिषिक्तः स कर्मणां राज्यकर्मणि ॥३६॥ स प्राप्य राज्य- मुग्रं तत् कर्मणां ज्योतिषां पतिः । अभिमानयुतोऽत्यंतं बभूवे देवदेवपः ॥३७॥ कर्मणा सृष्टिकर्ता वै ब्रह्मा लोकपितामहः । पालकः कर्मणा विष्णुर्हरः संहारकोऽभवत् ॥३८॥ कर्मणाऽन्नप्रभावेण पोषिका शक्तिरेव च । कर्माधीनं जगत् सर्वं सेश्वरं नात्र संशयः ॥३९॥ सोऽहं कर्ममयो देवः कर्मणां चालकः परः । मदधीनमिदं भाति भानुरेवं सुगर्वितः ॥४०॥ अहंकारेण संयुक्तश्छिङ्कां चक्रे कदा प्रभुः । तस्य छिङ्कासमुत्पन्नः पुरुषः सुन्दराकृतिः ॥४१॥ स पपात महीपृष्ठे न ज्ञातस्तेन भानुना । महाकायो विशालाक्षो बलयुक्तो व्यराजत ॥४२॥ तत्राकस्मात् समायातः शुक्रः सर्वार्थकोविदः । पप्रच्छ हर्षसंयुक्तस्तं दृष्ट्वा भावसंयुतः ॥४३॥ शुक्र उवाच । कोऽसि त्वं कुत्र ते वासः कर्तुमिच्छसि किं वद । माता पिता च ते त्राता कः किं मत्त इहेच्छसि ॥४४॥ पुरुष उवाच । सूर्यपुत्रो द्विजश्रेष्ठ तस्य छिङ्कासमुद्भवः । अनाथोऽहं महाभाग पतितो धरणीतले ॥४५॥ त्वं दयायुक्तभावेन मां पृच्छसि न संशयः । त्वदधीनो भविष्यामि शाधि मां मुनिसत्तम ॥४६॥ श्रीशिव उवाच । तस्य तद्वचनं श्रुत्वा शुक्को योगविदांवरः । ध्यानेनालोक्य तत्कर्म तमुवाच शुभावहम् ॥४७॥ शुक्र उवाच । अहम्भावात् समुत्पन्नस्त्वं सूर्यान्नात्र संशयः । अहंनामा भवस्वाद्य तपः कुरु महामते ॥४८॥ एवमुक्त्वा