मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 824, कुल 1023 में से
संदर्भ में पढ़ेंHere is the complete and precise Devanagari text transcription from the image:
खं. ८ अ. ६ पान १५ श्रीगणेश उवाच । भवतीभ्यां वृताः सर्वे वराः सुदुर्लभाः पराः । दत्ता मया विशेषेण मोहयेतमिदं जगत् ॥६८॥ मायाभ्यां सिद्धिबुद्धिभ्यां रचितं विविधं जगत् । ब्रह्म नानाविधं देव्यौ तत्राऽहं बिंबितोऽभवम् ॥६९॥ बिंबं मे मोहयुक्तं तन्नाना- भावपरायणम् । मम भक्तिस्वभावेन मोहहीनं भवेत् सदा ॥७०॥ मम बिंबस्य भार्ये तु संशयो न भविष्यथः । तेन युक्ते महामाये बंधमोक्षौ करिष्यथः ॥७१॥ सिद्धिबुद्धियुतोऽहं तु ब्रह्मभूतः सनातनः । न तत्र योग्यता देव्यौ भवत्यो- र्मोहनात्मनोः ॥७२॥ एवमुक्त्वा गणाधीशोऽन्तर्धानं वै चकार ह । माये तं मनसा ध्यात्वा संस्थिते तत्र दैत्यप ॥७३॥ ततो गणेशबिंबं यत् पतितं तत्तयोर्हृदि । तेन युक्ते चतुर्धेदं चक्रतुर्भेदनात्मके ॥७४॥ बाह्यसौख्यकरी माया चतुर्णां जगतां किल । ब्रह्मणां देहरूपा च श्रीः सर्वत्र प्रकीर्तिता ॥७५॥ चतुर्णां जगतां तद्ब्रह्मणां ज्ञानरूपिणी । ओंकारात्मक रूपा सा माया सर्वत्र संस्थिता ॥७६॥ ताभ्यां युक्तो गणेशानः क्रीडते विविधे रतः । मोहयुक्तविहीनत्वान्नानाभेदपरायणः ॥७७॥ अतः सर्वेषु जीवेषु मोहितेषु महासुर । मोहहीनात्मभावेषु ओंकारौ त्वादिसंमतौ ॥७८॥ आदौ प्रकृतिमुच्चार्य पश्चात् पुरुष उच्यते । कृतं विघ्नेश्वरेणैतत् जानीहि दैत्यनायक ॥७९॥ कुत्र श्रीशब्दयुक्तश्च गणेशः पठ्यते बुधैः । तत्रोंकारसमायुक्तो मायाभ्यां खेलनात् परः ॥८०॥ वामांगे श्रीर्धृता तेन दक्षिणांगे महासुर । ओंकारो गणनाथस्य बिंबेन ब्रह्मरूपिणा ॥८१॥ बिंबं सर्वत्र भावेषु तदाकारं बभूव ह । अतः शिवाद्यः सर्वे जाताः ओंकारसंयुताः ॥८२॥ जीवा ओंकारसंयुक्ताः पठ्यंते वेदवादिभिः । आदिमाये समाख्याते बिंवाधारे विचारय ॥८३॥ अतः ओंकारमोहं त्वं त्यक्त्वा विघ्नेश्वरं भज । सिद्धिबुद्धियुतं तात तेन सौख्यमवाप्स्यसि ॥८४॥ इति ते कथितं सर्वं धूम्रवर्णस्य चेष्टितम् । गच्छतं शरणं दैत्य शांतिदं मुक्तिमुक्तिदम् ॥८५॥ भिन्नभावकरे माये ओंकारौ परिकीर्तितौ । ब्रह्मभूयमयी प्रोक्ता सिद्धिर्बुद्धिविचक्षण ॥८६॥ एतत्ते कथितं सर्वं रहस्यं सर्वसंमतम् । वेदगुह्यमहंकार गच्छ तं सर्वसिद्धये ॥८७॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहंकारासुरज्ञानोपदेशो नाम षष्ठोऽध्यायः ॥