मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 825, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ७ पान १६ ॥ श्रीगणेशाय नमः॥ शिव उवाच। शुक्रस्य वचनं श्रुत्वाऽहंकारस्तं प्रणम्य च। जगाद ज्ञानसंयुक्तः कृतांजलिः प्रताप- वान् ॥१॥ अहमुवाच। त्वयाऽहं बोधितो नाथाऽतो गच्छामि गजाननम्। सुरासुरमयं ब्रह्म सर्वशांतिप्रदायकम् ॥२॥ एवमुक्त्वा स शुक्रेण संयुक्तः परमार्थवित्। त्र्योंकाराभ्यां मनः कृष्य योगेशं शरणं ययौ ॥३॥ पुरप्रांते महापाशं दृष्ट्वा नम्य कृतांजलिः। तुष्टाव शस्त्रराजं स गणेशांकृतेर्धरः॥४॥ अहमुवाच। पाशाय शस्त्रराजाय नमस्ते बंधरूपिणे। मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥५॥ मोहो मायामयः प्रोक्तो बंधदः सर्वजंतवे। गणेशज्ञानयुक्तश्चेद् बंधहीनो नरो भवेत् ॥६॥ तदेव बंधरूंपाख्यं शस्त्रं तस्य महात्मनः। त्वमेव पाशरूपं वै बंधमोक्षकरं महत् ॥७॥ ये त्वां शरणमा- पन्नास्तेषां ते बंधजं भयम्। नास्ति शस्त्र च मां पाहि शरणागतमादरात् ॥८॥ नमस्ते तेजसां नाथ दुष्टनाशकराय ते। पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः ॥९॥ एवं स्तुत्वा महापाशं प्रणनाम कृनांजलिः। अहंकारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं ययौ ॥१०॥ इदं स्तोत्रं पठेद्यस्तु तस्य बंधो विनश्यति। मायापाशमयः साक्षाद्गणेशो स लभेदद्गतिम् ॥११॥ गतं पाशं विलोक्यैवाहंकारो गुरुणा युतः। धूम्रवर्णं जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥१२॥ पुनरुत्थाय विघ्नेशं पूजयामास भक्तितः। पुनः प्रणम्य सर्वेशं तुष्टाव स कृतांजलिः ॥१३॥ अहमुवाच। धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने। अव्यक्तायादिबीजाय परेशाय नमो नमः ॥१४॥ लंबोदराय देवाय दैत्यनाथाय ते नमः। हेरंबाय महेशानां पालकाय नमो नमः ॥१५॥ कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे। ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥१६॥ चराय चर- रूपाय जंगमस्थाय ते नमः। स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥१७॥ स्थावरजंगमाभ्यां च हीनाय ते नमो नमः। योगाय योगनाथाय योगिने योगदायिने ॥१८॥ योगेभ्यो योगदात्रे ते नमश्चिंतामणे नमः। शांताय शांतचित्तैस्तु प्राप्याय शांतमूर्तये ॥१९॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद। सिद्धिनाथाय बुद्धीश तयोर्योग्याय ते नमः ॥२०॥ मूषको- परि संस्थाय मूषकध्वजधारिणे। चतुर्भुजाय स्वानंदपतये ते नमो नमः ॥२१॥ किं स्तौमि त्वां गणाधीश धूम्रवर्णस्वरू- पिणम्। अव्यक्तं वेदवादेषु कथितं सततं प्रभो ॥२२॥ स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः। योगशांतिधरास्ते कथयितुं ध्रुवमक्षमाः ॥२३॥ अतस्त्वां धूम्रवर्णाख्यं वदंते वेदवादिनः। पश्यामि तं धूम्रवर्णमेवाऽहं योगिदुर्लभम् ॥२४॥ धन्योऽहं सकुलो नाथ त्वदंघ्रियुगदर्शनात्। एवमुक्त्वा ननर्त्ताऽसौ भक्तियुक्तो महासुरः ॥२५॥ निमग्नं तं भक्तिरसे दृष्ट्वा