भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 830, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 830

खं. ८ अ. ९ पान २१ संदेहो यत्र कुत्र मृतोऽपि चेत् ॥१७॥ तत्र विष्णुमुखा देवाः कश्यपाद्या महर्षयः । नित्यं स्नानं प्रकुर्वंति प्रहृष्टे- नांतरात्मना ॥१८॥ अन्यक्षेत्रस्थनागाद्यास्तत्र स्नानं प्रकुर्वते । जनाः क्षेत्रनिवासार्थं स्थितास्तेऽपि मुदान्विताः ॥१९॥ शिवविष्णुमुखानां च तत्र तीर्थानि मानदाः । स्थितानि स्नानमात्रेण तेषां पदप्रदानि च ॥२०॥ तत्र दर्शनमात्रेण धूम्रवर्णस्य वै सकृत् । ईप्सितं लभते सद्यो मानवो पुण्यवान् भवेत् ॥२१॥ यात्रामान्रेण तत्रैव धर्मार्थकाममोक्षकम् । लभते एकवारेण यत्र कुत्र गतोऽपि चेत् ॥२२॥ भाद्रशुक्लचतुर्थ्यां स स्थापितो धूम्रवर्णकः । देवर्षिभिश्च मध्याह्ने सा तिथिः परमा मता ॥२३॥ वार्षिकः सुमहोत्साहस्तत्रैव क्रियते जनैः । भाद्रशुक्लचतुर्थ्यां तु यात्रां कुर्वंति मानवाः ॥२४॥ परस्परं प्रहृष्टास्ते बोधयंति गजाननम् । सरोमांचा भवंत्येव शंकराद्या महर्षयः ॥२५॥ गाणेशा भावसंयुक्ता यात्रार्थं हर्षसंयुताः । तत्र गच्छंति चान्ये ये वैष्णवाद्याः प्रहर्षिताः ॥२६॥ कृत्वा यात्रां पुनः सर्वे स्वस्वस्थानगता मुदा । स्मरंति धूम्रवर्णं तं भक्तिभावसमन्विताः ॥२७॥ अंते स्वानंदगाः सर्वे भवंते नात्र संशयः । शैवाद्याः क्रममार्गेण स्वानंदस्था भवंति तु ॥२८॥ क्षेत्रे मरणतो विप्राः स्वानंदो लभ्यते जनैः । यत्र कुत्र स्थिताश्चैव गाणपा ब्रह्मरूपकाः ॥२९॥ धूम्रवर्णस्य क्षेत्रस्य माहात्म्यं लेशतो मया । कथितं विस्तरेणैवार्हति को नैव वर्णितुम् ॥३०॥ गाणेशानि च क्षेत्राणि ब्रह्मभूतमयानि तु । यावंति ब्रह्मगोलेऽस्मिंस्तावंति मुनिसत्तमाः ॥३१॥ धर्मार्थकाममोक्षाणां क्षेत्राणि विविधानि च । चतुःपदमयान्येव ज्ञातव्यानि न संशयः ॥३२॥ पंचमं यत् पदं प्रोक्तं ब्रह्माकारं महर्षिभिः । क्षेत्रं गणपतेर्विप्रा यत्र तत्र स्थितं किल ॥३३॥ इदं क्षेत्रस्य माहात्म्यं शृणुयाद्यो नरोत्तमः । श्रावयेत् प्रपठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥३४॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते धूम्रमहिमावर्णनं नाम नवमोऽध्यायः ॥

🟌★🟌