मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 831, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का संपूर्ण पाठ पंक्ति-दर-पंक्ति (Line-by-Line) दिया गया है:
[पृष्ठ शीर्षक - दाएँ कोने में]: पान २२
॥ श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । धूम्रवर्णावतारस्य भेदा नानाविधाः स्मृताः । वद तेषु विभो मुख्यांश्चरित्रसंयुतान् परान् ॥१॥ धूम्रवर्णचरित्रं तु श्रुत्वा यामो न तृप्तिकाम् । अहंकारहरं पूर्णं ज्ञात्वा त्वत्तो जगद्गुरो ॥२॥ श्रीशिव उवाच । धूम्रवर्णावतारस्य भेदानां चरितं परम् । कथितुं नैव शक्यं तन्मुख्यानां मुनिसत्तमाः ॥३॥ मुख्येषु मुख्यभूतानां चरित्रं लेशतः परम् । कथयामि शृणुध्वं यत् मनसा निश्चलेन तत् ॥४॥ सहजं यत्पदं प्रोक्तं नेतिरूपं मुनीश्वराः । तेन सृष्टं समाख्यं हि ब्रह्म त्वानंदवाचकम् ॥५॥ तेन सत्यानृते सृष्टे ताभ्यामुत्थानसंयुते । विप्रेक्षा ब्रह्मणी सृष्टे ते स्वतः परतोऽभिधे ॥६॥ तेन देहिमयं देहप्रचुरं ब्रह्म वै ततः । बिंदु तेनैव संसृष्टं चतुर्देहमयं परम् ॥७॥ स्थूलं सूक्ष्मं समं नादं तैः सृष्टं विश्वरूपकम् । नानाभेदमयं तस्माद्यष्टिरूपं मुनीश्वराः ॥८॥ एतानि ब्रह्मरूपाणि ह्युत्पन्नानि महर्षयः । ज्ञानहीनान्यक्षमाणि सर्वतः कार्यजातिषु ॥९॥ ततस्तैश्च तपस्तप्तं यस्मै कस्मै नमो नमः । बीजरूपाणि सर्वेषां मंत्रं जप्त्वा निरंतरम् ॥१०॥ ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । दर्शयामास रूपं स्वं तेभ्यो मंत्रमयं परम् ॥११॥ ततस्तत्कृपया तानि ददृशुः स्वहृदि स्थितम् । मंत्रमेकाक्षरं तेजोयुक्तं ज्ञानकरं परम् ॥१२॥ दृष्ट्वा मंत्रं प्रहृष्टानि ब्रह्माणि नेमुरादरात् । मंत्रं संगृह्य तं पूर्वं ध्यात्वा हृदि गजाननम् ॥१३॥ मंत्राकारं गणेशानं ध्यात्वा तेपुः पराणि तु । तोषयामासुरत्यंतं श्रमयुक्तानि विघ्नपम् ॥१४॥ दिव्यवर्ष- सहस्रेण प्रसन्नोऽभूद्गजाननः । दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥१५॥ नरकुंजररूपं तु दृष्ट्वा हृदि विसिस्मिरे । ब्रह्माणि तानि वै ढुंढिर्ददौ ज्ञानं सुनिर्मलम् ॥१६॥ तेन तैर्गणराजस्य ज्ञातं रूपं विशेषतः । सगुणनिर्गुणाभ्यां च युक्तं योगमयं परम् ॥१७॥ ततोऽनिर्हर्षयुक्तानि जातानि मुनिसत्तमाः । नित्यं ब्रह्माणि विघ्नेशं ध्यात्वा जपं समाचरन् ॥१८॥ ततो गणपतिः प्रीतो ययौ तानि सुभक्तितः । शिवरूपधरो भूत्वा पंचवक्त्रस्त्रिलोचनः ॥१९॥ मुंडमालाधरः शंभुर्व्याघ्रेभ- चर्मधारकः । विभूतिलेपः सर्वांगे शेषनागविभूषणः ॥२०॥ वृषभध्वजो वृषारूढश्चंद्रचूडस्त्रिशूलधृक् । अर्धांगे गिरिजायुक्तो योगींद्रो योगिवंदितः ॥२१॥ समागतं महेशानं दृष्ट्वा ब्रह्माणि ब्राह्मणाः । विस्मितानि विशेषेण विचारं चक्रुरादरात् ॥२२॥ गणेशकृपया सद्यो ज्ञातं तैः सकलं महः । शिवस्य हृदि बोधेन परस्परमथाऽब्रुवन् ॥२३॥ स्वमहिम्नि स्थितं ब्रह्म सहजं गणपाकृति । वर्णा धूम्रायितास्तत्र तेन धूम्राक्षरः स्मृतः ॥२४॥ तस्य बिंबं विमोहेन पतितं मायया युतम् । जगत्सु ब्रह्मसु प्राज्ञं तदेवायं वृषध्वजः ॥२५॥ बिंबबिंबिप्रभावेण धूम्रवर्णोऽयमुच्यते । न भेदः शास्त्रवादेषु वरदः प्रभविष्यति ॥२६॥