भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 832, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 832

ततस्तानि समुत्थाय ब्रह्माणि गणपं पुनः । प्रणम्य हृदि संस्थं तं शिवं नेमुर्विशेषतः ॥२७॥ संपूज्य विधिना शंभुं प्रहृष्टानि प्रणम्य च । तुष्टुवुर्ब्रह्मरूपाण्यानंदमुख्यानि मानदाः ॥२८॥ ब्रह्माण्यूचुः । नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे । बिंबाय शंकरायैव शंभवे ते नमो नमः ॥२९॥ अमेयशक्तये तुभ्यं पार्वतीपतये नमः । वृषध्वजाय देवाय सहजाय नमो नमः ॥३०॥ मायाश्रयाय मायायाश्चालकाय परात्मने । महेश्वराय पूर्णाय हेरंबाय नमो नमः ॥३१॥ जटाजूटधरायैव निर्मोहाय सदाशिव । परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥३२॥ स्वाधीनाय नमस्तुभ्यं पंचवक्त्रधराय च । अनाथाय सनाथाय नाथाय नाथरूपिणे ॥३३॥ परब्रह्मस्वरूपाय ब्रह्मादिपतये नमः । गिरीशाय गिरौ शायिंश्चिताभस्मांगधारिणे ॥३४॥ मुंडमालाधरायैव नमस्ते सर्पभूषण । नानाभेदप्रकारेण खेलकाय नमो नमः ॥३५॥ वामभागे ह्यसत्याय सत्याय दक्षिणांगके । तयोर्भेदयोगे चानंदाय ते नमो नमः ॥३६॥ समरूपा महामाया देहस्ते नात्र संशयः । तस्य आत्मस्वरूपस्त्व- मर्धनारीधृषे नमः ॥३७॥ एतादृशं महेशानं पश्यामो ब्रह्मरूपिणम् । सर्वेषां नेतिकर्तारं तेन धन्यानि वै वयम् ॥३८॥ धूम्रवर्णस्त्वमेवेह न भेदो दृश्यते कदा। कस्त्वां स्तोतुं समर्थः स्यात्प्रभोऽतस्ते नमामहे ॥३९॥ शिव उवाच । एवमुक्त्वा महेशानं ब्रह्माणि नेमुरादरात् । तान्युवाच प्रहर्षेण शंकरः करुणानिधिः ॥४०॥ आदिशंभुरुवाच । ब्रह्माणि यान् वरान् ब्रूत दास्यामि तपसा परम् । तुष्टः स्तोत्रेण भक्त्या मे संशयो न हृदीप्सितान् ॥४१॥ ब्रह्माण्यूचुः । वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि स्मृतिं स्वकार्येषु विद्यारूपां महेश्वर ॥४२॥ स्वस्वकार्यं तु कृत्वा वै बंधदं बंधहारक । कुरुष्व बंधहीनानि सततं योगधारकः ॥४३॥ श्रीशिव उवाच । यद्यत् संप्रार्थितं मत्तो भविष्यति सुखप्रदम् । भवतां सत्यसंकल्पा दुर्लभं किं न संभवेत् ॥४४॥ अतुलं बंधहीनार्थं योगं शृणुत सौख्यदम् । तं साध्य बंधहीनानि भविष्यथ न संशयः ॥४५॥ सर्वेषां नेतिकर्तारं मां जानीत चतुर्थकम् । चतुर्णां चैव संयोगे स्वस्वरूपं विदुर्बुधाः ॥४६॥ तस्मात् स्वाधीनरूपं च पराधीनं त्रिधा मतम् । समुत्पन्नं कलांशेन तं जानीत गजाननम् ॥४७॥ स्वस्वरूपमयो ढुंढिर्मायायुक्तः प्रकीर्तितः । चतुर्णां चालकत्वात्तु संयोगाभेदतः प्रभुः ॥४८॥ अयोगः पंचभिर्हीनः सदा निवृत्तिवाचकः । न तत्र ब्रह्मणां योगो जगतां तस्य तेषु च ॥४९॥ संयोगायोगयोर्योगे गणेशो योगवाचकः । पूर्णशांतिप्रदः साक्षाद्ब्रह्मभूतो गजाननः ॥५०॥ गकारः स्वस्वरूपाख्यो णकारो योग उच्यते । स्वामी तयोर्गणेशानो नरकुंजररूपधृक् ॥५१॥ तं भजध्वं विशेषेण तदा शांतिमवाप्स्यथ । सततं बंधहीनानि भविष्यथ न चान्यथा ॥५२॥ यथा

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 832, कुल 1023 में से · BharatKosha