भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 833, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 833

खं. ८ अ. ११ पान २४ धूम्रायितो देशो दृश्यते नैव मानवैः । दृश्यमानस्तथाऽप्येवं धूम्ररोधनभावतः ॥५३॥ तथा चित्तमयी माया पंचधा विविधे रता । तया युक्ता न पश्यंति तं देवं वेदसाधनैः ॥५४॥ वेदा वर्णमयाः प्रोक्ता धूम्रा जाताश्च मायया । गणेशानं स्वशिष्येभ्यो धूम्रवर्णमतो जगुः ॥५५॥ पूर्णशांतिप्रदं योगं धूम्रवर्णात्मकं परम् । जानीत योगयुक्त्या वै भजध्वं तं गजाननम् ॥५६॥ कृत्वा स्वस्वभावस्थं कार्यं नानाविधं सदा । समर्प्य धूम्रवर्णाय बंधहीनानि सर्वदा ॥५७॥ एवमुक्त्वा महादेवस्तत्रै- वांतरधात्ततः । ब्रह्माणि तं नमस्कृत्य ससृजुर्विविधं जगत् ॥५८॥ यथोपदिष्टयोगेन गणेशं नित्यमादरात् । भजंते तानि ब्रह्माणि योगयुक्तानि वै द्विजाः ॥५९॥ अयं शिवात्मकः प्रोक्तोऽवतारः परमाद्भुतः । धूम्रवर्णकलांशश्च सर्वसिद्धिप्रदायकः ॥६०॥ चरित्रं शृणुयाद्यश्चेदिदं पठेद्यदा नरः । भुक्त्वा भोगान् स्वयं चांते गच्छेत् स्वानंदकं पुरम् ॥६१॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते शिवात्मकावतारचरितं नाम दशमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ शिव उवाच । एकदा संस्थितं विप्राः कैलासे गिरिजायुतम् । गणेशं भजमानं मां दृष्ट्वा नंदी समब्रवीत् ॥१॥ नंद्युवाच । शिव त्वं सर्वरूपश्च सर्वस्वेन प्रकीर्तितः । सर्वेभ्यः फलदाता वै कर्मणां कर्मधारकः ॥२॥ योगिभ्यो योगनाथस्त्वं योगसिद्धिप्रदायकः । त्वत्तः परतरं नास्ति भजसे कं गजाननम् ॥३॥ वेदे शिवसुतः प्रोक्तो गणेशो नात्र संशयः । तं कथं भजसे नाथ स्वपुत्रं स्वामिनं यथा ॥४॥ ईशस्ते नाम विख्यातं सर्वेशत्वात् सदाशिवः । तवेशो नैव वेदेषु त्वमेकः सर्वभावनः ॥५॥ किं मोहार्थं जनानां च पार्वत्या सह शंकर । भजसे गणनाथं त्वं शैवगुप्तत्वकारणात् ॥६॥ मा कुरुष्व वृथा स्वामिन् गणेशभजनं कदा । शैवानां मोहदं देव व्यभिचारपदप्रदम् ॥७॥ मुद्गल उवाच । नंदिनो वाक्यमाकर्ण्य तमुवाच सदाशिवः । हर्षेणोत्फुल्लनेत्रश्च महापाशुपतं परम् ॥८॥ श्रीशिव उवाच । न जानासि गणेशानं नंदिस्त्वं मत्परायणः । तस्याऽहं गणरूपश्च पश्य वेदे विचक्षण ॥९॥ गणाः समूहरूपाश्चानंतास्तस्य महात्मनः । ईशानां वै समूहेऽहं गणो गणपतेः स्मृतः ॥१०॥ एक एव गणेशानः सर्वे तस्य गणाः स्मृताः । ब्रह्माकाराश्च विश्वाकारा ब्रह्मेशस्य मानद ॥११॥ विद्या नानात्मिका