मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 834, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ११ पान २५ प्रोक्ता तस्या नानाविधाः स्मृताः । समुत्पन्ना विशेषेण विद्या ज्ञानप्रकाशकाः ॥१२॥ विद्याधीशोऽहमेकश्च कथितो वेदवादिभिः । योगविद्यां मयाऽऽश्रित्य गणेशः प्रकटीकृतः ॥१३॥ समाधिजं परं ब्रह्म तदेव पुत्र उच्यते । अतः समाधिजो यो मे गणेशः पुत्रतां ययौ ॥१४॥ विद्यया ज्ञानसंयुक्ता अन्ये विष्णुमुखाऽमराः । न ते विद्याधिपाः प्रोक्ता मच्छिष्या नात्र संशयः ॥१५॥ तैश्च योगबलेनैव गणेशः प्रकटीकृतः । समाधिजः सुतस्तेषां बभूवे योगिनां तथा ॥१६॥ आदौ मया कृतं ब्रह्म साक्षात्कारी गुरुं विना । विद्याबलेन तस्मात्तु मुख्योऽहं विश्वपो गुरुः ॥१७॥ अतः शिवसुतः प्रोक्तो वेदेषु गणनायकः । विष्ण्वादयो न मुख्याश्च गणेशपितरः स्मृताः ॥१८॥ अतोऽहं योगरूपं तं ब्रह्मेशं ब्रह्मवंदितम् । भजामि स्वामिनं दासो नैव मोहार्थमादरात् ॥१९॥ शिवस्य वचनं श्रुत्वा विस्मितो नंदिकेश्वरः । उवाच तं महादेवं सर्वज्ञं सर्ववंदितम् ॥२०॥ नंदिकेश उवाच । कुलदेवो गणेशानोऽस्माकं ते नात्र संशयः । विभो तस्य वद ज्ञानं मंत्रं विधियुतं परम् ॥२१॥ श्रीशिव उवाच । चित्तं पंचविधं प्रोक्तं सा बुद्धिः परमा मता । नानाभ्रांतिकरी सिद्धिर्भेदैश्वर्यमयी हृदि ॥२२॥ तयोर्बिंबं गणेशस्य पतितं मायया युतम् । बिंबभावं परित्यज्य गणेशो जायते नरः ॥२३॥ सरसं चित्तमुत्सृज्य योगिवंद्यो भविष्यसि । एकाक्षरविधानेन भज तं योगसाधनैः ॥२४॥ एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं परम् । सविधिं सोऽपि तं नत्वा तपार्थी च ययौ वनम् ॥२५॥ निराहारेण तपसाऽऽराधितो द्विरदाननः । नंदिना ध्यानयुक्तेन समाधिना विशेषतः ॥२६॥ गते वर्षशते पूर्णे योगींद्रः स बभूव च । वरदाता गणेशानस्तदाश्रमपदं ययौ ॥२७॥ आगतं गणनाथं स दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्याऽऽदौ पूजयामास भक्तितः ॥२८॥ पुनः प्रणम्य विघ्नेशं स्तोतुं समुपचक्रमे । पार्वतीं वामभागे वै दधतं वीक्ष्य विस्मितः ॥२९॥ गणेशकृपया सद्यो ज्ञानं प्राप्तं महाद्भुतम् । तेन सर्वं गणेशस्य चेष्टितं ज्ञातमादरात् ॥३०॥ ततः स नंदिकेशानो विचारमकरोत् हृदि । बाह्यरूपधरश्चायं महादेवो न संशयः ॥३१॥ गिरिजायाः पतिः प्रोक्तः पंचवक्त्रादिचिह्नितः । त्रिनेत्रो नरदेहाख्यो भिन्नभावप्रदर्शकः ॥३२॥ आनंदात्मकरूपा सा पार्वती विष्णुरूपिणी । शिवदेवमयी प्रोक्ता तस्यामात्मा शिवः स्मृतः ॥३३॥ गजाकारः स्वयं शंभुरैक्यभोगपरायणः । अर्धांगप्रकृतिस्थत्वादुभौ नारीनरः शिवः ॥३४॥ नरकुंजरयो- र्योगे गणेशाकारतां गतः । शिवो ब्रह्ममयः साक्षाद्गिरिजया समन्वितः ॥३५॥ योगमायामयी रम्या गणेशांक- व्यवस्थिता । पार्वती पार्वतीनाथो गणेशः प्रबभौ स्वयम् ॥३६॥ स एव वरदानार्थं समाययौ न संशयः । शिवचित्तस्थित-