मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 835, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ११ | पान २६
श्चायमियं शिवस्य मानसी ॥३७॥ ततः प्रणम्य हर्षेण प्रणनाम गजाननम् । पुनः पुनः सरोमांचस्तं तुष्टाव कृतांजलिः ॥३८॥ नंदिकेश उवाच । नमस्ते गणेशाय शांतिप्रदाय सदा शांतिरूपाय शांतेंर्धराय । नराणां हृदिस्थाय नागाकृतीनां हृदिस्थाय योगाय योगेश्वराय ॥३९॥ हेरंबाय नमस्तुभ्यं सिद्धिवुद्धिविहारिणे । स्वानंदपाय चौरेश वाहनाय नमो नमः ॥४०॥ पार्वतीपतये तुभ्यं शिवचित्तगताय वै । लक्ष्मीपते नमस्तुभ्यं विष्णुचित्तस्थमूर्तये ॥४१॥ संज्ञापते नमस्तुभ्यं भोनोर्हृदि स्थिताय च । आदिशक्तिपते तुभ्यं शक्तिचित्तगमूर्तये ॥४२॥ सावित्रीपतये तुभ्यं ब्रह्मणो हृदि खेलक । गायत्रीपतये तुभ्यमोंकारचित्तवासिने ॥४३॥ शचीपते नमस्तुभ्यमिंद्रचित्तगमूर्तये । स्वाहापते परेशायाग्निहृदिस्थाय ते नमः ॥४४॥ नररूपाय वै तुभ्यं भिन्नसौख्यप्रचारिणे । सर्वत्र भिन्नभावेषु नराय ते नमो नमः ॥४५॥ निर्गुणाय नमस्तुभ्यं कुंजराकारमूर्तये । सर्वत्राभेदसौख्येषु निर्गुणेषु स्थिताय च ॥४६॥ नरकुंजररूपाय योगाकाराय ते नमः । योगानां पतये तुभ्यं पूर्णयोगस्वरूपिणे ॥४७॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । किं स्तौमि ब्रह्म ब्रह्मेश नमस्ते वरदो भव ॥४८॥ एवं स्तुत्वा गणेशानं ननर्ते प्रेमसंयुतः । नंदीशस्तं जगादासौ गणेशो भक्तवत्सलः ॥४९॥ श्रीगणेश उवाच । वरान् वृणु महाभाग नंदिंस्ते मनसीप्सितान् । दास्यामि तपसा तुष्टः स्तुतः स्तोत्रेण मानद ॥५०॥ त्वया कृतमिदं स्तोत्रं योगदं तु भविष्यति । भुक्तिदं कामिकायैव मुक्तिदं मोक्षमिच्छते ॥५१॥ सर्वसिद्धिकरं भावि पठतां शृण्वतां सदा । यं यमिच्छंति तं तं ते लभंतेऽनेन निश्चितम् ॥५२॥ नंदिकेश उवाच । यदि त्वं वरदो मेऽसि भक्तिं देहि त्वदीयिकाम् । गाणपत्यं कुरु स्वामिन् मां विघ्नेशपरायणम् ॥५३॥ क्षेत्रं भवतु ते नाथ यत्र तप्तं तपो मया । तथेति तं गणाधीशो जगादांतरधीयत ॥५४॥ ततः संस्थापयामास गणेशं ब्राह्मणैः सह । नंदिकेशो महाभक्त्या पूजनं प्रचकार ह ॥५५॥ पार्वतीगणपं नाम चक्रे तस्य महर्षयः । सर्वसिद्धिकरं स्थानं बभूवे तन्महर्षयः ॥५६॥ ततो नंदीश्वरो नत्वा समागत्य जगाद ह । वृत्तांतं सोऽपि तं श्रुत्वा तं शंसन् हर्षितोऽभवत् ॥५७॥ नंदीविघ्नेश्वरं नित्यमभजद्भक्तिसंयुतः । महायोगींद्रमुख्योऽसौ बभूव शिवसन्निभः ॥५८॥ इदमांबिकविघ्नेशचरितं कथितं मया । धूम्रवर्णात्मकश्चाऽयं गणेशः सर्वसिद्धिदः ॥५९॥ यः पठेच्छृणुयाद्वाऽपि चरितं गणपस्य च । इदं लभेन्नरः सर्वं वाञ्छितं भुक्तिमुक्तिदम् ॥६०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते पार्वतीगणेशचरितं नामैकादशोऽध्यायः ॥