मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 836, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. १२ पान २७ ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । त्रिपुरो नाम दैत्योऽभून्महाबलपराक्रमः । ब्रह्मणो वरदानेन जिग्ये सर्वं चराचरम् ॥१॥ कर्मलोपं चकाराऽसौ महाबलपराक्रमः । वर्णसंकरजं कर्म कारयामास मानवैः ॥२॥ तदोषोषणसंयुक्ता देवा मां शरणं ययुः । अहं क्रोधसमायुक्तो योद्धुं तेन गतोऽभवम् ॥३॥ मम तस्य महद्युद्धं बभूवे दारुणं परम् । देवानां दानवानां च तुमुलं रोमहर्षणम् ॥४॥ संहारास्त्राणि सर्वाणि मया त्यक्तानि वेगतः । तानि निष्फलरूपाणि बभूवुश्च मह- र्षयः ॥५॥ अतो विस्मितचित्तोऽहमभवं खेदसंयुक्तः । सहसा दैत्यराजेनाग्निशस्त्रेण जितोऽभवम् ॥६॥ ततः कैलासमुत्सृज्य गतोऽहं गहनं वनम् । निःश्वस्य चिंतया युक्तोऽभवं चैव हतोद्यमः ॥७॥ विचारं मानसे विप्रा अकरवं हितावहम् । मम हस्तेन दैत्योऽयं मरिष्यति न संशयः ॥८॥ तत् कथं मोघरूपं मे कृतं हैवेन केन च । ईशोऽहमनीशो जातः पश्चात् सूर्योदयो यथा ॥९॥ तत्रैव सहसा देवमुनिर्नारद आययौ । मां प्रणम्य स्थितो भक्त्या पूजितः स मया तथा ॥१०॥ ततो मया- ऽतिखेदेन पृष्टोऽसौ नारदो मुनिः । त्रिपुरस्य वधार्थाय मां जगाद स बुद्धिमान् ॥११॥ नारद उवाच । शिव त्वं मोहसंयुक्तो- ऽहंकारेण धृतोऽसि वै । विघ्नराजमनर्च्याऽसौ सत्ताहीनोऽसि भो प्रभो ॥१२॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजा- ननः । ईशत्वं तेऽधुना नष्टं ढुंढेरनर्चनात् प्रभो ॥१३॥ सत्तां स्वकीयदेहस्थां धृत्वा मोहपरायणाः । गणेशं ये न जानंति सत्ताहीना भवंति ते ॥१४॥ यस्य कटाक्षपातेन कृपया तृणमेककम् । सृजते पाति हंत्येव ब्रह्मांडं लोकसंकुलम् ॥१५॥ तस्य कृपाविहीनस्त्वमशक्तोऽसि सदाशिव । संहर्तुं तृणकं चैव कुतो दैत्यं प्रजेष्यसि ॥१६॥ अतस्तं शरणं गच्छ तेन सत्ता- समन्वितः । हनिष्यसि महादैत्यं त्रिपुरं त्रिविधे रतम् ॥१७॥ मुद्गल उवाच । एवमुक्त्वा महेशानं तं प्रणम्य महामुनिः । नारदो गणपं गायन् ययौ स्वेच्छापरायणः ॥१८॥ ततः शिवो हृदि स्मृत्वा गणेशं ब्रह्मनायकम् । दंडकारण्यदेशे स वनग- स्तप आचरत् ॥१९॥ शतवर्षे गते ते स आययौ गणनायकः । मूषकोपरि संस्थो यो दशायुधधरः प्रभुः ॥२०॥ तं दृष्ट्वा सहसोत्थाय शंकरः प्रणनाम ह । पूज्य तुष्टाव हर्षेण गणेशं भक्तिसंयुतः ॥२१॥ श्रीशिव उवाच । गणेशाय परेशाय धूम्रवर्णाय ढुंढये । शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥२२॥ गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने । संहर्त्रे देवदेवाय हेरंबाय नमो नमः ॥२३॥ अनंतविभवायैवानंतमायाप्रचालक । अनंतोदरगायैव विघ्नेशाय नमो नमः ॥२४॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठरूपिणे । सर्वपूज्याय ते सर्वादिपूज्याय नमो नमः ॥२५॥ स्वानंदपतये तुभ्यं मूषकध्वजधारिणे ।