मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 840, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. १३ पान ३१ सर्वाय मात्रे पित्रे तदात्मने । आदिमध्यांतहीनाय हेरंबाय नमो नमः ॥५२॥ शूर्पकर्णाय शूराय मोहांधकविदारिणे । ब्रह्मेशाय सुशांताय शांतिदात्रे नमो नमः ॥५३॥ एकदंताय देवाय स्वानंदे वासकारिणे । अमेयायाप्रतर्क्याय मायिने ते नमो नमः ॥५४॥ मायामायिकरूपाय मायामायिकवर्जित । अनाथानां प्रणार्थाय नाथनाथाय ते नमः ॥५५॥ सिद्धिबुद्धिपते तुभ्यं सदा योगपरायण । योगींद्राणां सुयोगाय कुलदेवाय ते नमः ॥५६॥ त्वदधीनमिदं सर्वं बुद्धिचालकरूपिणे । सिद्ध्या संमोहितं नाथ सिद्धिदात्रे नमो नमः ॥५७॥ शिवादयः समर्थाश्च त्वदीयकृपयाऽभवन् । अहंकारेण युक्ताश्चेंद्रष्टाः स्वस्वाधिकारात ॥५८॥ मया तेऽज्ञानभावेन त्वं त्यक्तः शिवकाम्यया। मां शप्त्वा त्यज्य सः शंभुर्गतः क्रोधपरायणः ॥५९॥ अतो मां रक्ष विघ्नेश त्वन्नाथं नाथवर्जितम् । अपराधान् महोग्रान् मे क्षांत्वा पाहि निरंतरम् ॥६०॥ एवं स्तुत्वा गणेशानं प्रणनाम रुरोद च । बाणः परमदुःखार्तः पादं गृह्य महात्मनः ॥६१॥ तमुत्थाप्य गणाधीशस्तं जगाद महासुरम् । स्वमाया- मोहितं दीनं स्वस्यैव शरणार्थिनम् ॥६२॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं व्यतिक्रमविदाहकम् । भविष्यति महादैत्य सर्वसिद्धिप्रदायकम् ॥६३॥ अनेन स्तुवते दैत्य प्रसन्नोऽहं ददामि वै। भुक्तिं मुक्तिं सदा सौख्यं शृण्वते मनसीप्सितम् ॥६४॥ त्वया त्यक्तोऽहमत्यंतक्रोधयुक्तश्च नित्यदा । शिवहीनं प्रकृतवांस्ते नारकं त्वां करोमि वै ॥६५॥ किं करोम्यधुना दैत्य शुक्रशिष्यं महासुरम् । शरणागतमेवं मे मत्पादप्रवणं परम् ॥६६॥ शिवशापो न मिथ्या ते भविष्यति कदाचन । तथापि शृणु मे वाक्यं तुभ्यं सौख्यप्रदायकम् ॥६७॥ वासुदेवं समायुध्य भुजच्छेदो भविष्यति । भ्रष्टराज्यः पुनः सद्यो राज्ययुक्तो भविष्यसि ॥६८॥ एवमुक्त्वा महादैत्यं गणेशो विरराम ह । तमुवाच महादैत्यः प्रणम्य गणनायकम् ॥६९॥ बाण उवाच । तव विस्मरणं नाथ न भवेन् मे तथा कुरु । त्वया युक्तं शिवं नित्यं भजिष्यामि सुभक्तितः ॥७०॥ गाणेशं ज्ञानमाद्यं मे देहि विघ्नेश शाश्वतम् । नान्यदिच्छामि सर्वेश त्वत्पादप्रवणोऽधुना ॥७१॥ श्रीगणेश उवाच । गाणेशज्ञानसंयुक्तो भविष्यसि महासुर । अनेन जडदेहेन गणः शैवो भविष्यसि ॥७२॥ महाकालेति नाम्ना त्वं विख्यातः सर्वमंडले । नष्टे शिवपदे दैत्य स्वानंदे आगमिष्यसि ॥७३॥ एवमुक्त्वा गणाधीशोऽंतर्दधे मुनिसत्तमाः । बाणो हर्षसमायुक्तो गणेशमभजत्ततः ॥७४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः ॥