भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 841, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 841

[शीर्षक: खं. ८ अ. १४ | पान ३२]

॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । कृपया वरदानेन गणेशभजनेन च । बुद्धिभेदः शिवस्यापि बभूव सर्वसंयुतः ॥१॥ ततो गिरिसुतायुक्तः शंकरः स्कंदमुख्यकैः । गणैः समाययौ सद्यो बाणस्य नगरं पुनः ॥२॥ तमागतं समाज्ञाय बाणो हर्ष- समन्वितः । ध्यात्वा गजाननं देवं ययौ शंकरसंनिधिम् ॥३॥ प्रणनाम स साष्टांगं शिवं गणसमन्वितम् । रुरोद पूजयित्वा तं क्षमस्वेति जगाद सः ॥४॥ ततस्तं शंकरो भक्तं समुत्थाप्य प्रसस्वजे । जगाद मधुरं वाक्यं हर्षयन् दानवाधिपम् ॥५॥ श्रीशिव उवाच । मा कुरुष्व वृथा चिंतां संतुष्टोऽहं समागतः । वरान् वृणु महाभाग दास्यामि बलिनंदन ॥६॥ बाणासुर उवाच । तव भक्तिं स्थिरां देहि वियोगस्ते न मे क्वचित् । भवेत्तथा महादेव कुरुष्व शिव सर्वदा ॥७॥ तथेत्युवाच शंभुस्तं तस्थौ तन्नगरे सदा । ततस्तस्मात् सुता जज्ञे सर्वलक्षणसंयुता ॥८॥ उषानाम्नीं महाभागामुपयेमेऽनिरुद्धकः । तां स्वप्ने सा शुशोचैव तदर्थं काम- पीडिता ॥९॥ चित्रलेखा तमानीय ददौ तस्यै पतिं स्वकम् । मायया यादवान् संमोह्य मुमोद ततः परम् ॥१०॥ एकस्तंभ- स्थितां तां स उपयेमेऽनिरुद्धकः । तया संमोहितोऽत्यंतं रेमे हर्षसमन्वितः ॥११॥ यादवाः संहृतं रात्रौ दृष्ट्वा कामसुतं दृढम् । शुशुचुः परमोद्विग्ना न लेभुस्तद्गतिं च ते ॥१२॥ प्रद्युम्नेन गणाधीशः प्रार्थितस्तपसा परः । तस्य प्रसादयोगेन नारदस्तत्र चाययौ ॥१३॥ तेन संकथितं सर्वं चेष्टितं कामपुत्रजम् । श्रुत्वा संहर्षिताः सर्वे यादवाः प्रबभूविरे ॥१४॥ तत ईश्वरसंयुक्तं बाणं जेतुं मनो दधे । कृष्णो रामेण संयुक्तो यादवैः परमद्युतिः ॥१५॥ शंकरस्य भयेनैव भीतं तं प्रत्युवाच ह । उद्धवः कुरु कृष्ण त्वं गणेशाराधनं परम् ॥१६॥ तेन विघ्नविहीनस्त्वं भविष्यसि न संशयः । शिवस्त्वां संयुगे जेतुमशक्तः प्रभविष्यति ॥१७॥ तत एकाक्षरस्यैव पुरश्चरणमाकरोत् । कृष्णो गणपतिं ध्यात्वा यथाशास्त्रं विधानतः ॥१८॥ यादवैः प्रययौ तत्र यत्र बाणः स्थितोऽभवत् । शंखं दध्मौ ततः सोऽपि स शिवो योद्धुमाययौ ॥१९॥ ततः शिवो ददौ तस्मै कवचं गणपस्य च । सामवेदभवं शुद्धं बाणाय खेदसंयुक्तः ॥२०॥ शिवशप्तासुरेणात्र हस्तच्छेदस्य कारणात् । कृष्णः संयुयुधे तेन दैत्येंद्रेण महाबलः ॥२१॥ खिन्नं बाणं समालोक्य शंकरो योद्धुमाययौ । कृष्णेन तं समालोक्य कृष्णः सस्मार विघ्नपम् ॥२२॥ महायुद्धं तयोरासीत् त्रिलोकीनाशसंनिभम् । शिवस्य वासुदेवस्य मया वक्तुं न शक्यते ॥२३॥ ततो जृंभास्त्रवेगेन मोहयित्वा सदाशिवम् । कृष्णश्चक्रं मुमोचैव बाणस्य भुजसंछिदे ॥२४॥ चक्रेण क्षुरधारेण भुजाश्छिन्नाः समंततः । अवशिष्टौ भुजौ द्वौ च चक्रं संकुठितं ततः ॥२५॥ ततः खेदसमायुक्तः कृष्णः सस्मार विघ्नपम् । स्वयमाकाश-