मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 842, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. १४ पान ३३ वाणीं स शुश्राव गणपेरिताम् ॥२६॥ गणेशकवचेनैव रक्षितं शांकरेण च । बाणं हंतुं रणे कृष्ण न क्षमस्त्वं भविष्यसि ॥२७॥ शिवदत्ता भुजास्तस्य शिवशापेन छेदिताः । जन्मस्थौ द्वौ भुजौ प्राज्ञ कवचेन प्ररक्षितौ ॥२८॥ ततो हर्षेण संयुक्तः कृष्णश्चक्रं निवर्त्य च । संस्थितः संयुगे सद्यो जृंभास्त्रैर्वर्जितोऽभवम् ॥२९॥ ततो मयाऽतिबोधेन ज्ञातं विघ्नेशचेष्टितम् । कृष्णो ननाम मां तत्र खखजेऽहं जनार्दनम् ॥३०॥ यथाविधि विवाहं स चकार दैत्यनायकः । अनिरुद्धाय पुत्रीं स्वां ददौ प्रेमपरिप्लुतः ॥३१॥ ततः स्वभवनं कृष्णो ययौ हर्षसमन्वितः । बाणो राज्यं परित्यज्य महाकालो बभूव ह ॥३२॥ कैलासे प्रातरुत्थाय पूपूज द्विरदाननम् । शमीमंदारदूर्वादिरक्तपुष्पैर्विशेषतः ॥३३॥ संपूज्यादौ गणपतिं पश्चाच्छंभुं महागणः । सदा ध्यानपरो भूत्वा तोषयामास तौ परौ ॥३४॥ शौनक उवाच । सूत विघ्नेश्वरस्यैव प्रियोऽत्यंतं बभूव ह । रक्तवर्णः कथं तेन तुष्टो भवति सर्वपः ॥३५॥ रक्तवर्णः स्वयं साक्षाद्गणेशो ब्रह्मणो पतिः । रक्तवस्त्रधरो रक्तचंदनेन विराजितः ॥३६॥ रक्तपुष्पधरः पूर्णः सिंधुरांगविलेपनः । रक्तसागरखेली स वद कारणमुत्तमम् ॥३७॥ सर्ववर्णमयश्चायं कथमेकं समाश्रितः । तन्नः संशयदं साधो नुद सर्वज्ञसत्तम ॥३८॥ सूत उवाच । वर्णाः पंच समुद्भूताः सृष्ट्यादौ श्वेतशामलौ । रक्तः पीतस्तथा नीलः सर्ववर्णमयाः पुरा ॥३९॥ परस्परविभेदेन तथा संमीलनेन च । अनंता वर्णकाः प्रोक्ता जानीहि द्विजसत्तम ॥४०॥ तैस्तपो गणनाधस्य कृतं घोरं तु पंचभिः । वर्षकेषु शते तान् स आययौ गणनायकः ॥४१॥ तं दृष्ट्वा प्रणताः सर्वे वर्णाः संतुष्टुवुः परम् । वरान् वब्रुः तथा विप्र स्वस्वशोभासमन्वितान् ॥४२॥ अन्ये गणेश्वरं ते तु जगुस्तं ब्रह्मनायकम् । अस्मदीयस्वरूपस्थो भव स्वामिन्नमोऽस्तु ते ॥४३॥ वयं तेन गणाध्यक्ष कृतकृत्या भवामहे । मायाबंधनहीनास्त्वां भजामह निरंतरम् ॥४४॥ तथेति तानुवाचैव गणेशोऽतर्दधे ततः । वर्णा हर्षयुताः सर्वे स्वस्वकार्यरताः पुरा ॥४५॥ वर्णैः संशोभितं सर्वं नानाभेदैः समंततः । चराचरं विशेषेण वर्णयुक्तं बभूव ह ॥४६॥ काश्यपो गणनाधस्तु नीलवर्णाकृतिं धरः । मयूरेशस्तथा श्वेतवर्णयुक्तो बभूव ह ॥४७॥ वरेण्यस्य सुतो रक्तवर्णयुक्तो गजाननः । धूम्रवर्णस्तथा श्यामवर्णरूपधरो बभौ ॥४८॥ हरिद्रागणपः पीतवर्णाकृतिपरोऽभवत् । नानावताररूपैः स नानावर्णधरोऽभवत् ॥४९॥ एवं वरप्रदानेन वर्णाः सर्वे महामुने । गणेशाराधने सक्ताः स्वस्वकार्यपरायणाः ॥५०॥ ततो रक्तेन वर्णेन पुनस्तप्तं तपो महत् । निराहारेण विप्रेश ध्यात्वा हृदि गजाननम् ॥५१॥ सहस्त्रवर्षे च गते गणपस्तं समाययौ । वरान् दातुं महाभागं स ननाम गणाधिपम् ॥५२॥