भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 843, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 843

पूजयित्वा प्रस्तुष्टाव रक्तवर्णः प्रहर्षितः । स्तोत्रैर्नानाविधैस्तं तु गाणेशैर्गणपप्रियैः ॥५३॥ ततः प्रसन्नभावेन विघ्नेशस्तमुवाच ह । वरान् वृणु महाभाग रक्तवर्ण हृदीप्सितान् ॥५४॥ रक्तवर्ण उवाच । रक्तवर्णस्वरूपस्थो भव त्वं गणनायक । सदा रक्तप्रियो नाथ नानावर्णेषु मानद ॥५५॥ तेनाऽहं सर्ववर्णेषु श्रेष्ठो भावी न संशयः । सततं कृतकृत्यश्च तव संनिधिसंस्थितः ॥५६॥ तथेति तमथोक्त्वाऽसौ गणेशोऽतर्दधे स्वयम् । तदादि वेदशास्त्रेषु रक्तवस्तुप्रियोऽभवत् ॥५७॥ इदं बाणचरित्रं यः शृणुयाद्धूर्णसंभवम् । पठेत्तस्य गणाधीशो वरदश्च भविष्यति ॥५८॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते बाणासुरवर्णसंभवचरितं नाम चतुर्दशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । श्रुत्वा त्वद्वदनांभोजात् कथाममृतरूपिणीम् । जन्ममृत्युहरां पूर्णां सर्वसौख्यकरीं शिव ॥१॥ गाणेशानीं न तृप्ता वै वयं वद महामते । पुनर्गणपतेः सौम्यां कथामवतारजां पराम् ॥२॥ श्रीशिव उवाच । कलिप्रवृत्तिकामार्थं ब्रह्मा विष्णुं ययौ पुरा । तुष्टाव तं रमानाथं जगाद स्वप्रयोजनम् ॥३॥ ब्रह्मोवाच । कलिं पापरूपं च सृजामि स्म जनार्दन । न तं जनाः प्रहर्षेण मानयिष्यंति सर्वदा ॥४॥ द्वापरांते कलिः प्रोक्तस्तस्य कालोऽधुनाऽऽगतः । तं प्रवर्तय देवेश त्वं स्मृतः सर्वपालकः ॥५॥ ब्रह्मणो वचनं श्रुत्वा केशवस्तमुवाच ह । पापरूपं महाघोरं नाभिनंदाम्यहं कलिम् ॥६॥ धर्मपालनभावार्थमवतारं करोम्यहम् । धर्मनाशकरं पापं कलिं नैवाभिनंदये ॥७॥ ततस्तं केशवं देवं जगाद चतुराननः । बुद्धावतारभृत्त्वं वै कथितोऽसि जनार्दन ॥८॥ अवतारचरित्रं ते कलिप्रवर्तकं प्रभो । पश्य पौराणिकीं गाथां स्वधर्मस्थां त्वदाश्रिताम् ॥९॥ ब्रह्मणो वचनं श्रुत्वा निःश्वस्य तमथोऽब्रवीत् । विष्णुस्तथेति दुःखेन ब्रह्मा स्वभवनं ययौ ॥१०॥ ततः स भगवांस्तत्र तताप तप उत्तमम् । षडक्षरेण मंत्रेण ध्यात्वा हृदि गजाननम् ॥११॥ दशवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् । तमाययौ महाभक्तं भक्तेशो भक्तवत्सलः ॥१२॥ तमागतं समालोक्य तुष्टावाऽऽपूज्य विघ्नपम् । हेरंबो- पनिषत्तत्त्वैर्भक्त्या नम्रात्मकंधरः ॥१३॥ ततो गजाननस्तुष्टस्तं जगाद कृपान्वितः । वरान् वृणु महाभाग यांस्ते चित्ते

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 843, कुल 1023 में से · BharatKosha