मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 844, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. १५ पान ३५ स्थिरान् परान् ॥१४॥ गणेशवचनं श्रुत्वा विष्णुस्तं पुनरब्रवीत् । कृतांजलिः प्रणम्यैव गणेशं सर्वसिद्धिदम् ॥१५॥ श्रीविष्णुरुवाच । भक्तिं देहि त्वदीयां मे सर्वसिद्धिप्रदायिनीम् । बुद्धोऽहं धर्मलोपार्थं भविष्यामि कलौ युगे ॥१६॥ धर्म- संस्थापनं नित्यं करोमि गणनायक । धर्मलोपार्थमेवाहं त्वया बुद्धः प्रकीर्तितः ॥१७॥ एतदेव विरुद्धं मे प्राप्तं ढुंढे दयानिधे । तदर्थं शरणं नाथ यातोऽहं ते पदस्य च ॥१८॥ अतो मां रक्ष विघ्नेश विरुद्धाचरणात् प्रभो । विनायकस्त्वमेको वै कुरु मां धर्मपालकम् ॥१९॥ श्रीगणेश उवाच । मा भयं कुरु विष्णो त्वं धर्मयुक्तो भविष्यसि । कलिप्रवर्तने दोषो न ते क्वापि महात्मनः ॥२०॥ मया चतुर्युगाः खेलाद्रचिताः क्रमकारणात् । वरदानेन मे सर्वे स्वस्वकालयुता बभुः ॥२१॥ कलिस्तेषु महापापी मया संस्थापितोऽभवत् । मदाज्ञापालको भूत्वा भव बुद्धस्त्वमादरात् ॥२२॥ अहंकारं विभो त्यक्त्वा कर्ताह- मिति चित्तगम् । समर्प्य मयि कर्माणि कुरु कर्म यथातथम् ॥२३॥ चित्ते चिंतामणिं पश्य तदिच्छावशगं जगत् । ब्रह्म नानाविधं तद्वत्तत्र कस्त्वं विचारय ॥२४॥ वेदशास्त्रमयी वाणी गणेशेन विनिर्मिता । तस्या आज्ञां प्रपाल्यैव वर्तितव्यं तु जंतुभिः ॥२५॥ प्रीतो गणेश्वरस्तेन दास्यति स्वपदं परम् । सर्वेषां नात्र संदेहो जीवानामीशभाविनाम् ॥२६॥ कलि- खेलकरः सोऽपि गणेशो धूम्रवर्णकः । चकार बुद्धरूपस्थं स्वयं विष्णुं तदर्थतः ॥२७॥ एवं धार्य महाविष्णो मदाज्ञावशगो भव । कर्म कृत्वा ह्यधर्मस्थं मय्यर्प्य सुखमेष्यसि ॥२८॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः । विष्णुर्हर्षसमायुक्तो बुद्धोऽभूच्च महर्षयः ॥२९॥ कृतं तेन महच्छास्त्रं बौद्धं मोहप्रदायकम् । कलिदोषप्रवृद्ध्यर्थं सेविभ्यो नरकप्रदम् ॥३०॥ सनकाद्या ऊचुः । कीदृशं बौद्धशास्त्रं तद्वद सर्वज्ञ ते नमः । ज्ञात्वा मोहविहीनास्तज्जना भवंति नित्यदा ॥३१॥ श्रीशिव उवाच । शृणुध्वं मुनयः सर्वे बौद्धं नरकदायकम् । वर्णाश्रमस्थितेभ्यस्तद्विहीनेभ्यः सुखप्रदम् ॥३२॥ स्वयं बुद्धिपतिः साक्षाद् हृदि तिष्ठति देहिनाम् । ब्रह्मणामीश्वराणां च पंचचित्तप्रचालकः ॥३३॥ स विनायक इत्युक्तः सर्वेषां नायको मतः । नायकेन विहीनत्वात् स्वेच्छाचारी सनातनः ॥३४॥ तदिच्छया स्वयं ब्रह्म नानारूपधरं बभौ । नाना क्रीडासमायुक्तं नानामायाबला- श्रितम् ॥३५॥ तत्र पापादिकं नास्ति न पुष्पादिकमंजसा । ज्ञानाज्ञानसमानैश्च तुर्यं वै नात्र संशयः ॥३६॥ न स्वर्ग- प्राप्तिदं कर्म ब्रह्मणो नारकं कथम् । आंतिदं सर्वमुत्सृज्य ब्रह्मभूतो नरो भवेत् ॥३७॥ हृदि बुद्धिप्रदातारं सर्वेषां खेलकारकम् । तं ज्ञात्वा मोहहीनो वै भविष्यति सदा नरः ॥३८॥ चित्तस्य सुखदं सर्वं प्रकुर्यान्नात्र संशयः । न वर्णाश्रमधर्मैः