भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ८ अ. १५ पान ३५ स्थिरान् परान् ॥१४॥ गणेशवचनं श्रुत्वा विष्णुस्तं पुनरब्रवीत् । कृतांजलिः प्रणम्यैव गणेशं सर्वसिद्धिदम् ॥१५॥ श्रीविष्णुरुवाच । भक्तिं देहि त्वदीयां मे सर्वसिद्धिप्रदायिनीम् । बुद्धोऽहं धर्मलोपार्थं भविष्यामि कलौ युगे ॥१६॥ धर्म- संस्थापनं नित्यं करोमि गणनायक । धर्मलोपार्थमेवाहं त्वया बुद्धः प्रकीर्तितः ॥१७॥ एतदेव विरुद्धं मे प्राप्तं ढुंढे दयानिधे । तदर्थं शरणं नाथ यातोऽहं ते पदस्य च ॥१८॥ अतो मां रक्ष विघ्नेश विरुद्धाचरणात् प्रभो । विनायकस्त्वमेको वै कुरु मां धर्मपालकम् ॥१९॥ श्रीगणेश उवाच । मा भयं कुरु विष्णो त्वं धर्मयुक्तो भविष्यसि । कलिप्रवर्तने दोषो न ते क्वापि महात्मनः ॥२०॥ मया चतुर्युगाः खेलाद्रचिताः क्रमकारणात् । वरदानेन मे सर्वे स्वस्वकालयुता बभुः ॥२१॥ कलिस्तेषु महापापी मया संस्थापितोऽभवत् । मदाज्ञापालको भूत्वा भव बुद्धस्त्वमादरात् ॥२२॥ अहंकारं विभो त्यक्त्वा कर्ताह- मिति चित्तगम् । समर्प्य मयि कर्माणि कुरु कर्म यथातथम् ॥२३॥ चित्ते चिंतामणिं पश्य तदिच्छावशगं जगत् । ब्रह्म नानाविधं तद्वत्तत्र कस्त्वं विचारय ॥२४॥ वेदशास्त्रमयी वाणी गणेशेन विनिर्मिता । तस्या आज्ञां प्रपाल्यैव वर्तितव्यं तु जंतुभिः ॥२५॥ प्रीतो गणेश्वरस्तेन दास्यति स्वपदं परम् । सर्वेषां नात्र संदेहो जीवानामीशभाविनाम् ॥२६॥ कलि- खेलकरः सोऽपि गणेशो धूम्रवर्णकः । चकार बुद्धरूपस्थं स्वयं विष्णुं तदर्थतः ॥२७॥ एवं धार्य महाविष्णो मदाज्ञावशगो भव । कर्म कृत्वा ह्यधर्मस्थं मय्यर्प्य सुखमेष्यसि ॥२८॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः । विष्णुर्हर्षसमायुक्तो बुद्धोऽभूच्च महर्षयः ॥२९॥ कृतं तेन महच्छास्त्रं बौद्धं मोहप्रदायकम् । कलिदोषप्रवृद्ध्यर्थं सेविभ्यो नरकप्रदम् ॥३०॥ सनकाद्या ऊचुः । कीदृशं बौद्धशास्त्रं तद्वद सर्वज्ञ ते नमः । ज्ञात्वा मोहविहीनास्तज्जना भवंति नित्यदा ॥३१॥ श्रीशिव उवाच । शृणुध्वं मुनयः सर्वे बौद्धं नरकदायकम् । वर्णाश्रमस्थितेभ्यस्तद्विहीनेभ्यः सुखप्रदम् ॥३२॥ स्वयं बुद्धिपतिः साक्षाद् हृदि तिष्ठति देहिनाम् । ब्रह्मणामीश्वराणां च पंचचित्तप्रचालकः ॥३३॥ स विनायक इत्युक्तः सर्वेषां नायको मतः । नायकेन विहीनत्वात् स्वेच्छाचारी सनातनः ॥३४॥ तदिच्छया स्वयं ब्रह्म नानारूपधरं बभौ । नाना क्रीडासमायुक्तं नानामायाबला- श्रितम् ॥३५॥ तत्र पापादिकं नास्ति न पुष्पादिकमंजसा । ज्ञानाज्ञानसमानैश्च तुर्यं वै नात्र संशयः ॥३६॥ न स्वर्ग- प्राप्तिदं कर्म ब्रह्मणो नारकं कथम् । आंतिदं सर्वमुत्सृज्य ब्रह्मभूतो नरो भवेत् ॥३७॥ हृदि बुद्धिप्रदातारं सर्वेषां खेलकारकम् । तं ज्ञात्वा मोहहीनो वै भविष्यति सदा नरः ॥३८॥ चित्तस्य सुखदं सर्वं प्रकुर्यान्नात्र संशयः । न वर्णाश्रमधर्मैः

खं. ८ अ. १५ पान ३६ स शरीरं पीडयेत् कदा ॥३९॥ देहो भोगार्थमानंदाद्रचितस्तेन ब्रह्मणा । नानायत्नैः शरीरं तत् पोषणीयं निरंतरम् ॥४०॥ शरीरे कष्टमापन्ने बुद्धिः खेदयुता भवेत् । तत्स्थबुद्धिपतिः साक्षाद् दुःखितश्च तथा भवेत् ॥४१॥ अहं ब्रह्मेति संधार्य सदा स्वेच्छापरो भवेत् । पापपुण्यविहीनः स देहपोषणकारकः ॥४२॥ नानापदार्थभावेषु मनस्तस्य प्रवर्तते । भोक्तव्यास्ते नरेणैव त्यज्य वर्णाश्रमाश्रमम् ॥४३॥ जीवहिंसामयं कर्म कर्तव्यं न कदाचन । तृणांकुरादिकं तद्वन्नच्छेत्तव्यं विचारतः ॥४४॥ देवार्चनादिकं कर्म न कर्तव्यं मनीषिभिः । न स्वाहा न स्वधाद्यं यदहं ब्रह्मेति बोधतः ॥४५॥ ब्राह्मणेभ्यो न दातव्यं दानभोज्यादिकं कदा । सर्वे समानरूपाश्च कथं तत्र द्विजादिकम् ॥४६॥ यत्र चित्तस्य संप्रीतिर्जायते मुनि- सत्तमाः । तदेव पात्रमुख्यं वै ज्ञातव्यं श्रेष्ठभावतः ॥४७॥ एवं नानामर्तैर्युक्तं शास्त्रं बौद्धं महर्षयः । ज्ञातव्यं कलि- दोषैश्च युक्तं नरकदं भवेत् ॥४८॥ वर्णाश्रमस्थकं धर्मं त्यक्त्वा स्वेच्छापरो भवेत् । अहिंसा परमो भावी ह्येतद्बौद्ध- रहस्यकम् ॥४९॥ सर्वान् संमोह्य विश्वात्मा बुद्धः कलिप्रवर्तकः । संस्थितः कैकटे देशे गुप्तरूपेण मानदाः ॥५०॥ गणेश- ध्यानसंयुक्तः समर्प्य ढुंढये कृतम् । कर्मयोगयुतः सोऽपि तदाऽऽज्ञापालकोऽभवत् ॥५१॥ तथापि पूजया हीनो बभूवे बुद्धरूपधृक् । विष्णुर्वेदविरुद्धस्थमार्गसंसर्जनात् किल ॥५२॥ कलिप्रांते दुराचारा बौद्धमाया विमोहिताः । वर्णाश्रम- परिभ्रष्टा भविष्यंति गृहे गृहे ॥५३॥ लेशमात्रेण धर्मस्तु स्थितस्तत्र महर्षयः । अधर्मेण जितः सोऽपि सदोपोषणसंयुतः ॥५४॥ ततो बुद्धः स्वयं ढुंढिं परं ध्यात्वा तपोन्वितः । प्रार्थयिष्यति विघ्नेशं धर्मसंस्थापनाय वै ॥५५॥ ततो गणेश्वरः साक्षात् प्रसन्नोऽवतरिष्यति । धूम्रवर्ण इति ख्यातो धर्मं संस्थापयिष्यति ॥५६॥ दृष्टो बुद्धश्च तं नत्वा पूज्य स्तुत्वा विशेषतः । अंतर्धानं स्वयं कृत्वा खमहिम्न्नि स्थितो भवेत् ॥५७॥ इदं बुद्धस्य माहात्म्यं कथितं स्वल्पभावतः । पठनाच्छ्रवणात् सद्यो मोहघ्नं कामदं भवेत् ॥५८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते बुद्धावतारवर्णनं नाम पंचदशोऽध्यायः ॥

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण (Transcription) प्रस्तुत है:

[Header] खं. ८ अ. १६ | पान ३७

॥ श्रीगणेशाय नमः॥ शिव उवाच । वर्णाश्रमे कलौ नष्टे देवा दुःखसमन्विताः । प्रार्थयिष्यंति विघ्नेशमुपोषणपरायणाः ॥१॥ नानातपोन्वितान् वीक्ष्य प्रादुर्भावं गजाननः। करिष्यत्यमरान् विप्राः पुरः परमभक्तितः ॥२॥ समागतं गणेशानं धूम्रवर्णधरं प्रभुम् । द्विभुजं वाजिसंस्थं तं खड्गचर्मप्रधारिणम् ॥३॥ नानापुष्पमयीं मालां दधानं गंधचर्चितम् । दृष्ट्वा सुराः प्रणेमुस्तं नत्वा पूज्य प्रतुष्टुवुः ॥४॥ नमस्ते धूम्रवर्णाय नानाखेलकराय च । अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे ॥५॥ अनाथानां प्रणार्थाय नाथनाथाय ते नमः । सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ॥६॥ सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे । योगाकारेण सर्वत्र संस्थिताय नमो नमः ॥७॥ नरकुंजररूपाय धूम्रवर्णधराय च । द्विभुजायाश्ववाहाय हेरंबाय नमो नमः ॥८॥ खड्गचर्मधरायैव नाना चंदनचर्चित । नाना पुष्पधरायैव सर्वाध्यक्षाय ते नमः ॥९॥ पूर्णाय पूर्णरूपाय गणेशाय परात्मने । धर्मरक्ष महाभाग गजानन नमोऽस्तु ते ॥१०॥ धर्मान्ना अमराः सर्वे सुरेश्वर कृतास्त्वया । नष्टे धर्मेऽधुना नाथ मरिष्यामस्त्व- दग्रतः ॥११॥ बुद्धमायासहायने कलिना निर्जिता वयम् । विष्णुशंभुमुखा देवास्तान् पालय महोदर ॥१२॥ सार्धेन द्विसहस्रेण प्रभो वर्षेर्विनिर्जिताः । क्षुद्रदेवाः स्वग्रामस्थाः कलिना पप्लुश्च ते ॥१३॥ ततः पंचसहस्रेण वर्षैस्तास्तीर्थदेवताः । तीर्थानि कलिना नाथ जितानि पप्लुस्तथा ॥१४॥ ततो दशसहस्रेण जिता विष्णुशिवादयः । कलिना पृथिवीं त्यक्त्वा पप्लुर्देवसत्तमाः ॥१५॥ कर्माकर्मविकर्माख्या शक्तिस्तत्र स्थिता भवेत् । विकर्मगुणसंयुक्ता बुद्धमायात्मिका प्रभो ॥१६॥ त्वमपि त्वादृशो भूत्वा फलदाता स्थितः स्वयम् । देवरूपधरः स्वामिन् सदा कलिप्रवर्तकः ॥१७॥ न ते देवस्वरूपं तु कलिः क्रोधसमन्वितः । छेत्तुं समुद्यतः क्वापि त्वां चिंतयति सर्वदा ॥१८॥ तव चिंतनभावेन वयं सर्वे पराजिताः । कलिना देवदेवेश उपोषणयुताः कृताः ॥१९॥ अधुना लेशमात्रेण धर्मस्तिष्ठति विघ्नप । तं हनिष्यति वेगेन कलिः परमदारुणः ॥२०॥ नष्टे धर्मे गणाधीश अधर्मः केवलो महान् । भविष्यति पुनर्धर्मं किं स्रक्ष्यसि च देवप ॥२१॥ अतो लेशमयं धर्मं रक्षस्व गणनायक । नोचेद्धर्मशरीरास्तु वयं नष्टा भवामहे ॥२२॥ रक्ष रक्ष दयासिंधो धूम्रवर्ण गजानन । मृत्युप्रायाननाथांश्च देवान् धर्मप्ररक्षकान् ॥२३॥ एवमुक्त्वा गणाधीशं प्रणेमुरमराः पुनः । रुरुदुः दुःखसंयुक्तां- स्तान् जगाद गजाननः ॥२४॥ धूम्रवर्ण उवाच । मा भयं कुरुत प्राज्ञा धर्मं संरक्षयाम्यहम् । सर्वैरजेयमुग्रं तं कलिं हत्वा विशेषतः ॥२५॥ भवत्कृतमिदं स्तोत्रं कलिदोषहरं भवेत् । पठते शृण्वते देवाः सर्वसिद्धिप्रदायकम् ॥२६॥ धनधान्यप्रदं चैवारोग्यसंपत्प्रवर्धनम् । पुत्रपौत्रकलत्रादिदायकं प्रभविष्यति ॥२७॥ एवमुक्त्वा स्वदेहात् स धूम्रवर्णः प्रतापवान् । निर्ममे

खं. ८ अ. १६ पान ३८ ❀❀❀❀❀❀❀❀❀❀- ❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀ विविधां सेनां नानाशास्त्रसमन्विताम् ॥२८॥ नानावाहनगां पूर्णतेजोयुक्तां महर्षयः । तया युक्तो जनान् सर्वान् जघान मलिनान् प्रभुः ॥२९॥ म्लेच्छप्रायांश्च विविधान् म्लेच्छान् कलिमलैर्युतान् । स्वयं संत्रासयामास कलिं धर्मवधे रतम् ॥३०॥ तस्यांगवायुना स्पृष्टा जना धर्मपरायणाः । भययुक्ता गणेशं ते शरणं जग्मुरादरात् ॥३१॥ कलिर्गुप्तस्वरूपेण युयुधे जनसंश्रितः । गणैशैः संहतः सोऽपि बभूव ह हतोद्यमः ॥३२॥ ततो भयसमायुक्तं त्यक्त्वा हृज्जन्मिनां कलिः । देहधारी समागत्य धूम्रवर्णं ननाम सः ॥३३॥ तुष्टाव पूज्य तं नत्वा धूम्रवर्णं महाबलम् । ज्ञात्वा विघ्नेश्वरं भक्त्या हृष्टरोमा महायशाः ॥३४॥ कलिरुवाच । धूम्रवर्ण नमस्तुभ्यं सर्वेभ्यः सुखदायक । नानारूपधरायैव विघ्नेशाय नमो नमः ॥३५॥ अनंतपादहस्तायानंतबाहुधराय ते । अनंतमायया गुप्तचारिणे नमो नमः ॥३६॥ हेरंबाय नमस्तुभ्यं भक्तसंरक्षकाय च । अभक्तभयदात्रे ते गणेशाय नमो नमः ॥३७॥ आदिमध्यांतहीनायादिमध्यांतभयाय ते । आनंदेभ्यः सदानंददायिने वै नमो नमः ॥३८॥ मायाहीनाय मायाया आधाराय परात्मने । मायिभ्यो मायया मोहदायिने ते नमो नमः ॥३९॥ कर्मणां फलदात्रे ते ज्ञानिभ्यो ज्ञानदायिने । आनंदेभ्यः सदानंददायिने वै नमो नमः ॥४०॥ सहजाय नमस्तुभ्यं स्वानंदाय समाधये । योगाय योगनाथाय ब्रह्मेशाय नमो नमः ॥४१॥ कस्त्वां स्तोतुं समर्थः स्याद्यत्र शांतिं गताः प्रभो । वेदादयो नमाम्येव तेन तुष्टो भवाधुना ॥४२॥ रक्ष मां गणनाथ त्वं दासं शरणमागतम् । अज्ञानयुद्धजं दोषं क्षमस्व करुणानिधे ॥४३॥ एवमुक्तवा कलिस्तस्य पादं गृह्य पपात ह । तमुवाच गणाध्यक्षः स्वभक्तं शरणार्थिनम् ॥४४॥ धूम्रवर्ण उवाच । मा भयं कुरु धर्मघ्न न हन्मि त्वां कदाचन । शरणं मां प्रपन्नं च शृणु मे वच नोहतम् ॥४५॥ स्तोत्रं त्वया कृतं मे यत् कलेर्मलहरं भवेत् । पठते शृण्वते नित्यं सर्वकामफलप्रदम् ॥४६॥ अंते स्वानंददं पूर्णं भविष्यति कले परम् । दृढभक्तिकरं नित्यं योगिभ्यो योगदायकम् ॥४७॥ तिष्ठ त्वं द्वेषमुत्सृज्य धर्मस्य स्वाधिकारात । कृतप्राप्तिं विजानीहि मदाज्ञावशगो भव ॥४८॥ तथेति तं नमस्कृत्य कलिः स्वस्थानगोऽभवत् । धूम्रवर्णो द्विजान् मुख्यान् वसिष्ठादीन् समानयत् ॥४९॥ पुनस्तान् स्थाप्य सर्वेशः कृतं तैः संप्रवर्तयत् । स्वयमंतर्हितो देवः सर्वेभ्यः सुखदायकः ॥५०॥ धूम्रवर्णावतारस्य चरितं कथितं मया । सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः ॥

खं. ८ अ. १७ पान ३९ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सूत महाभाग कथां पापापहारिणीम् । वदसे योगदां पूर्णां श्रुत्वा तृप्ता वयं द्विज ॥१॥ पुराणेषु युगानां तु श्रुत्वा चिह्नानि विस्मिताः । महासंशयसंयुक्ता वयं जाता विशेषतः ॥२॥ कृते स्त्रीणां च स्वातंत्र्यं त्रेतायां ब्रह्मणा कृतम् । द्वापरे संस्कृतं श्वेतकेतुनैकपतिश्रितम् ॥३॥ गौतमेन कथं शप्ता कृतेऽहल्या महासती । इत्यादिबहवोऽस्माभिर्मार्गा दृष्टाः कृते युगे ॥४॥ अन्यत् कृतयुगे प्रोक्तं वर्णाश्रमो न विद्यते । एकवर्णाऽऽश्रमस्थास्ते भवन् संकीर्तिता जनाः ॥५॥ त्रेतायां क्षात्रधर्मं तु चकार प्रपितामहः । ततोऽभवन्नरा वर्णाश्रमस्थास्ते प्रकीर्तितम् ॥६॥ सौरचांद्रभवौ विप्र द्वापरा॑ते स्थितौ नृपौ । पुनः कृतयुगे प्राप्ते राज्यं तौ च करिष्यतः ॥७॥ वर्णाश्रमविभागेन वर्तयिष्यंति मानवाः । किमिदं कौतुकं तत्र विरुद्धवाचकं परम् ॥८॥ युगधर्मेण नष्टास्ताः कलौ पापमये क्रियाः । वर्णाश्रमविभागास्तत्र सिद्धिः कुतो भवत् ॥९॥ कलौ चतुर्गुणेनैव कर्मणा सिद्धिमाप्नुयात् । नरः सर्वत्र संप्रोक्तं कथं तच्च भविष्यति ॥१०॥ अतो युगभवं सर्वं कथयस्व विशेषतः । याथातथ्यं महाभाग सुलभं सुगमार्थकम् ॥११॥ सूत उवाच । युगा नानाविधाः प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः । तदर्थज्ञो न मुह्येत मतभेदप्रमाणतः ॥१२॥ तुरीयदेहगं केचित् कृतं वदंति निश्चितम् । त्रेता सुषुप्तिगा स्वाप्नं द्वापारं जागृतं कलिम् ॥१३॥ तत्रात्मा गुणपः प्रोक्तो सर्वत्रैको महर्षयः । माया सुषुप्तिरूपा सा नानाकारा प्रकीर्तिता ॥१४॥ तस्यां नानाविधायां न व्यभिचारो भविष्यति । यत्र तत्र स्थितं खस्य पतिं पश्यति सा शुभा ॥१५॥ सूक्ष्मं स्थूलं विभिन्नं यत्तया सृष्टं विभागतः । तयोर्गुणेशजं रूपं तदाकारं विभाति च ॥१६॥ भिन्नभावात् समुत्पन्ने जागृत्स्वप्ने न संशयः । तयोः पतिकलत्रादि व्यभिचारयुतं भवेत् ॥१७॥ तत्र संस्थापिता तेन मर्यादा श्वेतकेतुना । श्वेतं स्वप्नं ध्वजो यस्य श्वेतकेतुः स वै स्मृतः ॥१८॥ अनेन युगमानेन ज्ञातव्यं तद्विचक्षणैः । नेमे युगा महाविप्राः कथिता मुनिभिः पुरा ॥१९॥ ध्यानं कृतयुगं केचित् यज्ञं त्रेतां वदंति च । आचारं द्वापरं देहविषयं कलिमेव च ॥२०॥ तत्र ध्याने महाभागा एकवर्णा- श्रमो भवेत् । ज्ञानं तदेव ज्ञातव्यमेकरूपधरं सदा ॥२१॥ यज्ञः कर्ममयः प्रोक्तस्तत्र वर्णाश्रमो भवेत् । अतो वर्णाश्रमा- चारस्त्रेतायां परिकीर्तितः ॥२२॥ एवं नाना विचारेण मुनिभिः कथितं पुरा । न तत्र संशयः कार्यों जनैस्तदर्थयुक्तिभिः ॥२३॥ अधुना युगमाहात्म्यं कथयामि समासतः । कलौ सिद्धिकरं चैव कर्म येन प्रजायते ॥२४॥ आदौ ब्रह्माऽसृजत् कालं धर्मा- धर्मव्यवस्थया । स चतुर्धाऽभवत्तत्र युगरूपः पुरातनः ॥२५॥ कृतं त्रेता द्वापरश्च कलिश्चेति महर्षयः । तेभ्यः सिद्धिप्रदा-

[header] खं. ८ अ. १७ | पान ४० [/header]

नार्थं ददौ मंत्रान् प्रजापतिः ॥२६॥ तं प्रणम्य ययुः सर्वे तपसे वनमुत्तमम् । गणेशं चेतसि ध्यात्वा जेपुर्मंत्रं युगानि च ॥२७॥ निराहारप्रभावेण परितुष्टो गजाननः । भक्त्या तेषां ययौ वर्षसहस्रे वरदः पुरः ॥२८॥ तमागतं समालोक्य प्रणेमुस्ते गणाधिपम् । पूज्य ते तुष्टुवुः सर्वे हर्षगद्गदभाषणाः ॥२९॥ युगपुरुषा ऊचुः । गणेशाय नमस्तुभ्यं भक्तसंरक्षकाय च । नानारूपभृते तुभ्यं हेरंबाय नमो नमः ॥३०॥ भक्तेभ्यः सर्वदायैवाभक्तानां नाशनाय च । परेशाय पराणां ते पराय च नमो नमः ॥३१॥ स्वानंदवासिने तुभ्यं नानामायाप्रचारिणे । सदा स्वानंदभोगस्थ पालकाय नमो नमः ॥३२॥ अमेयशक्तये तुभ्यं नानामायाप्रहारिणे । मायिभ्यो मोहदात्रे वै मायिने ते नमो नमः ॥३३॥ लंबोदराय लोकानामुदरस्थाय ते नमः । एकदंताय शूर्पाकारकर्णाय नमो नमः ॥३४॥ त्रिनेत्राय गजाकारवक्त्राय परमात्मने । चतुर्भुजाय सर्वेषामादिपूज्याय वै नमः ॥३५॥ देवाय देवरूपाय देवदेवाय ते नमः । देवदेवेशकार्याय विघ्नेशाय नमो नमः ॥३६॥ सर्वेषां ज्येष्ठरूपाय मात्रे पित्रे नमो नमः । सततं सर्वपूज्याय ब्रह्मनिष्ठाय ते नमः ॥३७॥ ब्रह्मणे ब्रह्मणां नाथ ब्रह्मभूयप्रदाय च । ब्रह्मभ्यो ब्रह्मदात्रे ते शांति- स्थाय नमो नमः ॥३८॥ किं स्तुमस्त्वां गणेशान यत्र वेदाः शिवादयः । योगरूपा भवंति स्म ततस्ते नमनं शुभम् ॥३९॥ एवमुक्त्वा प्रणेमुस्ते युगा गणपतिं द्विज । स तानुवाच प्रीतात्मा भक्तवात्सल्ययंत्रितः ॥४०॥ श्रीगणेश उवाच । स्तोत्रं भवत्कृतं मे यत् सर्वदं प्रभविष्यति । पठनाच्छ्रवणात् नृभ्यो मत्प्रीतिदायकं भवेत् ॥४१॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्र- तोषितः । भुक्तिमुक्तिप्रदं भावि सर्वमान्यं युगाः किल ॥४२॥ वरान् ब्रूत महाभागा ददामि मनसेप्सितान् । तपसा स्तोत्र- मुख्येन तुष्टो भक्त्या विशेषतः ॥४३॥ युगा ऊचुः । यथा संरचिता देव गजानन वयं त्वया । सामर्थ्यमतुलं देहि तथा ते भक्तिमुत्तमाम् ॥४४॥ कृत उवाच । सदा सत्त्वयुतं मां त्वं कुरु कर्मपरायणम् । स्वधर्मरुचिसंयुक्तं प्रभो मोक्षार्थमुद्यतम् ॥४५॥ त्रेतोवाच । भुक्तिमुक्तिप्रियां मां च कुरु सत्त्वरजोयुताम् । तदर्थं धर्मनिष्ठत्वं गजानन नमोऽस्तु ते ॥४६॥ द्वापर उवाच । भुक्ति- सौख्ययुतं मां त्वं कुरु धर्मपरायणम् । भोगबुद्धिपरार्थं च रजस्तमोयुतं प्रभो ॥४७॥ कलिरुवाच । तामसं देहभोगार्थमुद्यतं सततं प्रभो । विकर्मरुचिसंयुक्तं मां कुरुष्व गजानन ॥४८॥ पुनस्ते तं वदंति स्म युगा हर्षसमन्विताः । एकैकाश्रितभावेन भो कुरुष्व निरंतरम् ॥४९॥ तेषां तद्वचनं श्रुत्वा गणेशस्तानुवाच ह । मेघगंभीरया वाचा सर्वेभ्यः सुखदायकः ॥५०॥ श्रीगणेश उवाच । लक्षांशेन कृते प्राप्ते कलिस्तत्र भविष्यति । शतांशेन च सा त्रेता द्वापरस्त्वयुतांशतः ॥५१॥ यदा

खं. ८ अ. १८ पान ४१ त्रेतायुगं प्राप्तं शतांशेन तदा कृतम् । सहस्रांशेन तत्रैव द्वापरः प्रभविष्यति ॥५२॥ अयुतांशेन पापिष्ठः कलिस्तेन समन्वितः । चरिष्यति न संदेहः परस्परप्रवेशनात् ॥५३॥ द्वापरे समनुप्राप्ते शतांशेन भविष्यति । कलिः सहस्रभागात्रेतायुतांशं कृतं भवेत् ॥५४॥ कलौ शतांशरूपेण द्वापरः प्रभविष्यति । सहस्रभागात्रेता च लक्षांशेन कृतं भवेत् ॥५५॥ धर्माधर्मविचारोण मोहदः स कलिः स्मृतः । धर्मज्ञो मोहकर्माऽसौ द्वापरः परिकीर्तितः ॥५६॥ यशाः प्रिया स्वधर्मस्थात्रेता सर्वत्र संमता । मुक्तिप्रियं कृतयुगं स्वधर्मस्थं प्रकीर्तितम् ॥५७॥ एवं क्रमेण सर्वत्र भविष्यथ युगाः प्रियाः । मां ज्ञात्वा बंधहीनाश्च वाञ्छितार्थप्रदायकाः ॥५८॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो गणवल्लभः । युगा हर्षसमायुक्ताः स्वस्वकर्मपराः बभुः ॥५९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते युगवरप्रदानं नाम सप्तदशोऽध्यायः ॥ ॥श्रीगणेशाय नमः ॥ सूत उवाच । कृते कलिमुखाश्चैव युगाः संति महर्षयः । कृताज्ञापालकाः सर्वे कृतमानभयार्दिताः ॥१॥ तत्रायुः कृततुल्यं वै सर्वेषां जन्मिनां सदा । पापाचारादियुक्तानां सर्वं कृतसमं भवेत् ॥२॥ शापादिकं नराणां तु सफलं कृतभावतः । भवते पापिनामेव यथा सुकृतिनां वचः ॥३॥ तत्र भेदं प्रवक्ष्यामि नरोऽपराधसंयुक्तः । न भवेच्छापभीतः सन् कृते युगप्रमाणतः ॥४॥ तद्वत् त्रेतायुगे विप्र युगास्त्रयः कृतादयः । वर्तते भयसंयुक्तास्त्रेतायां नात्र संशयः ॥५॥ पापिनां सुकृतिनां चायुरादि तत् समं भवेत् । त्रेतायुगप्रमाणेण ज्ञातव्यं द्विजसत्तम ॥६॥ द्वापरे द्वापराज्ञायां संस्थितास्ते युगास्त्रयः । तेन सर्वं तदाकारं फलं भवति कर्मजम् ॥७॥ आयुरादि नराणां च द्वापरेण समं भवेत् । नानाभावास्तदाकारा मया वक्तुं न शक्यते ॥८॥ कलौ युगास्त्रयस्ते तु तदाज्ञावशवर्तिनः । वर्तते तेन कर्मादिफलं कलिसमं भवेत् ॥९॥ आयुरादि महर्षे तु कलितुल्यं न संशयः । सुकृतिनां महापापिनां युगस्य प्रमाणतः ॥१०॥ अतो लेशमयी सिद्धिः कलौ सत्कर्मकारिणाम् । भविष्यति तथा सर्वमासुरेण हतं भवेत् ॥११॥ योगः शांतिप्रदः प्रोक्तः स एव मुनिसत्तम । चतुर्षु युगधर्मेषु समरूपो भविष्यति ॥१२॥ कृते कर्म कृतं चैकफलदं शास्त्रसंमते । त्रेतायां तद्दशाधिक्यं द्वापरे तु शता-

[Header] खं. ८ अ. १८ | पान ४२

[Body] धिकम् ॥१३॥ सहस्रगुणसंयुक्तं भवते सर्वमंजसा । कलौ युगेन संदेहो गणेशवरदानतः ॥१४॥ कलौ तावन्मयं प्रोक्तं विकर्मकृतमंजसा । फलदं द्वापरे तच्च दशाधिक्यं भवेत् परम् ॥१५॥ त्रेतायां तच्छताधिक्यं कृते साहस्रकं भवेत् । युगमानस्य माहात्म्यान्निश्चितं मुनिभिः पुरा ॥१६॥ एवं नानाप्रमाणानि युगेषु कथितानि च । कथितं तत् पुरा विप्राः पुराणेषु समासतः ॥१७॥ अथ सिद्धिं प्रवक्ष्यामि कलौ सर्वार्थदायिनीम् । यथाऽऽचारयुतं कर्म फलदं तत् क्षणाद्भवेत् ॥१८॥ आसुरेण स्वभावेन कलिना सर्वमावृतम् । फलं कर्मभवं विप्र तस्मात् न फलदं भवेत् ॥१९॥ कर्मसिद्धिं कलौ तत्र यदीच्छति जनो हृदि । सर्वादावयुतं कुर्यात् गायत्रीसंभवं जपम् ॥२०॥ हविष्यान्नं तु भुक्त्वा स एकभुक्तपरायणः । ब्रह्मचर्ययुतो जंतुः सत्यभाषी जितेंद्रियः ॥२१॥ शौचाचारसमायुक्तो द्वेषादि स परित्यजेत् । मनसाऽपि स्त्रियं नैव भोगार्थं संस्मरेत् कदा ॥२२॥ यदा देहं समागृह्य नरः कर्मपरायणः । मनसा विषयं चेच्छेत्तदा सिद्धिः कथं भवेत् ॥२३॥ एवमादि स्वधर्मस्थां क्रियां कृत्वा महायशाः । गायत्र्याश्च जपं कुर्यात्तेन विप्रत्ववान् भवेत् ॥२४॥ ततः कृच्छ्रं समा कुर्यात्ततः कर्म समाचरेत् । स सर्वकलिदोषेण मुक्तः सिद्धिमवाप्नुयात् ॥२५॥ यथोक्तविधिना कर्म कृतं येन महात्मना । चतुर्गुणं कलौ विप्राः सिद्धिदं तत् क्षणाद्भवेत् ॥२६॥ आसुरेण स्वभावेन कृतं कर्म द्विजादिभिः । कथं सिद्धिप्रदं तत्र भविष्यति कलौ युगे ॥२७॥ केवलासुरभावेन सत्कर्म मानवेन च । सहस्रगुणितं हर्षात् कृतमासुरगं भवेत् ॥२८॥ सुरासुरस्वभावेन कृतं कर्म शुभाशुभम् । सुरासुरभवं सौख्यप्रदं तच्च भवेत् नृणाम् ॥२९॥ एवं सर्वं समाख्यातं युगधर्मरहस्यकम् । संक्षेपेण कलौ तद्वत् सिद्धिदं मुनिसत्तम ॥३०॥ शृणुयादिदमाख्यानं युगानां मानवः परम् । पठेद्वा पाठयेत् सोऽपि दोषहीनो भवेत्ततः ॥३१॥

[Colophon] ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते युगप्रभावकर्मसिद्धिवर्णनं नाम अष्टादशोऽध्यायः ॥

[हेडर: खं. ८ अ. १९ | पान ४३]

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । मासानां चरितं ब्रूहि सूत सर्वार्थकोविद । मलमासे गणेशस्य पूजनं कीदृशं भवेत् ॥१॥ सूत उवाच । ब्रह्मणोऽगसमुत्पन्नः संवत्सरः प्रतापवान् । मासा द्वादश तस्यांऽगात् समुत्पन्नाः पुरा मुने ॥२॥ छायाया मलमासश्च समुत्पन्नः शुभप्रदः । सह तैर्गणपं ध्यात्वा तपस्तेपे स वत्सरः ॥३॥ षडक्षरं महामंत्रं जजाप ब्रह्मणोदितम् । गणेशस्य सदा ध्यानं चकार हर्षसंयुतः ॥४॥ एवं वर्षसहस्रेण प्रसन्नो वरदोऽभवत् । तमाययौ गणाधीशो भक्तं भक्तजनप्रियः ॥५॥ उवाच तं समाधिस्थं संवत्सरं गजाननः । समास त्वं वरान् ब्रूहि परान् मत्तो हृदीप्सितान् ॥६॥ गणेशवचनं श्रुत्वा संवत्सरो बुबोध तम् । समुत्थाय गणेशानं ननाम भक्तिसंयुतः ॥७॥ समासः पूजयामास यथाविध्युपचारतः । पुनः प्रणम्य विघ्नेशं तुष्टाव करसंपुटः ॥८॥ समाससंवत्सर उवाच । नमस्ते धूम्रवर्णाय वक्रतुंडाय ढुंढये । हेरंबाय परेशाय विघ्नेशाय नमो नमः ॥९॥ शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने । लंबोदराय सर्वादिपूज्याय तु नमो नमः ॥१०॥ अनाथानां सुनाधाय पात्रे हत्र्त्रे नमो नमः । कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः ॥११॥ आदिमध्यांतसंस्थायादिमध्यांतविवर्जित । गणेशाय गणानां ते चालकाय नमो नमः ॥१२॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्रह्मभूताय ब्रह्मिष्ठाय नमो नमः ॥१३॥ सिद्धिवुद्धिप्रदात्रे ते सिद्धिवुद्धिमयाय च । सिद्धिवुद्धिपते तुभ्यं सर्वेशाय नमो नमः ॥१४॥ अनंतविभवायैवानंतमाया- प्रचारिणे । मायिने मायिनां मोहदात्रे मायास्वरूपिणे ॥१५॥ शांतियोगमयायैव शांतियोगधराय ते । शांतियोगप्रदात्रे च योगेशाय नमो नमः ॥१६॥ किं स्तौमि त्वां गणाधीश चिंतामणिस্বরূপिणे । योगिनः शांतिमापन्ना वेदा यत्र विशेषतः ॥१७॥ अतो नमाम्यहं नाथ तेन तुष्टो भव प्रभो । वरान् देहि स्वकार्याणां सिद्धिदान् सुखदायकान् ॥१८॥ भक्तिं ते चरणे नित्यं देहि सर्वभयापहाम् । कालमानकरं ढुंढे वीर्यं देहि स्वभावजम् ॥१९॥ कर्म मासादिषु प्राज्ञैः कृतं तच्छुभदं भवेत् । साक्षित्वं कर्मणां देहि साधुपादप्रपूजनम् ॥२०॥ एवमुक्तवा प्रणेमुस्ते मासाः संवत्सरान्विताः । तानुवाच गणाध्यक्षो वचः स्तोत्रेण तोषितः ॥२१॥ श्रीगणेश उवाच । यद्यत् संप्राथितं मासाः संवत्सर तथास्तु वै । सर्वगाः कालरूपस्था भविष्यथ न संशयः ॥२२॥ सूर्येण संयुताः सर्वे द्वादशदेहधारिणा । फलदाः कर्मणां चैव भविष्यथ विशेषतः ॥२३॥ ब्रह्मार्पणतया कर्म यद्भवत्सु कृतं नरैः । अंते सलोकतां तेभ्यो दातारश्च भविष्यथ ॥२४॥ याथातथ्यविभागेन साक्षिणः सर्वजन्मिनाम् । भविष्यथ तथा भक्ता मयि मोहविवर्जिताः ॥२५॥ आदित्येन परित्यक्तोऽधिमासस्त्वं भविष्यसि । देवताऽहं त्वदीये तु

चरित्रकम् । यः पठेच्छृणुयाद्वाऽपि स कालसुखमाप्नुयात् ॥३३॥

कर्मणां फलदायकः ॥२६॥ सर्वेषु मलरूपं यत् कृतं मासेषु मानवैः । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥२७॥ त्वदीये कालभावे तु कर्म यन् मानवैः कृतम् । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥२८॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धि- प्रदं भवेत् । पठतां शृण्वतां नृणां भावपूरं न संशयः ॥२९॥ कालदोषभवं पापं कालस्योल्लंघनादिकम् । हराभ्येनेन स्तोत्रेण तुष्टोऽहं भुक्तिमुक्तिदः ॥३०॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो गणवल्लभः । संवत्सरः प्रसन्नात्मा स्वकार्यनिरतोऽभवत् ॥३१॥ मासाः स्वकार्यसामर्थ्ययुक्ता हृष्टा बभूविरे । कालभावधराः सर्वे साक्षिणः सर्वकर्मणाम् ॥३२॥ एतत् संवत्सरस्यैव समासस्य चरित्रकम् । यः पठेच्छृणुयाद्वाऽपि स कालसुखमाप्नुयात् ॥३३॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते समासवत्सरचरितं नामैकोनविंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ सूत उवाच । ततो बहौ गते काले मासाः षट् तपसि स्थिताः । निराहारपराः सर्वे गणेशं समतोषयन् ॥१॥ कार्त्तिको मार्गशीर्षश्च माघो वैशाखश्रावणौ । अधिमासस्तथा विप्र गणेशध्यानतत्परः ॥२॥ दशवर्षेषु विघ्नेशस्तान् ययौ वरदायकः। स्तुतः संपूजितस्तैस्तु वरान् ब्रूत स चाब्रवीत् ॥३॥ गणेशवचनं श्रुत्वा मासास्तं प्रणिपत्य च । ऊचुः प्रहृष्टचित्तास्ते भक्त्या नम्रात्मकंधराः ॥४॥ मासा ऊचुः । यदि विघ्नेश सर्वेश वरदोऽसि तदा प्रभो । अस्मासु यत्कृतं कर्म बहुलं कुरु सर्वदा ॥५॥ तेनास्मत्कालसंप्राप्तौ नरा यत्नपरायणाः । भविष्यंति विशेषेण सदा सत्कर्मकारिणः ॥६॥ तद्भक्तिनिलयान्नित्यं कुरु नो गणनायक । त्वद्दासप्रवणांस्तद्भूत् कर्मदोषविवर्जितान् ॥७॥ श्रीगणेश उवाच । अन्येषु सर्वमासेषु कृतं कर्म तदात्मकम्। फलदं संमतं शास्त्रे मदीयवरदानतः ॥८॥ तेभ्यो दशाधिकं कर्म फलदं प्रभविष्यति । मार्गशीर्षे कृतं मासाः शुभदं मानवैः किल ॥९॥ तस्माद्वैशाखमासे तद्भविष्यति दशाधिकम् । तस्मात् कार्त्तिकिके मासे दशाधिकफलप्रदम् ॥१०॥ तस्माद्दशाधिकं माघे कर्म यन्मानवैः कृतम् । तस्माद्दशाधिकं भावि श्रावणे फलदं भवेत् ॥११॥ तस्माद्दशाधिकं प्रोक्तं ढौँढे मासे फलप्रदम् । एवं क्रमेण श्रेष्ठा वै भविष्यथ यथा तपः ॥१२॥ अधिमासस्य देवोऽहं ढुंढिराजो न संशयः । ढौँढमासः

खं. ८ अ. २१ पान ४५ समाख्यातो मया नाम्नाऽधुना महान् ॥१३॥ अमाचिह्नेन संयुक्तः श्रावणो मे प्रियोऽधिकः । नानासिद्धिप्रदो भावी ह्यनुष्ठानवतां नृणाम् ॥१४॥ उपासते श्रावणे मां नानायत्नपरायणाः । उपोषणयुता भाद्रे चतुर्दिनानि मानवाः ॥१५॥ समारभ्य प्रतिपदं चतुर्थ्यंतं मदर्चनम् । चतुर्थ्यां जागरं कुर्यात् पंचम्यां पारणं तथा ॥१६॥ यथाशक्ति द्विजान् भोज्य दद्याद्विपुलदक्षिणाम् । स सर्वसुखमाभोज्यांते स्वानंदमवाप्नुयात् ॥१७॥ मुख्यं पंचसु वै स्नानं मासेषु सर्वभावतः । प्रातःकाले विशेषेणानुष्ठानं श्रावणे मतम् ॥१८॥ एवं मासा भवंतोऽपि भविष्यंति जनैः सदां । सत्कर्मभिर्महाभागाः सेविताः सततं पराः ॥१९॥ मयि भक्तियुता नित्यं सर्वदेवपरायणाः । भविष्यथ मदीयेन वरेणैव विशेषतः ॥२०॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो भक्तवत्सलः । मासा हर्षसमायुक्ताः स्वस्वकार्यरता बभुः ॥२१॥ शृणोति मासचारित्रमेवं पठति यो नरः । स मासफलसंयुक्तो गाणेशो भवतीत्यहो ॥२२॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । षट्सु मासेषु विघ्नेशः पूजनीयो नरैः कथम् । तेषु मुख्यप्रकारेण तुष्टः केन गजाननः ॥१॥ के के सिद्धिं गतास्तेषु गणेशभजनेन वै । तेषां चरित्रकं ब्रूहि सर्वसिद्धिप्रदायकम् ॥२॥ सूत उवाच । अरुणोदयकाले वै स्नानं कुर्यान्नरः सदा । तीर्थेषु व्रतसंयुक्तः स्वस्वशाखाप्रमाणतः ॥३॥ स्वशाखोक्तेन मार्गेण संध्यादिकं समाचरेत् । वैदिकै- स्तांत्रिकैर्मंत्रैः पूजयेद्गणनायकम् ॥४॥ पुराणसंभवैर्वाऽपि यथोपचारसंयुतः । एकभुक् स भवेन्नित्यं नक्तभुक् वा भवेन्मुने ॥५॥ हविष्यान्नं फलहारो निराहारोऽथवा पुनः । ब्रह्मचर्यसमायुक्तो नखलोमयुतो भवेत् ॥६॥ पृथ्व्यां शयनकारी स सत्यवाङ् मौनधारकः । यथा स्वधर्मसंयुक्तो व्रतं मासात्मकं चरेत् ॥७॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि महामुने । स्वस्वधर्मयुतो भूत्वा व्रतं मासात्मकं चरेत् ॥८॥ स्त्रीणां व्रतमिदं पुण्यं सधवानां सुखप्रदम् । विधवानां विशेषेण परं मासात्मकं भवेत् ॥९॥ तेषु पंचकमानंदाच्चरेन् मुख्यं सदा जनः । गणेशपूजनं विप्र भोजनं दीपदानकम् ॥१०॥ शमीमंदारसेवां च प्रदक्षिणपरा-

खं. ८ अ. २१ पान ४६


यणाम् । गवां शुश्रूषणं तद्वत् सर्वसिद्धिप्रदं भवेत् ॥११॥ एवमादि गणेशस्य प्रियं नानाविधं चरेत् । सदा तन्निष्ठभावेन तिष्ठेन् मासव्रती मुने ॥१२॥ अन्यान् शंभुमुखान् देवान् पूजयेन् मानवो मुने । स्वस्वेच्छायुतभावेन व्रतं मासमयं चरेत् ॥१३॥ आवश्यकैन भावेन मासाः सेव्या इमे नरैः । धर्मार्थकामामोक्षाणां ब्रह्मभूयस्य दायकाः ॥१४॥ यं यमिच्छति तं तं वै लभते नात्र संशयः । मासात्मकेन मुख्येन व्रतेन मानवः सदा ॥१५॥ अत्रेतिहासमुख्यं ते कथयामि समासतः । मासव्रतेन ये सिद्धिं लेभिरे भक्तिसंयुताः ॥१६॥ शंखासुरो महादैत्यो ब्रह्मांडाधिपतिः पुरा । बभूव स जहारैव वेदान् स्मृतिसमन्वितान् ॥१७॥ ततो हाहा कृतं सर्वैः कर्महीनप्रभावतः । वर्णसंकरजं कर्म बभूवे सर्वमंडले ॥१८॥ ततो मुनिगणैर्युक्ता देवा विधिमुखा ययुः । विष्णुं च शरणं सर्वे तुष्टुवुर्वेदहेतवे ॥१९॥ ततो विष्णुः स्वयं शंभुं जगाम तान् विसृज्य सः । तं जगाद महाभागं विनयेन समन्वितः ॥२०॥ विष्णुरुवाच । शंखं वेदहरं शंभो दुर्जयं देवतादिभिः । जेष्यामि त्वत्प्रसादेन तत्रोपायं वदस्व मे ॥२१॥ श्रीशिव उवाच । समीपे कार्त्तिको मासो जनार्दन समागतः । तत्र मासव्रतेन त्वं तोषयस्व गजाननम् ॥२२॥ तेन विघ्नविहीनस्त्वं विजेष्यसि महाबलम् । शंखासुरं न संदेहो नान्यथा पुरुषोत्तम ॥२३॥ श्रुत्वा तं शंकरं नत्वा विष्णुः परपुरंजयः । गतो बदरिकाण्यं व्रतार्थं भक्तिसंयुतः ॥२४॥ तत्रैकाक्षर- मंत्रस्य पुरश्चरणमुत्तमम् । चकार गणनांथं स तोषयामास यत्नतः ॥२५॥ कार्त्तिके पंचकं सेव्यं गाणेशं सर्वसिद्धिदम् । मार्गशीर्षे गणेशानं प्रणम्य प्रययौ सुरान् ॥२६॥ ततो बुद्धिपतिं स्मृत्वा विचारमकरोत् हृदि । केनोपायेन दैत्येशं विजेष्यामि सुदारुणम् ॥२७॥ तत्र स्फूर्तिः समुत्पन्ना गणेशकृपया हृदि । मात्स्येनैव स्वरूपेण विजयो मे भविष्यति ॥२८॥ एतस्मिन्नंतरे तत्र बभूवाऽऽकांशजां पराम् । वाणीं शुश्राव देवेशः केशवः परवीरहा ॥२९॥ मात्स्यरूपेण शंखं तं जहि सर्वभयंकरम् । मां स्मृत्वा नात्र संदेहो विजयस्ते भविष्यति ॥३०॥ ततो गणपतिं स्मृत्वा मत्स्यो भूत्वा जनार्दनः । घोरं युद्धं स कृत्वा तं जघान शंखमुल्बणम् ॥३१॥ सांगान् वेदान् समानाय्य ददौ तान् ब्रह्मणे प्रभुः । स्तुतः संपूजितो देवैर्मुनिभिः स्वस्थलं ययौ ॥३२॥ एवं कार्त्तिकमासे तु स्नानादिव्रततेजसा । हतः शंखासुरस्तेन विष्णुना मत्स्यरूपिणा ॥३३॥ अन्यच्च शृणु विप्रेंद्र कथां पापप्रणाशिनीम् । कार्त्तिकव्रतसंयुक्तां पुरातनभवां पराम् ॥३४॥ पौलस्त्यो ब्राह्मणः कश्चित् सोमदत्त इति श्रुतः । स्वधर्मनिरतो नित्यं तपस्वी शुचिमानसः ॥३५॥ जगाम स गणेशस्य भक्त्यर्थं गौतमं मुनिम् ।


खं. ८ अ. २१ पान ४७ पप्रच्छ विनतो भूत्वा भक्त्यर्थं योगिनां वरम् ॥३६॥ सोमदत्त उवाच । केनोपायेन विघ्नेशः सद्यो वै दृष्टिगो भवेत् । क्षणभंगुरदेहत्वात्तदुपायं वद प्रभो ॥३७॥ गौतम उवाच । समीपे कार्तिको मासः समायातो महामुने । व्रतं मासात्मकं कार्यं दर्शनार्थं महाप्रभोः ॥३८॥ एवमुक्त्वा विधिं तस्मै कथयित्वा ददौ परम् । स्थानं स्वस्याश्रमे सोऽपि तत्रारंभं चकार ह ॥३९॥ एकनिष्ठः स्वभावेन परं गाणेशपंचकम् । सेवयामास भक्त्या स कार्तिकव्रतसंयुतः ॥४०॥ उपोषणयुतस्तत्र ध्यात्वा हृदि गजाननम् । जजाप मंत्रराजं स षडक्षरं शुभप्रदम् ॥४१॥ तत्र चित्रं समभवत् समाप्तिसंभवे दिने । तच्छृणुष्व महाविप्र दृढनिश्चयदं भवेत् ॥४२॥ पूजायां संस्थितो विप्रः सोमदत्तो महायशाः । कार्तिकां पूर्णिमायां स एकासनविधौ रतः ॥४३॥ तत्र दूर्वाशमीमंदारपुष्पाणि स्थितानि तु । अकस्माद्ब्राह्मणः कश्चित्तानि गृह्य पपाल ह ॥४४॥ सोमदत्तः स्वयं तत्र मौनवानासने स्थितः । नोत्थितो नियमे संस्थः शुशोच गणपं स्मरन् ॥४५॥ ततस्तेन विचारेण तदर्थं ज्ञातमद्भुतम् । लोमानि देहसंस्थानि सर्वौषधिमयानि च ॥४६॥ अतो लोमानि सर्वाणि त्वचायुक्तानि भावतः । दास्यामि गणनाथाय दूर्वा शम्यादिकारणात् ॥४७॥ ततः शस्त्रं समागृह्य शिरश्छेत्तुं समुद्यतः । शिखायुक्तं गणेशाय दूर्वार्थं स्वस्य चार्पयन् ॥४८॥ स्वकंठे शस्त्रघातं स चकार गणनायकः । तावत् समाययौ तत्र ब्राह्मणस्य स्वरूपधृक् ॥४९॥ शमीमंदार- दूर्वादीन् गृह्य तस्मै ददौ पुनः । उवाच पूजय त्वं तु गणेशं हठतत्पर ॥५०॥ दृष्ट्वाऽतिहर्षसंयुक्तः सोमदत्तो महायशाः । नियमं स्वं चकारैव तमुवाच प्रणम्य तु ॥५१॥ सोमदत्त उवाच । त्वं कोऽसि वद मां नाथ हृत्वा दूर्वादिकं पुरा । समायातः पुनः सर्वं दत्तं मे नियमात्मकम् ॥५२॥ न त्वं विप्रोऽसि देवेश साक्षाद्विघ्नेश्वरो भवान् । निश्चयं मे हठं दृष्ट्वा परीक्षार्थं समागतः ॥५३॥ दर्शयस्व निजं रूपं नोचेद्देहं त्यजाम्यहम् । सत्यं वद महाभाग तेन तृप्तो भवामि च ॥५४॥ ततो व्रतप्रभावेण भक्त्या नियमयुक्तया । संतुष्टो गणराजः स दर्शयामास स्वं वपुः ॥५५॥ चतुर्भुजं त्रिनेत्रं च शुंडादंडविराजितम् । सिद्धिवुद्धिसमायुक्तं परश्वादिसुचिह्नितम् ॥५६॥ नानाभूषणशोभाढ्यं शेषनाभिधरं परम् । चिंतामणिं मणिं हृत्स्थं लंबोदरैक- दंतकम् ॥५७॥ मूषकोपरि संस्थं तं दृष्ट्वा वस्त्रविराजितम् । ननाम सोमदत्तः स हर्षनिर्भरमानसः ॥५८॥ सरोमांचो ननर्ताऽसौ साश्रुनेत्रः प्रतापवान् । न विवेद विधिं किंचिद्देहातीत इवाबभौ ॥५९॥ ततो हर्षं समागृह्य पूजयामास तं प्रभुम् । पुनः प्रणम्य हेरंबं तुष्टाव स कृतांजलिः ॥६०॥ सोमदत्त उवाच । गणेशाय परेशाय सदा शांतिप्रदायिने । योगिनां

खं. ८ अ. २१ | पान ४८ योगरूपाय हृदिस्थाय नमो नमः ॥६१॥ विघ्नेशाय महाविघ्नविघ्नदाय परात्मने । विघ्नहर्त्रे स्वभक्तानां सत्ताधाराय ते नमः ॥६२॥ अनादये महाकाल कालाय कालरूपिणे । अंते विहारयुक्तायादिनाथाय नमो नमः ॥६३॥ विनायकाय देवाय सर्वेषां नायकाय च । नायकेभ्यः पदादीनां दात्रे तुभ्यं नमो नमः ॥६४॥ लंबोदराय सर्वेषामुदरस्थाय ते नमः । अपारोदारभावाय ब्रह्मेशाय नमो नमः ॥६५॥ आदिमध्यांतहीनाय तदाकारस्वरूपिणे । स्वानंदपतये तुभ्यं खसंवेद्याय ते नमः ॥६६॥ सिद्धि- दात्रे सुभक्तेभ्यो दुष्टानां सिद्धिहारिणे । सिद्धिपते महासिद्धिरूपाय ते नमो नमः ॥६७॥ बुद्धिपते सुबुद्धीनां दात्रे साधु- जनप्रिय । दुर्बुद्धिदायिने तुभ्यं दुष्टेभ्यो वै नमो नमः ॥६८॥ संप्रज्ञातस्वरूपायथासंप्रज्ञातं महाशिरः । तयोर्योगे नराकार गजाकाराय ते नमः ॥६९॥ किं स्तौमि गणनाध त्वां सदा योगस्वरूपिणे । अतस्ते नमनं कृत्वा कृतकृत्यो भवाम्यहम् ॥७०॥ धन्योऽहं सर्वभूतेषु त्वां दृष्ट्वा गणनायकम् । कुलं शीलं यशो धन्यं जनकौ तप आश्रमः ॥७१॥ धन्यं व्रतं गणाधीश महत् कार्तिकमासगम् । तस्याचरणमात्रेण त्वं मे दृष्टिगतः प्रभो ॥७२॥ भक्तिं त्वदीयपादेषु देहि मे द्विरदानन । नान्यद्याचे भ्रमैर्युक्तं गाणपत्यपरायणः ॥७३॥ तस्य तद्वचनं श्रुत्वा गणेशस्तमुवाच ह । यद्यदिच्छसि तत्तत्ते सफलं प्रभवष्यिति ॥७४॥ गाणपत्यप्रियोऽत्यंतं भविष्यसि महामुने । भक्तो मदीयपादस्य सर्वमान्यो भविष्यसि ॥७५॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विप्र पठतां शृण्वतां सदा ॥७६॥ एवमुक्त्वाऽन्तर्दधेऽसौ विघ्नेशः करुणानिधिः । सोमदत्तो महाभागो गौतमं प्रणनाम ह ॥७७॥ तदादि स मुनिः ख्यातो बभूव गणपप्रियः । योगी योगविदां श्रेष्ठः सर्ववेदार्थतत्त्ववित् ॥७८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः ॥

खं. ८ अ. २२ पान ४९ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । कर्णाटे ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः । नाम्ना सर्वप्रियः सोऽपि कार्तिकव्रतमाचरत् ॥१॥ प्रातः स्नानं स कृत्वा तु गणेशपूजने रतः । नियमेन समाविष्टो गाणपत्यप्रियोऽभवत् ॥२॥ तत्रैकः क्षत्रियः शुद्धः स्नानं कृत्वा शमीं पराम् । जलेनासिच्य भीमाख्यः प्रदक्षिणपरोऽभवत् ॥३॥ अन्यः कैवर्तकस्तत्र तथा मंदारकं मुने । पूज्य मेघप्रियः स्नात्वा प्रदक्षिणपरोऽभवत् ॥४॥ वैश्यो गवां पुष्पवाहः शुश्रूषायां रतोऽभवत् । स्नात्वा गणपतिं ध्यात्वा गोरूपधरमादरात् ॥५॥ शूद्रः श्यामलसंज्ञस्तु दीपदानं चकार ह । गणेशप्रीतये नित्यं स्नात्वा मासव्रते रतः ॥६॥ अन्यो वैश्यो महाबाहुर्नाम्ना स्नात्वा व्रते स्थितः । ब्राह्मणान् भोजयामास नित्यं भावपरायणः ॥७॥ कारुकः पद्मनामा वै स्नात्वा नित्यं नमाम ह । गणेशं भावसंयुक्तः कार्तिकव्रतसंस्थितः ॥८॥ शूद्रः कश्चिन्महीपालो नाम्ना गुणयुतोऽभवत् । तीर्थं कार्तिकमासे स जग्राह गणपस्य तु ॥९॥ एवं नाना जनास्तत्र गणेशप्रीतये मुने । स्नात्वा किंचित् स्वभावेनाभजंस्तं गणनायकम् ॥१०॥ रोगवंध्यादिदोषैस्ते मुक्ता जाता विशेषतः । समाप्ते व्रतमुख्ये तु धनधान्ययुता बभुः ॥११॥ अंते स्वानंदगाः सर्वे गणेशं नम्य तत्क्षणात् । ब्रह्मभूता बभूवुश्च कार्तिकव्रतपुण्यतः ॥१२॥ अतः कार्तिकमासस्थं व्रतं कार्यं विशेषतः । गणेशप्रीतये विप्र सर्वसिद्धिप्रदायकम् ॥१३॥ नियमेन समा भक्तिर्न भूता न भविष्यति । किंचिन्नियम- संयुक्तो गणेशं वशमानयेत् ॥१४॥ नियमेन कृतं किंचिद्गणेशप्रीतये नरैः । भवेत् कोटिगुणं विप्र सर्वसिद्धिप्रदायकम् ॥१५॥ कार्तिके स्नानमत्यंतं मुख्यं विघ्नेशसेवनम् । यथाशक्ति कृतं सर्वसिद्धिदं प्रभवष्यिति ॥१६॥ करोति यः कार्तिके चेत् पंचकं गणपप्रियम् । स गणेशप्रियोऽत्यंतं भवत्यत्र न संशयः ॥१७॥ दानं होमादिकं किंचित् कार्तिकेऽनंतपुण्यदम् । भवेत्तु गणनाधाय चार्पितं कर्मजं फलम् ॥१८॥ बहुनात्र किमुक्तेन कार्तिके नमनं सकृत् । गणेशाय कृतं नित्यं तदक्षयप्रदं भवेत् ॥१९॥ इदं कार्तिकमासस्य माहात्म्यं कथितं मया । गणेशलोकदं पुण्यं इह सौख्यप्रदं परम् ॥२०॥ यः शृणोति नरो भक्त्या पठते भावसयुतः । सोऽपि कामानवाप्यैव गाणपत्यप्रियो भवेत् ॥२१॥ अन्यदेवपरा ये वै कार्तिकव्रतसंस्थिताः । तेषां लोकसुखं सर्वमंते भुंजंति निश्चितम् ॥२२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः ॥

खं. ८ अ. २३ पान ५० ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । संक्षेपेण महाभाग मार्गशीर्षभवं परम् । माहात्म्यं वद सूत त्वं गणेशभक्तिदायकम् ॥१॥ सूत उवाच । अंधकासुरनामा वै दैत्यः परमदारुणः । जित्वा त्रिभुवनं सर्वं चकार राज्यमुत्तमम् ॥२॥ देवा वनस्थिताः सर्वे भययुक्ताः विशेषतः । वधार्थं तस्य चोद्युक्ता लेभिरे न किमप्यहो ॥३॥ ततः शंभुः परां चिंतामापेदे मुनिभिः सह । जगाम सहसा तत्र नारदः करुणानिधिः ॥४॥ तं दृष्ट्वा हर्षसंयुक्ता देवाः शंकरमुख्यकाः । पप्रच्छुस्ते महाभागं दुःखशोक- युताः परम् ॥५॥ श्रीशिव उवाच । अंधकेन जिताः सर्वे वयं योगींद्रसत्तम । गृहीतुं पार्वतीं पत्नीं भावार्थमुद्यतोऽभवत् ॥६॥ कर्मनाशप्रभावेणोपोषणेन समन्वितान् । देवांस्तान् रक्ष विप्रेश द्विजान् कर्मपरायणान् ॥७॥ अंधकस्य वधोपायं वद त्वं सर्ववित्तम । करिष्यामो वयं तं तु भक्तियुक्ता महामते ॥८॥ नारद उवाच । समीपे मार्गशीर्षस्तु संप्राप्तः सर्वसिद्धिदः । व्रतं मासात्मकं कार्यं गणेशप्रीतये त्वया ॥९॥ ततो व्रतप्रभावेण जेष्यसे दैत्यपुंगवम् । अंधकं नाम संदेहो विघ्नेशस्य प्रसादतः ॥१०॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । वीणागानरतो विप्र नम्य तं स्वेच्छया ययौ ॥११॥ ततो देवगणैर्युक्तो मुनिभिः शंकरः स्वयम् । मार्गशीर्षभवं मुख्यं व्रतं चकार वैघ्नपम् ॥१२॥ गणेशपंचकं नित्यं सेवयामास यत्नतः । उषः स्नात्वा विशेषेण गणेशमभजत् प्रभुम् ॥१३॥ उपोषणसमायुक्तः शंकरोऽहर्निशं परम् । तमेव चिंतयन् भक्त्या ध्यानसंस्थो बभूव ह ॥१४॥ एवं मासव्रतं पूर्णं शिवः कृत्वा द्विजोत्तम । पूज्य भोज्य स्वयं देवश्चकार पारणं मुने ॥१५॥ ततो व्रतप्रभावेण संतुष्टो गणनायकः । आययौ शंकरं तत्र वरदानार्थमादरात् ॥१६॥ सिद्धिबुद्धियुतं वीक्ष्य मूषकोपरि संस्थितम् । विघ्नेशं हर्षसंयुक्तः शंकरः प्रणनाम तम् ॥१७॥ शिवः पूज्य गणाधीशं देवैर्मुनिभिरादरात् । तुष्टाव हृष्टरोमाऽसौ प्रबद्धकरसंपुटः ॥१८॥ श्रीशिव उवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ढुंढये । परेशाय च हेरंबाय पाशिने नमो नमः ॥१९॥ मूषकवाहनायैव नमः परशुपाणये । दंताभयधरायैव त्रिनेत्राय नमो नमः ॥२०॥ शूर्पकर्णाय वीराय चंद्ररेखाधराय ते । सिंदूरभूषणायैव रक्तरंगाय ते नमः ॥२१॥ हेरंबाय महाविघ्नवारणाय गजानन । आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः ॥२२॥ स्वानंदवासिने तुभ्यं स्वानंदमयमूर्तये । सर्वाकाराय सर्वेषां मात्रे पित्रे नमो नमः ॥२३॥ अनंतोदरभावाय ब्रह्मणां पतये नमः । ब्रह्मभूताय देवाय दैत्यदानवमर्दिने ॥२४॥ अनंतविभवायैव भक्तपालनधर्मिणे । अभक्तानां विनाशाय खेलकाय नमो नमः ॥२५॥ योगाय योगनाथाय योगिने योगदायिने । सदा शांतिस्वरूपाय शांतिशाताय ते नमः ॥२६॥

किं स्तौमि त्वां गणेशान ब्रह्मणस्पतिरूपिणम्। योगिनो वेदवेदांताः शांतिं यत्र भजंति च ॥२७॥ धन्योऽहं देवपैर्देवै- र्मुनिभिर्गणनायक। दर्शनात्तेऽद्य पादस्य परात्परतरस्य च ॥२८॥ सामर्थ्यं देहि विघ्नेश ज्ञानरूपं त्वयि स्थितम्। आज्ञानां- धकनाशार्थं भक्तिं तेऽव्यभिचारिणीम् ॥२९॥ एवमुक्त्वा ननर्ताऽसौ महादेवः सुरर्षिभिः। तं जगाद गणाधीशो भक्तं भक्तजनप्रियः ॥३०॥ श्रीगणेश उवाच। वज्रपंजरकं मे त्वं गृह्ण दैत्येंद्रसत्तमम्। जहि ज्ञानमयं शंभो विजयी सर्वदा भव ॥३१॥ भक्तिं मदीयपादे त्वं लभसेऽनन्यवृत्तिजाम्। यद्यदिच्छसि तत्तत्ते सफलं तु भविष्यति ॥३२॥ त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः। शृणुयात् स लभेत् सर्वं वाञ्छितं सर्वदा शिव ॥३३॥ भुक्तिं मुक्तिं पुत्रपौत्रधनधान्यादिकं लभेत्। भक्तिं मे ब्रह्मभूतत्वं श्रवणान्नात्र संशयः ॥३४॥ सूत उवाच। एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः। शिवः प्रणम्य तं वाक्यं जगाद भक्तिलालसः ॥३५॥ श्रीशिव उवाच। वज्रपंजरकं नाथ ब्रूहि मे गणप्रियम्। ज्ञानमयं महांधस्य नाशकं सुखदायकम् ॥३६॥ श्रीगणेश उवाच। आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननम्। वज्रपंजरकं ग्राह्यं सर्वाज्ञानविनाशनम् ॥३७॥ त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचंद्रम्। नराकारदेहं सदा योगशांतं गणेशं भजे सर्ववंद्यं परेशम् ॥३८॥ एवं ध्यात्वा गणेशानं मानसैरुपचारकैः। पूजयेत्तं नमस्कृत्य धारयेद्वज्रपंजरम् ॥३९॥ बिंदुरूपो वक्रतुंडो रक्षतु मे हृदि स्थितः। देहांश्चतुर्विधांस्तत्वांस्तत्वाधारः सनातनः ॥४०॥ देहमोहयुतं ह्येकदंतः सोऽहं स्वरूपधृक्। देहिनं मां विशेषेण रक्षतु श्रमनाशकः ॥४१॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान्। सदा रक्षतु मे बोधानंदसंस्थो ह्यहर्निशम् ॥४२॥ सांख्यान् रक्षतु सांख्येशो गजाननः सुसिद्धिदः। असत्येषु स्थितं मां स लंबोदरश्च रक्षतु ॥४३॥ सत्सु स्थितं सुमोहेन विकटो मां परात्परः। रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥४४॥ आनंदेषु स्थितं नित्यं मां रक्षतु समात्मकः। विघ्न- राजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥४५॥ अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपधृक्। मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥४६॥ स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक्। रक्षतु योगभावेन संस्थितो भवनायकः ॥४७॥ अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः। निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥४८॥ योगशांतिधरो मां तु रक्षतु योगसंस्थितम्। गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥४९॥ पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः। वाह्यां याम्यां च नैरृत्यां चिंतामणिर्वरप्रदः ॥५०॥ रक्षतु पश्चिमे ढुण्ढिर्हेरंबो वायुदिक् स्थितम्। विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥५१॥ ऊर्ध्वं

सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा । सर्वांगेषु मयूरेशः पातु मां भक्तिलालसः ॥५२॥ यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः । परशुपाशसंयुक्तो वरदाभयधारकः ॥५३॥ इदं गणपतेः प्रोक्तं वज्रपंजरकं परम् । धारयस्व महादेव विजयी त्वं भविष्यसि ॥५४॥ य इदं पंजरं धृत्वा यत्र कुत्र स्थितो भवेत् । न तस्य जायते कापि भयं नानास्वभावजम् ॥५५॥ यः पठेत् पंजरं नित्यं स ईप्सितमवाप्नुयात् । वज्रसारतनुर्भूत्वा चरेत् सर्वत्र मानवः ॥५६॥ त्रिकालं यः पठेन्नित्यं स गणेश इवापरः । निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥५७॥ यः शृणोति गणेशस्य पंजरं वज्रसंज्ञकम् । आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥५८॥ धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् । सर्वसंपत्समायुक्तमैश्वर्यं पठनाल्लभेत ॥५९॥ न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा । शंकरादेर्महादेव पठनादस्य नित्यशः ॥६०॥ यं यं चिंतयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् । पठनादस्य विघ्नेश पंजरस्य निरंतरम् ॥६१॥ लक्षावृत्तिभिरेवं स सिद्धपंजरको भवेत् । स्तंभयेदपि सूर्यं तु ब्रह्मांडं वशमा- नयेत् ॥६२॥ एवमुक्त्वा गणेशानोऽतर्दधे मुनिसत्तम । शिवो देवादिभिर्युक्तो हर्षितः संबभूव ह ॥६३॥ लक्षावृत्तिं चकाराऽसौ यथाविधि परायणः । सिद्धपंजरको भूत्वा ययावंधकदैत्यपम् ॥६४॥ गणेशं मनसा ध्यात्वा कृत्वा युद्धं सुदारुणम् । त्रिशूलेनांधकं सोऽपि विव्याध गर्वसंयुक्तम् ॥६५॥ एवमंधकदैत्येशं जित्वा शंभुः प्रतापवान् । देवान् संस्थापयामास स्वस्थानेषु सुनिर्भयान् ॥६६॥ विश्वं स्वधर्मसंयुक्तं चकार शंकरः स्वयम् । मार्गशीर्षव्रतेनैव पंजरेण समन्वितः ॥६७॥ इदमंधकनाशाख्यं चरितं यः शृणोति वा । पठेद्वा स लभेत् प्रीतिं गणेशे सर्वसिद्धये ॥६८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्ये वज्रपंजरकथनं नाम त्रयोविंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ सूत उवाच । भारद्वाजो द्विजः कश्चिन्नाम्ना साधुरिति स्मृतः । गणेशभजने प्रीतिसंयुक्तोऽभू- न्निरंतरम् ॥१॥ जगाम मुनिमुख्यं स एकदा भक्तिसंयुतः । भरद्वाजं प्रणम्यादौ पप्रच्छ विनयान्वितः ॥२॥ साधुरुवाच । गणेश- प्राप्तये स्वामिन् वदोपायं सुसिद्धिदम् । येनात्मानं गणाधीशो दर्शयेन् मे महामुने ॥३॥ भरद्वाज उवाच । मार्गशीर्षव्रतं

खं. ८ अ. २४ पान ५३ पुत्र कुरु शीघ्रं समागतम् । तेन त्वं गणनाथस्य प्रियोऽत्यंतं भविष्यसि ॥४॥ एवमुक्त्वा भरद्वाजो कथयामास भावतः । विधियुक्तं व्रतं पूर्णं गणेशपंचकैर्युतम् ॥५॥ साधुस्तं नम्य तत्रस्थश्चकार व्रतमुत्तमम् । उपोषणपरो भूत्वा तोषयामास विघ्नपम् ॥६॥ समाप्तिसंभवे तत्र दिवसे गणनायकः । द्विजस्वरूपधरो भूत्वा ययौ तस्याश्रमं शुभम् ॥७॥ उवाच तं महाभागं पूजांते मुनिमुख्यकम् । भोजनं देहि मे विप्र तृप्तिकारकमुत्तमम् ॥८॥ तथेति तं प्रणम्यादौ पूपुज भक्तिसंयुतः । भोजया- मास भक्त्या स नानारसयुतान्नकैः ॥९॥ स भुक्त्वा सकलान्नं तमुवाच क्षुधितो भृशम् । देहि तृप्तिकरं भक्ष्यं व्रजामि विमुखो न चेत् ॥१०॥ श्रुत्वाऽतिविस्मयाविष्टो विचारमकरोद् हृदि । शतप्रस्थमितं चान्नं भक्षितं मे द्विजेन ह ॥११॥ तथापि तृप्तिहीनोऽयं स्थितः कुर्वे किमप्यहो । स्वयं मां छलतुं यातो गणेशो द्विजस्वरूपधृक् ॥१२॥ पुराणेषु महाविप्रैः कथितं तृप्तिकारकम् । गणेशस्यैकदूर्वाया भक्षणं नात्र संशयः ॥१३॥ अत एनं करिष्यामि तृप्तं दूर्वासमन्वितः । एवं विचार्य साधुः स दूर्वां चिक्षेप चांधसि ॥१४॥ गणेशं हृदि संचिंत्य पायसं गृह्य सत्वरः । दूर्वया संयुतं तस्मै ददावन्नं सुभक्तितः ॥१५॥ तृप्तो द्विजः प्रसन्नात्मा तमुवाच सुहर्षितः । ज्ञातं भक्तिरहस्यं तु गणेशस्य त्वया मुने ॥१६॥ तेनाऽहं तृप्तिसंयुक्तः संशयो न कृतस्त्वया । वरं ब्रूहि महाभाग दास्यामि विनयाच्च ते ॥१७॥ साधुरुवाच । यदि त्वं वरदो मेऽसि तदात्मानं प्रदर्शय । गणेशस्त्वं न संदेहो मम भाग्यात् समागतः ॥१८॥ तस्य तद्वचनं श्रुत्वा ब्राह्मणो गणपोऽभवत् । तं दृष्ट्वा हर्षितोऽत्यंतं साधुः साधुगुणान्वितः ॥१९॥ प्रणम्य पूजयामास तुष्टाव स कृतांजलिः । गणेशभक्तिसंयुक्तः साश्रुनेत्रो महायशाः ॥२०॥ साधुरुवाच । हेरंबाय नमस्तुभ्यं त्रिनेत्राय परात्मने । अनाकाराय देवाय साकराय नमो नमः ॥२१॥ लंबोदराय वीराय शूर्पकर्णाय ढुंढये । अनादये परेशाय गणेशाय नमो नमः ॥२२॥ स्वानंदवासिने तुभ्यं भक्तभावस्वरूपिणे । भक्तेशाय सुभक्त्या वै संतुष्टाय नमो नमः ॥२३॥ सर्वाकाराय सर्वादिपूज्याय परमात्मने । ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥२४॥ निराकाराय सर्वेषां पूज्याय परमप्रिय । विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥२५॥ मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः । ब्रह्मणे विष्णवे तुभ्यं शंकराय नमो नमः ॥२६॥ शक्तये सूर्यरूपायेंद्राय वायुस्वरूपिणे । चंद्राय वरुणायैव यमाय ते नमो नमः ॥२७॥ अग्नये नैर्ऋतायैव कुबेराय धराधर ।

खं. ८ अ. २४ पान ५४

नराय पशुरूपाय नमो नागासुराय ते ॥२८॥ चराचरमयायैव चराचरविवर्जित । समाय सहजायैव स्वसंवेद्याय ते नमः ॥२९॥ योगाय शांतिनाथाय शांतिदाय नमो नमः । किं स्तौमि त्वां गणाधीश योगाकार नमो नमः ॥३०॥ धन्योऽहं सर्वभावेन तवांघ्रियुगदर्शनात् । वरं देहि गणेशान तव भक्तिं दृढात्मिकाम् ॥३१॥ एवं स्तुत्वा गणाधीशं साधुस्तं प्रणनाम च । तमुवाच गणेशानो भक्तं भक्तजनप्रियः ॥३२॥ श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । यद्यदिच्छसि तत्तत्ते सफलं प्रभवष्यिति ॥३३॥ त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनम् । भविष्यति महाभाग पठतां शृण्वतां सदा ॥३४॥ सर्वसिद्धिप्रदं पूर्णं मत्प्रसादादिदं परम् । नानाकार्यकरं भावि अंते स्वानंददायकम् ॥३५॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः । साधुस्तं हृदि सं ध्यात्वाऽभवत्तत्रैव संस्थितः ॥३६॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः । मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः ॥३७॥ अन्यच्च शृणु विप्रेन्द्र चरित्रं सर्वसिद्धिदम् । मार्गशीर्षभवं चित्रं श्रवणात् पठनान्नृणाम् ॥३८॥ एकः कैवर्तकः कश्चिन्नाम्ना शंबुरिति स्मृतः । स मार्गशीर्षमाहात्म्यं शुश्राव गणपाश्रितम् ॥३९॥ समागते मार्गशीर्षे स्नानं कृत्वा महामतिः । गणेशं प्रणनामाऽथ नित्यं कुटुंबपोषकः ॥४०॥ ततः परं नृपस्यैव चकार सेवनं सदा । पौषे मृतश्च तं धृत्वा गाणेशाः स्वपदं ययुः ॥४१॥ तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह । मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः ॥४२॥ तदपि ब्रह्मभूतः स बभूव व्रतसेवनात् । एवं नाना जना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै ॥४३॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगामिनः । किंचिन्नियमसंयुक्ताः किं पुनर्विधिचारिणः ॥४४॥ इदं यः शृणुयान्नित्यं मार्गशीर्षे नरोत्तमः । पठेत् स सिद्धिसंयुक्तो भविष्यति निरंतरम् ॥४५॥ मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो मया । कथितं किं पुनः श्रोतुमिच्छसि मुनिसत्तम ॥४६॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्यसाधुचरितवर्णनं नाम चतुर्विंशोऽध्यायः ॥